Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 35
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
अथ प्रोड्डयनोद्युक्ततुरङ्गमतरङ्गकः ।
उत्ताण्डव इवोन्मत्तो बभूव स रणार्णवः
2
Keep
छत्रडिण्डीरविश्रान्तसितेषुशफरोत्करः ।
अश्वसैन्योल्लसल्लोलकल्लोलाकुलकोटरः
3
Keep
नानायुधनदीनीतसैन्यावर्तविवृत्तिमान् ।
मत्तहस्तिघटापीठचलाचलकुलाचलः
4
Keep
कचच्चक्रशतावर्तवृत्तिभ्रान्तशिरस्तृणः ।
धूलीजलधरापीतभ्रमत्खड्गप्रभाजलः
5
Keep
मकरव्यूहविस्तारभग्नाभग्नभटौघनौ ।
महागुडुगुडावर्तप्रतिश्रुद्धनकन्दरः
6
Keep
मीनव्यूहविनिष्क्रान्तशरबीजौघसर्षपः ।
हेतिवीचीवरालूनपताकावीचिमण्डलः
7
Keep
शस्त्रवारिकृताम्भोदसदृशावर्तकुण्डलः ।
संरम्भघनसंचारसेनातिमितिमिङ्गिलः
8
Keep
कृष्णायसपरीधानवलत्सेनाम्बुभीषणः ।
कबन्धावर्तलेखान्तर्बद्धसैन्यादिभूषणः
9
Keep
शरसीकरनीहारसान्धकारककुब्गणः ।
निर्घोषाशोषिताशेषशब्दैकघनघुंघुमः
10
Keep
पतनोत्पतनव्यग्रशिरःशकलसीकरः ।
आवर्तचक्रव्यूहेषु प्रभ्रमद्भटकाष्ठकः
11
Keep
कष्टटाङ्कारकोदण्डकुण्डलोन्मथनोद्भटः ।
अशङ्कमेव पातालादिवोद्यत्सैनिकोर्मिमान्
12
Keep
गमागमपरानन्तपताकाच्छत्रफेनिलः ।
वहद्रक्तनदीरंहःप्रोह्यमानरथद्रुमः
13
Keep
गजप्रतिमसंपन्नमहारुधिरबुद्बुदः ।
सैन्यप्रवाहविचलद्धयहस्तिजलेचरः
14
Keep
ससंग्रामोऽम्बरग्राम इवाश्चर्यकरो नृणाम् ।
अभूत्प्रलयभूकम्पकम्पिताचलचञ्चलः
15
Keep
तरत्तरङ्गविहगः पतत्करिघटातटः ।
त्रस्तभीरुमृगानीकस्कूर्जद्धुरुघुरारवः
16
Keep
सरच्छरालीशलभशतभङ्गुरसैनिकः ।
तरत्तरङ्गशरभः शरभारवनावनिः
17
Keep
चलद्द्विरेफनिर्ह्रादो रसत्तूर्यगुहागुरुः ।
चिरात्स सैन्यजलदो लुठद्भटमृगाधिपः
18
Keep
प्रसरद्धूलिजलदो विगलत्सैन्यसानुमान् ।
पतद्रथवराढ्याङ्गः प्रतपत्खङ्गमण्डलः
19
Keep
प्रोत्पतत्पदपुष्पौघः पताकाच्छत्रवारिदः ।
वहद्रक्तनदीपूरपतत्साराववारणः
20
Keep
सोऽभूत्समरकल्पान्तो जगत्कवलनाकुलः ।
पर्यस्तसध्वजच्छत्रपताकारथपत्तनः
21
Keep
पतद्विमलहेत्यौघभूरिभास्वरभास्करः ।
कठिनप्राणसंतापतापिताखिलमानसः
22
Keep
कोदण्डपुष्करावर्तशरधारानिरन्तरः ।
वहत्खंगशिलालेखाविद्युद्वलयिताम्बरः
23
Keep
उच्छिन्नरक्तजलधिपतितेभकुलाचलः ।
नभोविकीर्णनिपतद्युत्तारकणतारकः
24
Keep
चक्रकुल्याम्बुदावर्तपूर्णव्योमशिराम्बुदः ।
अस्त्रकल्पाग्निनिर्दग्धसैन्यलोकान्तरक्रमः
25
Keep
हेतिवर्षाशनिच्छन्नभूतलामलभूधरः ।
गजराजगिरिव्रातपातपिष्टजनव्रजः
26
Keep
शरधाराघनानीकमेघच्छन्नमहीनभाः ।
महानीकार्णवक्षोभसंघट्टघटिताद्रवः
27
Keep
व्याप्त उग्रानिलोद्भूतैर्जलव्यालैरिवाचलः ।
अन्योन्यदलनव्यग्रैः शस्त्रोत्पात इवोत्थितैः
28
Keep
शूलासिचक्रशरशक्तिगदाभुशुण्डी-
प्रासादयो विदलनेन मिथो ध्वनन्तः ।
दीप्ता अधुर्दशदिशः शतशो भ्रमन्तः
कल्पान्तवातपरिवृत्तपदार्थलीलाम्
Previous
←
Sarga 34
Next
Sarga 36
→