Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 23
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
इति संकथनं कृत्वा तस्यां निशि वराङ्गने ।
सुप्ते परिजने नूनमथान्तःपुरमण्डपे
2
Keep
दृढाखिलार्गलद्वारगवाक्षे दक्षचेतसि ।
पुष्पप्रकरनिष्ठयूतमांसलामोदमन्थरे
3
Keep
अम्लानमालावसनशवपार्श्वासनस्थिते ।
सकलामलपूर्णेन्दुवदनद्योतितास्पदे
4
Keep
समाथिस्थानकं गत्वा तस्थतुर्निश्चलाङ्गिके ।
रत्नस्तम्भादिवोत्कीर्णे चित्रे भित्ताविवार्पिते
6
Keep
सर्वास्तत्यजतुश्चिन्ताः संकोचं समुपागते ।
दिवसान्त इवाब्जिन्यौ प्रसृतामोदलेखिके । ।
बभूवतुर्भृशं शान्ते शुद्धे स्पन्दविवर्जिते ।
गिरौ शरदि निर्वात इव भ्रष्टाभ्रमालिके
7
Keep
निर्विकल्पसमाधानाज्जहतुर्बाह्यसंविदम् ।
यथा कल्पलते कान्ते पूर्वमृत्वन्तरे रसम्
8
Keep
अहं जगदिति भ्रान्तिदृश्यस्यादावनुद्भवः ।
यदा ताभ्यामवगतस्यवत्यन्ताभावनात्मकः
9
Keep
तदा दृश्यपिशाचोऽयमलमस्तं गतो द्वयोः ।
असत्त्वादेव चास्माकं शशशृङ्गमिवानघ
10
Keep
आदावेव हि यन्नास्ति वर्तमानेऽपि तत्तथा ।
भातं वाऽभातमेवातो मृगतृष्णाम्बुवज्जगत्
11
Keep
स्वभावकेवलं शान्तं स्त्रीद्वयं तद्बभूव ह ।
चन्द्रार्कादिपदार्थौघैर्दूरमुक्तमिवाम्बरम्
12
Keep
तेनैव ज्ञानदेहेन चचार ज्ञप्तिदेवता ।
मानुषी त्वितरेणाशु ध्यानज्ञानानुरूपिणा
13
Keep
गेहान्तरेव प्रादेशमात्रमारुह्य संविदा ।
बभूवतुश्चिदाकाशरूपिण्यौ व्योमगाकृती
14
Keep
अथ ते ललने लीलालोले ललितलोचने ।
स्वभावाच्चेत्यसंवित्तेर्नभो दूरमितो गते
19
Keep
तत्रस्थे वाथ चिद्वृत्त्या पुप्लुवाते नभस्थलम् ।
कोटियोजनविस्तीर्णं दूराद्दूरतरान्तरम्
16
Keep
दृश्यानुसन्धाननिजस्वभावा-
दाकाशदेहे अपि ते मिथोऽत्र ।
परस्पराकारविलोकनेन
बभूवतुः स्नेहपरे वयस्ये
Previous
←
Sarga 22
Next
Sarga 24
→