Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 51
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
हतो राजा हतो राजा प्रतिराजेन संयुगे ।
इतिशब्दे समुद्भूते राष्ट्रमासीद्भयाकुलम्
2
Keep
भाण्डोपस्करभाराढ्यं विद्रवच्छकटव्रजम् ।
साक्रन्दार्तकलत्राढ्यं द्रवन्नागरदुर्गमम्
3
Keep
पलायमानसाक्रन्दं मार्गाहृतवधूगणम् ।
अन्योन्यलुण्ठनव्यग्रलोकलग्नमहाभयम्
4
Keep
परराष्ट्रजनानीकताण्डवोल्लाससारवम् ।
निरधिष्ठितमातङ्गहयवीरपतज्जनम्
5
Keep
कपाटपाटनोड्डीनकोशान्तरवघर्घरम् ।
लुण्ठितासंख्यकौशेयप्रावृताभिभटोद्भटम्
6
Keep
क्षुरिकोत्पाटितार्द्रान्त्रमृतराजगृहाङ्गनम् ।
राजान्तःपुरविश्रान्तचण्डालश्वपचोत्करम्
7
Keep
गृहापहृतभोज्यान्नभोजनोन्मुखपामरम् ।
सहेमहारवीरौघपादाहतरुदच्छिशु
8
Keep
अपूर्वतरुणाक्रान्तकेशान्तःपुरिकाङ्गनम् ।
चोरहस्तच्युतानर्घ्यरत्नदन्तुरमार्गगम्
9
Keep
हयेभरथसंघट्टव्यग्रसामन्तमण्डलम् ।
अभिषेकोद्यमादेशपरमन्त्रिपुरःसरम्
10
Keep
राजधानीविनिर्माणसारम्भस्थपतीश्वरम् ।
कृतवातायनश्वभ्रनिपतद्राजवल्लभम्
11
Keep
जयशब्दशतोद्धोषसिन्धुराजन्यनिर्भरम् ।
असंख्यनिजराजौघधृतसिन्धुकृतास्थिति
12
Keep
ग्रामान्तरसमाक्रान्तविद्रवद्राजवल्लभम् ।
मण्डलान्तरसंजातनगरग्रामलुण्ठनम्
13
Keep
अनन्तचोरमोषार्थरुद्धमार्गगमागमम् ।
महानुभाववैधुर्यसनीहारदिनातपम्
14
Keep
मृतबन्धुजनाक्रन्दैर्मृततूर्यरवैरपि ।
हयेभरथशब्दैश्च पिण्डग्राह्यघनध्वनि
15
Keep
सिन्धुदेवो जयत्येकच्छत्रभूमण्डलाधिपः ।
इत्यनन्तरमारेभे भेर्यः प्रतिपुरं तदा
16
Keep
राजधानीं विवेशाथ सिन्धुरुद्धुरकन्धरः ।
प्रजाः स्रष्टुं युगस्यान्ते मनुर्जगदिवापरः
17
Keep
प्रवृत्ता दशदिग्भ्योऽथ प्रवेष्टुं सैन्धवं पुरम् ।
कराः करिहयाकारै रत्नपूरा इवाम्बुधिम्
18
Keep
निबन्धनानि चिह्नानि शासनानि दिशं प्रति ।
क्षणान्निवेशयामासुर्मण्डलं प्रति मन्त्रिणः
19
Keep
उदभूदचिरेणैव देशे देशे पुरे पुरे ।
जीविते मरणे माने नियमोऽयमतो यथा
20
Keep
अथ शेमुर्निमेषेण देशोपप्लवविभ्रमाः ।
प्रशान्तोत्पातपवनाः पदार्थावृत्तयो यथा
21
Keep
सौम्यतामाजगामाशु देशो दशदिगन्वितः ।
क्षीरोदः क्षुभितावर्तो द्रागिवोद्धृतमन्दरः
22
Keep
ववुरलकचयान्विलोलयन्तो
मुखकमलालिकुलानि सैन्धवीनाम् ।
जललववलनाकुलाः समीरा
अशिवगुणानिव सर्वतः क्षणेन
Previous
←
Sarga 50
Next
Sarga 52
→