Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 57
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
ततो ददृशतुस्तत्र शवशय्यैकपार्श्वगाम् ।
लीलां विदूरथस्याग्रे मृतां ते प्रथमागताम्
2
Keep
प्राग्वेषां प्राक्समाचारां प्राग्देहां प्राक्सवासनाम् ।
प्राक्तनाकारसदृशीं सर्वरूपाङ्गसुन्दरीम्
3
Keep
प्राग्रूपावयवस्पन्दां प्रागम्बरपरीवृताम् ।
प्राग्भूषणभरच्छन्नां केवलं तत्र संस्थिताम्
4
Keep
गृहीतचामरां चारु वीजयन्तीं महीपतिम् ।
उद्यच्चन्द्रामिव दिवं भूषयन्तीं महीतलम्
5
Keep
मौनस्थां वामहस्तस्थवदनेन्दुतया नताम् ।
भूषणांशुलतापुष्पैः फुल्लामिव वनस्थलीम्
6
Keep
कुर्वाणां वीक्षितैर्दिक्षु मालत्युत्पलवर्षणम् ।
सृजन्तीमात्मलावण्यादिन्दुमिन्दुं नभोदितम्
7
Keep
नरपालात्मनो विष्णोर्लक्ष्मीमिव समागताम् ।
उदितां पुष्पसंभारादिव पुष्पाकरश्रियम्
8
Keep
भर्तुर्वदनके न्यस्तदृष्टिमिष्टविचेष्टिताम् ।
किंचित्प्रम्लानवदनां म्लानचन्द्रां निशामिव
9
Keep
ताभ्यां सा ललना दृष्टा तया ते तु न लक्षिते ।
यस्मात्ते सत्यसंकल्पे सा न तावत्तथोदिता
10
Keep
तस्मिन्प्रदेशे सा पूर्वलीला संस्थाप्य देहकम् ।
ध्यानेन ज्ञप्तिसहिता गताभूदिति वर्णितम्
11
Keep
किमिदानीं स लीलाया देहस्तत्र न वर्णितः ।
किंसंपन्नः क्व वा यात इति मे कथय प्रभो
12
Keep
क्वासील्लीलाशरीरं तत्कुतस्तस्यास्ति सत्यता ।
केवला भ्रान्तिरेवाभूज्जलबुद्धिर्मराविव
13
Keep
आत्मैवेदं जगत्सर्वं कुतो देहादिकल्पना ।
ब्रह्मैऽवानन्दरूपं सद्यत्पश्यसि तदेव चित्
14
Keep
यथैव बोधे लीलासौ परिणाममिता क्रमात् ।
परे तथैव तस्मात्तद्धिमवद्गलितं वपुः
1-2
Keep
( आतिवाहिकदेहस्य कालेनाभ्युदितो भ्रमः ।
आधिभौतिकदेहोऽहमिति रज्जुभुजंगवत्
15
Keep
)
आतिवाहिकदेहेन दृश्यं यदवलोकितम् ।
भूम्यादि नाम तस्यैव कृतं तच्चाधिभौतिकम्
16
Keep
वास्तवेन तु रूपेण भूम्याद्यात्माधिभौतिकः ।
न शब्देन न चार्थेन सत्यात्मा शशश्रृङ्गवत्
17
Keep
पुंसो हरिणकोऽस्मीति स्वप्ने यस्योदिता मतिः ।
स किमन्विष्यति मृगं स्वमृगत्वपरिक्षये
18
Keep
उदेत्यसत्यमेवाशु तथा सत्यं विलीयते ।
भ्रान्तिर्भ्रमवतो रज्वामपि सर्पभ्रमे गते
19
Keep
समस्तस्याप्रबुद्धस्य मनोजातस्य कस्यचित् ।
बीजं विना मृषैवेयं मिथ्यारूढिमुपागता
20
Keep
स्वप्नोपलम्भं सर्गाख्यं स सर्वोऽनुभवन्स्थितः ।
चिरमावृत्तदेहात्मा भूचक्रभ्रमणं यथा
21
Keep
ब्रह्मँल्लोकैः पुरस्थस्य गच्छतो योगिनो निजम् ।
आतिवाहिकतां देहः कीदृशोऽयं विलोक्यते
22
Keep
देहाद्देहान्तरप्राप्तिः पूर्वदेहं विना सदा ।
आतिवाहिकदेहेऽस्मिन्स्वप्नेष्विव विनश्वरी
23
Keep
यथातपे हिमकणः शरद्व्योम्नि सितोऽम्बुदः ।
दृश्यमानोऽप्यदृश्यत्वमित्येवं योगिदेहकः
24
Keep
द्रागित्येवाथवा कश्चिद्योगिदेहो न लक्ष्यते ।
योगिभिश्च पुरो वेगात्प्रोड्डीन इव खे खगः
25
Keep
स्ववासनाभ्रमेणैव क्वचित्केचित्कदाचन ।
मृतोऽयमिति पश्यन्ति केचिद्योगिनमग्रगाः
26
Keep
भ्रान्तिमात्रं तु देहात्मा तेषां तदुपशाम्यति ।
सत्यबोधेन रज्जूनां सर्पबुद्धिरिवात्मनि
27
Keep
को देहः कस्य वा सत्ता कस्य नाशः कथं कुतः ।
स्थितं तदेव यदभूदबोधः केवलं गतः
28
Keep
आतिवाहिकतामेति आधिभौतिक एव किम् ।
उतान्य इति मे ब्रूहि येनोह्य इव भोः प्रभो
29
Keep
बहुशो ह्युक्तमेतत्ते न गृह्णासि किमुत्तम ।
आतिवाहिक एवास्ति नास्त्येवेहाधिभौतिकः
30
Keep
तस्यैवाभ्यसतोऽप्येति साधिभौतिकतामतिः ।
यदा शाम्यति सैवास्य तदा पूर्वा प्रवर्तते
31
Keep
तदा गुरुत्वं काठिन्यमिति यश्च मुधा ग्रहः ।
शाम्येत्स्वप्ननरस्येव बोद्धुर्बोधान्निरामयात्
32
Keep
लघुतूलसमापत्तिस्ततः समुपजायते ।
स्वप्ने स्वप्नपरिज्ञानादिव देहस्य योगिनः
33
Keep
स्वप्ने स्वप्नपरिज्ञानाद्यथा देहो लघुर्भवेत् ।
तथा बोधादयं देहः स्थूलवत्प्लुतिमान्भवेत्
34
Keep
अनेकदिनसंकल्पदेहे परिणतात्मनाम् ।
अस्मिन्देहे शवे दग्धे तत्रैवास्थितिमीयुषाम्
35
Keep
लघुदेहानुभवनमवश्यं भावि वै तथा ।
प्रबोधातिशयादेति जीवतामपि योगिनाम्
36
Keep
उदितायां स्मृतौ तत्र संकल्पात्माहमित्यलम् ।
यादृशः स भवेद्देहस्तादृशोऽयं प्रबोधतः
37
Keep
भ्रान्तिरेवमियं भाति रज्ज्वामिव भुजङ्गता ।
किं नष्टमस्यां नष्टायां जातायां किं प्रजायते
38
Keep
अनन्तर ये वास्तव्या लीलां पश्यन्ति ते यदि ।
तत्सत्यसंकल्पतया बुध्यन्ते किमतः प्रभो
39
Keep
एवं ज्ञास्यन्ति ते राज्ञी स्थितेयमिह दुःखिता ।
वयस्या काचिदन्येयं कुतोऽप्यस्या उपागता
40
Keep
संदेहः क इवात्रैषां पशवो ह्यविवेकिनः ।
यथादृष्टं विचेष्टन्ते कुत एषां विचारणा
41
Keep
यथा लोष्टो लुठद्वृक्षं वञ्चयित्वाशु गच्छति ।
अज्ञानत्वेऽजपशवस्तथा ह्यस्ति पुरादिकम्
42
Keep
यथा स्वप्नवपुर्बोधान्न जाने क्वेव गच्छति ।
असत्यमेव तद्यस्मात्तथैवेहाधिभौतिकम्
43
Keep
भगवन्स्वप्नशिखरी प्रबोधे क्वेव गच्छति ।
इति मे संशयं छिन्धि शरदभ्रमिवानिलः
44
Keep
स्वप्नभ्रमेऽथ संकल्पे पदार्थाः पर्वतादयः ।
संविदोऽन्तर्मिलन्त्येते स्पन्दनान्यनिले यथा
45
Keep
अस्पन्दस्य यथा वायोः सस्पन्दोऽन्तर्विशत्यलम् ।
अनन्यात्मा तथैवायं स्वप्नार्थः संविदो मलम्
46
Keep
स्वप्नाद्यर्थावभासेन संविदेव स्फुरत्यलम् ।
अस्फुरन्ती तु तेनैव यात्येकत्वं तदात्मिका
47
Keep
संवित्स्वप्नार्थयोर्द्वित्वं न कदाचन लभ्यते ।
यथा द्रवत्वपयसोर्यथा वा स्पन्दवातयोः
48
Keep
यस्तत्र स्यादिवाबोधस्तदज्ञानमनुत्तमम् ।
सैषासंसृतिरित्युक्ता मिथ्याज्ञानात्मिकोदिता
49
Keep
सहकारिकारणानामभावे किल कीदृशी ।
संवित्स्वप्नपदार्थानां द्विता स्वप्ने निरर्थिका
50
Keep
यथा स्वप्नस्तथा जाग्रदिदं नास्त्यत्र संशयः ।
स्वप्ने पुरमसद्भाति सर्गादौ भात्यसज्जगत्
51
Keep
न चार्थो भवितुं शक्यः सत्यत्वे स्वप्नतोदितः ।
संविदो नित्यसत्यत्वं स्वप्नार्थानामसत्यता
52
Keep
झटित्येव यथाकाशं भवति स्वप्नपर्वतः ।
क्रमेण वा तथा बोधे खं भवत्याधिभौतिकम्
53
Keep
उड्डीनोऽयं मृतो वेति पश्यन्ति निकटस्थिताः ।
ज्ञमातिवाहिकीभूतं स्वस्वभावहता यतः
54
Keep
मिथ्यादृष्टय एवेमाः सृष्टयो मोहदृष्टयः ।
मायामात्रदृशो भ्रान्तिः शून्याः स्वप्नानुभूतयः
55
Keep
स्वप्नानुभूतय इमा मरणान्तबोधे
भ्रान्त्येतरभ्रमदृशः स्फुटसर्गभासः ।
भान्त्यातिवाहिकशरीरगताः समस्ता
मिथ्योदिता मृगनदीसरणक्रमेण
Previous
←
Sarga 56
Next
Sarga 58
→