Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 8
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 2 — Mumukṣuvyavahāra
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
नाकृतिर्न च कर्माणि न स्पन्दो न पराक्रमः ।
तन्मिथ्याज्ञानवद्रूढं दैवं नाम किमुच्यते
2
Keep
स्वकर्मफलसंप्राप्ताविदमित्थमितीति याः ।
गिरस्ता दैवनाम्नैताः प्रसिद्धिं समुपागताः
3
Keep
तत्रैव मूढमतिभिर्दैवमस्तीति निश्चयः ।
आत्तो दुरवबोधेन रज्ज्वामिव भुजंगमः
4
Keep
ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा ।
अद्यैवं प्राक्तनी तस्माद्यत्नात्सत्कार्यवान्भवेत्
5
Keep
मूढानुमानसंसिद्धं दैवं यस्यास्ति दुर्मतेः ।
दैवाद्दाहोऽस्ति नैवेति गन्तव्यं तेन पावके
6
Keep
दैवमेवेह चेत्कर्तुं पुंसः किमिव चेष्टया ।
स्नानदानासनोच्चारान्दैवमेव करिष्यति
7
Keep
किंवा शास्त्रोपदेशेन मूकोऽयं पुरुषः किल ।
संचार्यते तु दैवेन किं कस्येहोपदिश्यते
8
Keep
न च निस्पन्दता लोके दृष्टेह शवतां विना ।
स्पन्दाच्च फलसंप्राप्तिस्तस्माद्दैवं निरर्थकम्
9
Keep
न चामूर्तेन दैवेन मूर्तस्य सहकर्तृता ।
पुंसः संदृश्यते काचित्तस्माद्दैवं निरर्थकम्
10
Keep
मिथोऽङ्गानि समासाद्य द्वयोरेकैककर्तृता ।
हस्तादीनां हतत्वे ह न दैवेन क्वचित्कृतम्
11
Keep
मनोबुद्धिवदप्येतद्दैवं नेहानुभूयते ।
आगोपालं कृतप्रज्ञैस्तेन दैवमसत्सदा
12
Keep
पृथक्चेद्बुद्धिरन्योऽर्थः सैव चेत्कान्यता तयोः ।
कल्पनायां प्रमाणं चेत्पौरुषं किं न कल्प्यते
13
Keep
नामूर्तेस्तेन सङ्गोऽस्ति नभसेव वपुष्मतः ।
मूर्तं च दृश्यते लग्नं तस्माद्दैवं न विद्यते
14
Keep
विनियोक्रथ भूतानामस्त्यन्यच्चेज्जगत्त्रये ।
शेरते भूतवृन्दानि दैवं सर्वं करिष्यति
15
Keep
दैवेन त्वभियुक्तोऽहं तत्करोमीदृशं स्थितम् ।
समाश्वासनवागेषा न दैवं परमार्थतः
16
Keep
मूढैः प्रकल्पितं दैवं तत्परास्ते क्षयं गताः ।
प्राज्ञास्तु पौरुषार्थेन पदमुत्तमतां गताः
17
Keep
ये शूरा ये च विक्रान्ता ये प्राज्ञा ये च पण्डिताः ।
तैस्तैः किमिव लोकेऽस्मिन्वद दैवं प्रतीक्ष्यते
18
Keep
कालविद्भिर्विनिर्णीता यस्यातिचिरजीविता ।
स चेज्जीवति संछिन्नशिरास्तद्दैवमुत्तमम्
19
Keep
कालविद्भिर्विनिर्णीतं पाण्डित्यं यस्य राघव ।
अनध्यापित एवासौ तज्ज्ञश्चेद्दैवमुत्तमम्
20
Keep
विश्वामित्रेण मुनिना दैवमुत्सृज्य दूरतः ।
पौरुषेणैव संप्राप्तं ब्राह्मण्यं राम नान्यथा
21
Keep
अस्माभिरपरै राम पुरुषैर्मुनितां गतैः ।
पौरुषेणैव संप्राप्ता चिरं गगनगामिता
22
Keep
उत्साद्य देवसंघातं चक्रुस्त्रिभुवनोदरे ।
पौरुषेणैव यत्नेन साम्राज्यं दानवेश्वराः
23
Keep
आलूनशीर्णमाभोगि जगदाजह्रुरोजसा ।
पौरुषेणैव यत्नेन दानवेभ्यः सुरेश्वराः
24
Keep
राम पौरुषयुक्त्या च सलिलं धार्यतेऽनया ।
चिरं करण्डके चारु न दैवं तत्र कारणम्
25
Keep
भरणादानसंरम्भविभ्रमश्रमभूमिषु ।
शक्तता दृश्यते राम न दैवस्यौषधेरिव
26
Keep
सकलकारणकार्यविवर्जितं
निजविकल्पवशादुपकल्पितम् ।
त्वमनपेक्ष्य हि दैवमसन्मयं
श्रय शुभाशय पौरुषमुत्तमम्
Previous
←
Sarga 7
Next
Sarga 9
→