Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 42
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
यस्त्वबुद्धमतिर्मूढो रूढो न वितते पदे ।
वज्रसारमिदं तस्य जगदस्त्यसदेव सत्
2
Keep
यथा बालस्य वेतालो मृतिपर्यन्तदुःखदः ।
असदेव सदाकारं तथा मूढमते जगत्
3
Keep
ताप एव यथा वारि मृगाणां भ्रमकारणम् ।
असत्यमेव सत्याभं तथा मूढमतेर्जगत्
4
Keep
यथा स्वप्नमृतिर्जन्तोरसत्या सत्यरूपिणी ।
अर्थक्रियाकरी भाति तथा मूढधियां जगत्
5
Keep
अव्युत्पन्नस्य कनके कानके कटके यथा ।
कटकज्ञप्तिरेवास्ति न मनागपि हेमधीः
6
Keep
तथाऽज्ञस्य पुणुराजगनागेश्वमेखसुर् ।
इयं दृश्यदृगेवास्ति न त्वन्या परमाथदृक्
7
Keep
यथा नभसि मुक्तालीपिच्छकेशोण्ड्रकादयः ।
असत्याः सत्यतां याता भात्येवं दुर्दशां जगत्
8
Keep
दीर्मस्वप्नमिदं विश्वं विद्ध्यहन्तादिसंयुतम् ।
अत्रान्ये स्वप्नपुरुषा यथा सत्यास्तथा शृणु
9
Keep
अस्ति सर्वगतं शान्तं परमार्थघनं शुचि ।
अचेत्यचिन्मात्रवपुः परमाकाशमाततम्
10
Keep
तत्सर्वगं सर्वशक्ति सर्वं सर्वात्मकं स्वयम् ।
यत्र यत्र यथोदेति तथास्ते तत्र तत्र वै
11
Keep
तेन स्वप्नपुरे द्रष्टा यान्वेत्ति पुरवासिनः ।
नरानिति नरा एव क्षणात्तस्य भवन्ति ते
12
Keep
यद्द्रष्टुश्चित्स्वरूपं तत्स्वप्नाकाशान्तरस्थितम् ।
स्वप्नाकाशचित्ताभं हि नरानामेति भावितम्
13
Keep
वेदितृत्वैक्यवशतो नरतेवावबुध्यते ।
आत्मन्यतश्चिद्बलेन द्वयोरप्येति सत्यता
14
Keep
स्वप्नेऽपि स्वप्नपुरुषा न सत्याः स्युर्मुने यदि ।
वद तत्को भवेद्दोषो मायामात्रशरीरिणि
15
Keep
स्वप्ने न पुरवास्तव्या वस्तुतः सत्यरूपिणः ।
प्रमाणमत्र शृणु मे प्रत्यक्षं नाम नेतरत्
16
Keep
सर्गादावात्मभूर्भाति स्वप्नाभानुभवात्मकः ।
तत्संकल्पकलं विश्वमेव स्वप्नाभमेव तत्
17
Keep
एवं विश्वमिदं स्वप्नस्तत्र सत्यं भवान्मम ।
यथैव त्वं तथैवान्ये स्वप्ने स्वप्नवरा नृणाम्
18
Keep
स्वप्ने नगरवास्तव्याः सत्या न स्युरिमे यदि ।
तदिहापि तदाकारे न सत्यं मे मनागपि
19
Keep
यथाहं तव सत्यात्मा सत्यं सर्व भवेन्मम ।
स्वप्नोपलम्भे संसारे मिथः सिद्ध्यै प्रमेदृशी
20
Keep
संसारे विपुले स्वप्ने यथा सत्यमहं तव ।
यथा त्वमपि मे सत्यं सर्वं स्वप्नेष्विति क्रमः
21
Keep
स्वप्नद्रष्टरि निर्निद्रे तद्द्रष्टुः स्वप्नपत्तनम् ।
सद्रूपत्वात्तथैवास्ते ममेति भगवन्मतिः
22
Keep
एवमेतत्तथैवास्ते सत्यत्वात्स्वप्रपत्तनम् ।
स्वप्नद्रष्टरि निर्निद्रेऽप्याकाशविशदाकृति
23
Keep
एतदास्तामिदं तावद्यज्जाग्रदिव मन्यसे ।
विद्धि तत्स्वप्नमेवान्तर्देशकालाद्यपूरकम्
24
Keep
एवं सर्वमिदं भाति न सत्यं सत्यवत्स्थितम् ।
रञ्जयत्यपि मिथ्यैव स्वप्नस्त्रीसुरतोपमम्
25
Keep
सर्वत्र विद्यते सर्वं देहस्यान्तर्बहिस्तथा ।
यत्तु वेत्ति यथा संवित्तत्तथा स्वैव पश्यति
26
Keep
यत्कोशे विद्यते द्रव्यं तद्द्रष्ट्रा लभ्यते यथा ।
तथास्ति सर्वं चिद्व्योम्नि चेत्यते तत्त्वनेन वै
27
Keep
अनन्तरमुवाचेदं देवी ज्ञप्तिर्विदूरथम् । ।
कृत्वा बोधामृतासेकैर्विवेकाङ्कुरसुन्दरम्
28
Keep
एतदेव मया राजँल्लीलार्थमुपवर्णितम् ।
स्वस्ति तेऽस्तु गमिष्यावो दृष्टा दृष्टान्तदृष्टयः
29
Keep
इति प्रोक्ते सरस्वत्या गिरा मधुरवर्णया ।
उवाच वचनं धीमान्भूमिपालो विदूरथः
30
Keep
ममापि दर्शनं देवि मोघं भवति नार्थिनि ।
महाफलप्रदायास्तु कथं तव भविष्यति
31
Keep
अहं देहं समुत्सृज्य लोकान्तरमितोऽपरम् ।
निजमायामि हे देवि स्वप्नात्स्वप्नान्तरं यथा
32
Keep
पश्यादिशाशु मां मातः प्रपन्नं शरणागतम् ।
भक्तेऽवहेला वरदे महतां न विराजते
33
Keep
यं प्रदेशमहं यामि तमेवायात्वयं मम ।
मन्त्री कुमारी चैवेयं बालेति कुरु मे दयाम्
34
Keep
श्रीसरस्वत्युवाच ।
आगच्छ राज्यमुचितार्थविलासचारु
प्राग्जन्ममण्डलपते कुरु निर्विशङ्कम् ।
अस्माभिरर्थिजनकामनिराकृतिर्हि
दृष्टा न काचन कदाचिदपीति विद्धि
Previous
←
Sarga 41
Next
Sarga 43
→