Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 105
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
मुहूर्तद्वितयेनाथ बोधमाप महीपतिः ।
प्रावृषेण्याम्बुनिर्मुक्तमम्भोरुहमिवोत्तमम्
2
Keep
आसनात्साङ्गदोत्तंसः प्रबुद्धोऽसावकम्पयत् ।
सवनाभोगशृङ्गाग्र्यो भूकम्प इव पर्वतः
3
Keep
बभूवाथ प्रबुद्धोऽसावासनोपरि कम्पितः ।
विक्षुब्ध इव पातालवारणे शङ्कराचलः
4
Keep
पतन्तं धारयामासुस्तं पुरोगा नृपं भुजैः ।
मेरुं प्रलयविक्षुब्धं कुलशैलास्तटैरिव
5
Keep
पुरोगैर्धार्यमाणोऽसौ पर्याकुलमतिर्नृपः ।
वीचिविक्षोभितस्येन्दोर्बभार वनमाः श्रियः
6
Keep
कोऽयं प्रदेशः कस्येयं सभेति स नृपः शनैः ।
दध्वान मज्जदम्भोजकोशस्थ इव षट्पदः
7
Keep
अथोवाच सभा देव किमेतदिति सादरम् ।
रणन्मधुकरी भानुं दृष्टराहुमिवालिनी
8
Keep
अथैनं परिपप्रच्छुः पुरोगा मन्त्रिणस्तथा ।
प्रलयोल्लाससंत्रस्तं मार्कण्डेयमिवामराः
9
Keep
त्वयीत्थं संस्थिते देव वयमत्यन्तमाकुलाः ।
अभेद्यमपि भिन्दन्ति निर्निमित्तं भ्रमा मनः
10
Keep
आपातरमणीयेषु पर्यन्तविरसेषु च ।
भोगेष्विव विकल्पेषु केषु ते लुलितं मनः
11
Keep
सततोदारवृत्तासु कथासु परिशीतलम् ।
मनस्ते निर्मलं कस्मात्संभ्रमेषु निमज्जति
12
Keep
तुच्छालम्बनमालूनविशीर्णं लोकवृत्तिषु ।
मनो मोहमुपादत्ते न महत्त्वविजृम्भितम्
13
Keep
सातत्येन हि यैवास्य मनसो वृत्तिरुत्थिता ।
शरीरमदमत्तासु तामेवैतद्विधावति
14
Keep
अतुच्छालम्बनं धीरं प्रबुद्धं गुणहारि च ।
तवापि हि मनश्चित्रमालूनमिव लक्ष्यते
15
Keep
अनभ्यस्तविवेकं हि देशकालवशानुगम् ।
मन्त्रौषधिवशं याति मनो नोदारवृत्तिमत्
16
Keep
नित्यमात्तविवेकस्य कथमालूनशीर्णता ।
धुनोति विततं चेतो वात्येव विबुधाचलम्
17
Keep
इति जातानुगीर्णस्य भूपतेः कान्तिराननम् ।
भूषयामास शीतांशुं मासान्त इव पूर्णता
18
Keep
रराज राजा सौम्यास्यमुन्मीलितविलोचनः ।
गते हिमर्तावुल्लासिपुष्पौघ इव माधवः
19
Keep
अथातिसंभ्रमाश्चर्यखिन्नास्मृतिमुखो बभौ ।
आसन्नमृत्युरालोक्य राहुमिन्दुरिवाम्बरे
20
Keep
ऐन्द्रजालिकमालोक्य प्रोवाचाथ हसन्निव ।
बभुं हिंसात्मकं दृष्ट्वा सर्परूपीव तक्षकः
21
Keep
जाल्म जालजटालेन किमेतद्भवता कृतम् ।
येनास्पन्दप्रसन्नोऽब्धिः क्षणादेत्य प्रसन्नताम्
22
Keep
चित्रं चित्रा हि देवस्य पदार्थशतशक्तयः ।
सुशक्तमपि मे चित्तं याभिर्मोहे निवेशितम्
23
Keep
क्व वयं लोकपर्यायकृतान्तपदवेदिनः ।
क्व मनोमोहदायिन्यो वितताः प्रकृतापदः
24
Keep
अप्यभ्यस्तमहाज्ञानं मनस्तिष्ठति देहके ।
कदाचिन्मोहमादत्ते क्षणं मतिमतामपि
25
Keep
इदमाश्चर्यमाख्यानं श्रूयतां रे सभासदः ।
मम शाम्बरिकेणेह यन्मुहूर्तं प्रदर्शितम्
26
Keep
दृष्टवानहमेतस्मिन्बह्वीः कार्यदशाश्चलाः ।
मुहूर्तं प्रार्थितोऽध्वस्तशक्रसृष्टिरिवालजः
27
Keep
इत्युक्त्वोन्मुखनेत्रेषु सभ्येषु स हसन्निव ।
राजा वर्णयितुं चित्रं वृत्तान्तमुपचक्रमे
28
Keep
राजोवाच ।
इह विविधपदार्थसंकुलायां
ह्रदनदपत्तनपर्वताकुलायाम् ।
कुलशिखरिसमुद्रसंकरायां
भुवि विभवावलितोऽस्त्ययं प्रदेशः
Previous
←
Sarga 104
Next
Sarga 106
→