Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 45
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
2
Keep
श्रीसरस्वत्युवाच ।
विदूरथस्ते भर्तैष तनुं त्यक्त्वा रणाङ्गणे ।
तदेवान्तःपुरं प्राप्य तादृगात्मा भविष्यति
2-2
Keep
इत्याकर्ण्य वचो देव्या लीला सा तत्पुरास्पदा ।
पुरः प्रह्वा स्थितोवाच वचनं विहिताञ्जलिः
3
Keep
द्वितीयलीलोवाच ।
देवी भगवती ज्ञप्तिर्नित्यमेवार्चिता मया ।
स्वप्ने संदर्शनं देवी सा ददाति निशासु मे
4
Keep
सा यादृश्येव देवेशि तादृश्येव त्वमम्बिके ।
तन्मे कृपणकारुण्याद्वरं देहि वरानने
5
Keep
इत्युक्ता सा तदा ज्ञप्तिः स्मृत्वा तद्भक्तिभावनम् ।
इदं प्रसन्ना प्रोवाच तां लीलां तत्पुरास्पदाम्
6
Keep
श्रीदेव्युवाच ।
अनन्यया भावनया यावज्जीवमजीर्णया ।
परितुष्टास्मि ते वत्से गृहाणाभिमतं वरम्
7
Keep
तद्देशलीलोवाच ।
रणाद्देहं परित्यज्य यत्र तिष्ठति मे पतिः ।
अनेनैव शरीरेण तत्र स्यामेतदङ्गना
8
Keep
श्रीदेव्युवाच ।
एवमस्तु त्वयाऽविघ्नं पूजितास्मि सुते चिरम् ।
अनन्यभावया भूरि पुष्पधूपसपर्यया
9
Keep
अथ तद्देशलीलायां फुल्लायां तद्वरोदयात् ।
पूर्वलीलाब्रवीद्देवीं संदेहलुलिताशया
10
Keep
पूर्वलीलोवाच ।
ये सत्यकामाः सन्त्येवंसंकल्पा ब्रह्मरूपिणः ।
त्वादृशाः सर्वमेवाशु तेषां सिद्ध्यत्यभीप्सितम्
11
Keep
तत्तेनैव शरीरेण किमर्थं नाहमीश्वरि ।
लोकान्तरमिदं नीता तं गिरिग्रामकं वद
12
Keep
श्रीदेव्युवाच ।
न किंचित्कस्यचिदहं करोमि वरवर्णिनि ।
सर्व संपादयत्याशु स्वयं जीवः स्वमीहितम्
13
Keep
अहं हितं रटे ज्ञप्तिः संविन्मात्राधिदेवता ।
प्रत्येकमस्ति चिच्छक्तिर्जीवशक्तिस्वरूपिणी
14
Keep
जीवस्योदेति या शक्तिर्यस्य यस्य यथा यथा ।
भाति तत्फलदा नित्यं तस्य तस्य तथा तथा
15
Keep
मां समाराधयन्त्यास्तु जीवशक्तिस्तवोदिता ।
तदा भवद्यदीह स्यां मुक्तास्मीति चिरं तदा
16
Keep
तेन तेन प्रकारेण त्वं मया संप्रबोधिता ।
तया युक्त्यामलं भावं नीतासि वरवर्णिनि
17
Keep
अनयैव भावनया बोधितासि चिरं तदा ।
तमेवाऽर्थं प्राप्तवती सदा स्वचितिशक्तितः
18
Keep
यस्य यस्य यथोदेति स्वचित्प्रयतनं चिरम् ।
फलं ददाति कालेन तस्य तस्य तथा तथा
19
Keep
तपो वा देवता वापि भूत्वा स्यैव चिदन्यथा ।
फलं ददात्यथ स्वैरं नभःफलनिपातवत्
20
Keep
स्वसंविद्यतनादन्यन्न किंचिच्च कदाचन ।
फलं ददाति तेनाशु यथेच्छसि तथा कुरु
21
Keep
चिद्भाव एव ननु सर्गगतोऽन्तरात्मा
यच्चेतति प्रयतते च तदैति तच्छ्रीः ।
रम्यं ह्यरम्यमथवेति विचारयस्व
यत्पावनं तदवबुध्य तदन्तरास्स्व
Previous
←
Sarga 44
Next
Sarga 46
→