Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 16
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 2 — Mumukṣuvyavahāra
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
विशेषेण महाबुद्धे संसारोत्तरणे नृणाम् ।
सर्वत्रोपकरोतीह साधुः साधुसमागमः
2
Keep
साधुसङ्गतरोर्जातं विवेककुसुमं सितम् ।
रक्षन्ति ये महात्मानो, भाजनं ते फलश्रियः
3
Keep
शून्यमाकीर्णतामेति मृतिरप्युत्सवायते ।
आपत्संपदिवाभाति विद्वज्जनसमागमे
4
Keep
हिममापत्सरोजिन्या मोहनीहारमारुतः ।
जयत्येको जगत्यस्मिन्साधुः साधुसमागमः
5
Keep
परं विवर्धनं बुद्धेरज्ञानतरुशातनम् ।
समुत्सारणमाधीनां विद्धि साधुसमागमम्
6
Keep
विवेकः परमो दीपो जायते साधुसंगमात् ।
मनोहरोज्ज्वलो नूनमासेकादिव गुच्छकः
7
Keep
निरपायां निराबाधां निर्वृतिं नित्यपीवरीम् ।
अनुत्तमां प्रयच्छन्ति साधुसङ्गविभूतयः
8
Keep
अपि कष्टतरां प्राप्तैर्दशां विवशतां गतैः ।
मनागपि न संत्याज्या मानवैः साधुसंगतिः
9
Keep
साधुसंगतयो लोके सन्मार्गस्य च दीपिकाः ।
हार्दान्धकारहारिण्यो भासो ज्ञानविवस्वतः
10
Keep
यः स्नातः शीतसितया साधुसंगतिगङ्गया ।
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः
11
Keep
नीरागाश्छिन्नसंदेहा गलितग्रन्थयोऽनघ ।
साधवो यदि विद्यन्ते किं तपस्तीर्थसंग्रहैः
12
Keep
विश्रान्तमनसो धन्याः प्रयत्नेन परेण हि ।
दरिद्रेणेव मणयः प्रेक्षणीया हि साधवः
13
Keep
सत्समागमसौन्दर्यशालिनी धीमतां मतिः ।
कमलेवाप्सरोवृन्दे सर्वदैव विराजते
14
Keep
तेनामलविचारस्य पदस्याग्रावचूलिता ।
प्रथिता येन धन्येन न त्यक्ता साधुसंगतिः
15
Keep
विच्छिन्नग्रन्थयस्तज्ज्ञाः साधवः सर्वसंमताः ।
सर्वोपायेन संसेव्यास्ते ह्युपाया भवाम्बुधौ
16
Keep
ते एते नरकाग्नीनां संशुष्केन्धनतां गताः ।
यैर्दृष्टा हेलया सन्तो नरकानलवारिदाः
17
Keep
दारिद्र्यं मरणं दुःखमित्यादिविषयो भ्रमः ।
संप्रशाम्यत्यशेषेण साधुसंगमभेषजैः
18
Keep
संतोषः साधुसङ्गश्च विचारोऽथ शमस्तथा ।
एत एव भवाम्भोधावुपायास्तरणे नृणाम्
19
Keep
संतोषः परमो लाभः सत्सङ्गः परमा गतिः ।
विचारः परमं ज्ञानं शमो हि परमं सुखम्
20
Keep
चत्वार एते विमला उपाया भवभेदने ।
यैरभ्यस्तास्त उत्तीर्णा मोहवारिभवार्णवात्
21
Keep
एकस्मिन्नेव वै तेषामभ्यस्ते विमलोदये ।
चत्वारोऽपि किलाभ्यस्ता भवन्ति सुधियां वर
22
Keep
एकोऽप्येकोऽपि सर्वेषामेषां प्रसवभूरिह ।
सर्वसंसिद्धये तस्मात्यत्नेनैकं समाश्रयेत्
23
Keep
सत्समागमसंतोषविचाराः सुविचारितम् ।
प्रवर्तन्ते शमस्वच्छे वाहनानीव सागरे
24
Keep
विचारसंतोषशमसत्समागमशालिनि ।
प्रवर्तन्ते श्रियो जन्तौ कल्पवृक्षाश्रिते यथा
25
Keep
विचारशमसत्सङ्गसंतोषवति मानवे ।
प्रवर्तन्ते प्रपूर्णेन्दौ सौन्दर्याद्या गुणा इव
26
Keep
सत्सङ्गसंतोषशमविचारवति सन्मतौ ।
प्रवर्तन्ते मन्त्रिवरे राजनीव जयश्रियः
27
Keep
तस्मादेकतमं नित्यमेतेषां रघुनन्दन ।
पौरुषेण मनो जित्वा यत्नेनाभ्याहरेद्गुणम्
28
Keep
परं पौरुषमाश्रित्य जित्वा चित्तमतङ्गजम् ।
यावदेको गुणो नान्तस्तावन्नास्त्युत्तमा गतिः
29
Keep
पौरुषेण प्रयत्नेन दन्तैर्दन्तान्विचूर्णयेत् ।
यावन्नाभिनिविष्टं ते मनो राम गुणार्जने
30
Keep
देवो भवाथ यक्षो वा पुरुषः पादपोऽथ वा ।
तावत्तव महाबाहो नोपायोऽस्तीह कश्चन
31
Keep
एकस्मिन्नेव फलदे गुणे बलमुपागते ।
क्षीयन्ते सर्व एवाशु दोषा विवशचेतसः
32
Keep
गुणे विवृद्धे वर्धन्ते गुणा दोषजयप्रदाः ।
दोषे विवृद्धे वर्धन्ते दोषा गुणविनाशनाः
33
Keep
मनोमोहवने ह्यस्मिन्वेगिनी वासनासरित् ।
शुभाशुभबृहत्कूला नित्यं वहति जन्तुषु
34
Keep
सा हि स्वेन प्रयत्नेन यस्मिन्नेव निपात्यते ।
कूले तेनैव वहति यथेच्छसि तथा कुरु
35
Keep
पुरुषयत्नजवेन मनोवने
शुभतटानुगतां क्रमशः कुरु ।
वरमते निजभावमहानदी-
महह तेन मनागपि नोह्यसे
Previous
←
Sarga 15
Next
Sarga 17
→