Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 103
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
परस्मादुत्थितं चेतस्तत्कल्लोल इवार्णवात् ।
स्फारतामेत्य भुवनं तनोतीदमितस्ततः
2
Keep
ह्रस्वं दीर्घं करोत्याशु दीर्घं नयति खर्वताम् ।
स्वतां नयत्यन्यदलं स्वं तथैवान्यतामपि
3
Keep
प्रादेशमात्रमपि यद्वस्तुभावनयैव तत् ।
स्वयं संपन्नयेवाशु करोत्यद्रीन्द्रभासुरम्
4
Keep
लब्धप्रतिष्ठं परमात्पदादुल्लसितं मनः ।
निमेषेणैव संसारान्करोति न करोति च
5
Keep
यदिदं दृश्यते किंचिज्जगत्स्थास्नु चरिष्णु च ।
सर्वं सर्वप्रकाराढ्यं चित्तादेतदुपागतम्
6
Keep
देशकालक्रियाद्रव्यशक्तिपर्याकुलीकृतम् ।
भावाद्भावान्तरं याति लोलत्वान्नटवन्मनः
7
Keep
सदसत्तां नयत्याशु सत्तां वा सन्नयत्यलम् ।
तादृशान्येव चादत्ते सुखदुःखानि भावितम्
8
Keep
यदाप्तं स्वयमादत्ते यथैव चञ्चलं मनः ।
हस्तपादादिसंघातस्तदा प्रयतते तथा
9
Keep
ततः सैव क्रिया चित्तसमाहितफलाफलम् ।
क्षणात्प्रयच्छति लता कालसिक्तेव तादृशम्
10
Keep
चित्रां क्रीडनकश्रेणीं यथा पङ्काद्गृहे शिशुः ।
करोत्येवं मनो राम विकल्पं कुरुते जगत्
11
Keep
मनःसर्वजनक्रीडानृजम्बाललवेष्वतः ।
किमेतद्धि पदार्थेषु रूढं जगति कल्प्यते
12
Keep
करोत्यृतुकरः कालो यथा रूपान्यथा तरोः ।
चित्तमेवं पदार्थानामेषामेवान्यतामिव
13
Keep
मनोरथे तथा स्वप्ने संकल्पकलनासु च ।
गोष्पदं योजनव्यूहः स्वासु लीलासु चेतसः
14
Keep
कल्पं क्षणीकरोत्यन्तः क्षणं नयति कल्पताम् ।
मनस्तदायत्तमतो देशकालक्रमं विदुः
15
Keep
तीव्रमन्दत्वसंवेगाद्बहुत्वाल्पत्वभेदतः ।
विलम्बनेन च चिरं नतु शक्तिमशक्तितः
16
Keep
व्यामोहसंभ्रमानर्थदेशकालगमागमाः ।
चेतसः प्रभवन्त्येते पादपादिव पल्लवाः
17
Keep
जलमेव यथाम्भोधिरौष्ण्यमेव यथानलः ।
तथा विविधसंरम्भः संसारश्चित्तमेव वा
18
Keep
सकर्तृकर्मकरणं यदिदं चेत्यमागतम् ।
द्रष्टृदर्शनदृश्याढ्यं तत्सर्वं चित्तमेव च
19
Keep
चित्तं जगन्ति भुवनानि वनान्तराणि
संलक्ष्यते स्वयमुपागतमात्मभेदैः ।
केयूरमौलिकटकैश्च लसत्स्वरूपं
त्यक्त्वैव काञ्चनधियेव जनेन हेम
Previous
←
Sarga 102
Next
Sarga 104
→