Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 30
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
पृथिव्यप्तेजसां तत्र नभस्वन्नभसोरपि ।
यथोत्तरं दशगुणानतीत्यावरणान्क्षणात्
2
Keep
ददर्श परमाकाश तत्प्रमाणविवर्जितम् ।
तथा ततं जगदिदं यथा तत्राण्डमात्रकम्
3
Keep
तादृशावरणान्सर्गान्ब्रह्माण्डेषु ददर्श सा ।
कोटिशः स्फुरितान्व्योम्नि त्रसरेणूनिवातपे
4
Keep
महाकाशमहाम्भोधौ महाशून्यत्ववारिणि ।
महाचिद्द्रवभावोत्थान्बुद्बुदानर्बुदप्रभान्
5
Keep
कांश्चिदापततोऽधस्तात्कांश्चिच्चोपरि गच्छतः ।
कांश्चित्तिर्यग्गतीनन्यान्स्थितांस्तब्धान्स्वसंविदा
5-2
Keep
यत्र यत्रोदिता संविद्येषां येषां यथा यथा ।
तत्र तत्रोदितं रूपं तेषां तेषां तथा तथा
7
Keep
नेहैव तत्र नामोर्ध्वं नाधो न च गमागमाः ।
अन्यदेव पदं किंचित्तस्माद्देहागमं हि तत्
8
Keep
उत्पद्योत्पद्यते तत्र स्वयं संवित्स्वभावतः ।
स्वसंकल्पैः शमं याति बालसंकल्पजालवत्
9
Keep
किमधः स्यात्किमूर्ध्वं स्यात्किं तिर्यक्तत्र भासुरे ।
इति ब्रूहि मम ब्रह्मन्निहैव यदि न स्थितम्
10
Keep
ससर्वावरणा एते महत्यन्तविवर्जिते ।
ब्रह्माण्डा भान्ति दुर्दृष्टेर्व्योम्नि केशोण्ड्रको यथा
11
Keep
। अस्वातन्त्र्यात्प्रधावन्ति पदार्थाः सर्व एव यत् ।
ब्रह्माण्डे पार्थिवो भागस्तदधस्तूर्ध्वमन्यथा
12
Keep
पिपीलिकानां महतां व्योम्नि वर्तुललोष्टके ।
दशदिक्कमधः पादाः पृष्ठमूर्ध्वमुदाहृतम्
13
Keep
वृक्षवल्मीकजालेन केषांचिद्धृदि भूतलम् ।
ससुरानरदैत्येन वेष्टितं व्योम निर्मलम्
14
Keep
संभूतं सह भूतेन सग्रामपुरपर्वतम् ।
इदं कल्पनभूतेन पक्वाक्षोटमिव त्वचा
15
Keep
यथा विन्ध्यवनाभोगे प्रस्फुरन्ति करेणवः ।
तथा तस्मिन्पराभोगे ब्रह्माण्डत्रसरेणवः
16
Keep
तस्मिन्सर्वं ततः सर्वं तत्सर्वं सर्वतश्च यत् ।
तच्च सर्वमयो नित्यं तथा तदणुकं प्रति
17
Keep
शुद्धबोधमये तस्मिन्परमालोकवारिधौ ।
अजस्रमेत्य गच्छन्ति ब्रह्मण्डाख्यास्तरङ्गकाः
18
Keep
अन्तःशून्याः स्थिताः केचित्संकल्पक्षयरात्रयः ।
तरङ्गा इव तोयेऽब्धौ प्रोह्यन्ते शून्यतार्णवे
19
Keep
केषांचिदन्तःकल्पान्तः प्रवृत्तो घर्घरारवः ।
न श्रुतोऽन्यैर्न च ज्ञातः स्वभावेन रसाकुलैः
20
Keep
अन्येषां प्रथमारम्भे शुद्धभूषु विजृम्भते ।
सर्गः संसिक्तबीजानां कोशेऽङ्कुरकला यथा
21
Keep
महाप्रलयसंपत्तौ सूर्यार्चिर्विद्युतोऽद्रयः ।
प्रवृत्ता गलितुं केचित्तापे हिमकणा इव
22
Keep
आकल्पं निपतन्त्येव केचिदप्राप्तभूमयः ।
यावद्विशीर्य जायन्ते तथा संविन्मयाः किल
23
Keep
स्तब्धा इव स्थिताः केचित्केशोण्ड्रकमिवाम्बरे ।
वायोः स्पन्दा इवाभान्ति तथा प्रोदितसंविदः
24
Keep
आचाराद्वेदशास्त्राणामाद्य एवान्यथोदिते ।
आरम्भोऽपि तथान्येषामनित्यः संस्थितः क्रमः
25
Keep
केचिद्ब्रह्मादिपुरुषाः केचिद्विष्ण्वादिसर्गपाः ।
केचिच्चान्यप्रजानाथाः केचिन्निर्नाथजन्तवः
26
Keep
केचिद्विचित्रसर्गेशाः केचित्तिर्यङ्मयान्तराः ।
केचिदेकार्णवापूर्णा इतरे जनिवर्जिताः
27
Keep
केचिच्छिलाङ्गनिष्पिण्डाः केचित्कृमिमयान्तराः ।
केचिद्देवमया एव केचिन्नरमयान्तराः
28
Keep
केचिन्नित्यान्धकाराढ्यास्तथा शीलितजन्तवः ।
केचिन्नित्यप्रकाशाढ्यास्तथा शीलितजन्तवः
29
Keep
केचिन्मशकसंपूर्णा उदुम्बरफलश्रियः ।
नित्यं शून्यान्तराः केचिच्छून्यस्पन्दात्मजन्तवः
30
Keep
सर्गेण तादृशेनान्ये पूर्णा येऽन्तर्धियामिह ।
कल्पनामपि नायान्ति व्योमपूर्णाचलो यथा
31
Keep
तादृगम्बरमेतेषां महाकाशं ततं स्थितम् ।
आजीवितं प्रगच्छद्भिर्विष्ण्वाद्यैर्यन्न मीयते
32
Keep
प्रत्येकस्याण्डगोलस्य स्थितः कटकरत्नवत् ।
भूताकृष्टिकरो भावः पार्थिवः स्वस्वभावतः
33
Keep
यः सर्वविभवोऽस्माकं धियां न विषयं ततः ।
तज्जगत्कथने शक्तिर्न ममास्ति महामते
34
Keep
भीमान्धकारगहने सुमहत्यरण्ये
नृत्यन्त्यदर्शितपरस्परमेव मत्ताः ।
यक्षा यथा प्रवितते परमाम्बरेऽन्त-
रेवं स्फुरन्ति सुबहूनि महाजगन्ति
Previous
←
Sarga 29
Next
Sarga 31
→