Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 6
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
अस्य देवाधिदेवस्य परस्य परमात्मनः ।
ज्ञानादेव परा सिद्धिर्न त्वनुष्ठानदुःखतः
2
Keep
अत्र ज्ञानमनुष्ठानं नत्वन्यदुपयुज्यते ।
मृगतृष्णाजलभ्रान्तिशान्तौ चेदं निरूपितम्
3
Keep
नह्येष दूरे नाभ्याशे नालभ्यो विषमे न च ।
स्वानन्दाभासरूपोऽसौ स्वदेहादेव लभ्यते
4
Keep
किंचिन्नोपकरोत्यत्र तपोदानव्रतादिकम् ।
स्वभावमात्रे विश्रान्तिमृते नात्रास्ति साधनम्
5
Keep
साधुसंगमसच्छास्त्रपरतैवात्र कारणम् ।
साधनं बाधनं मोहजालस्य यदकृत्रिमम्
6
Keep
अर्यं सदेव इत्येव संपरिज्ञानमात्रतः ।
जन्तोर्न जायते दुःखं जीवन्मुक्तत्वमेति च
7
Keep
संपरिज्ञातमात्रेण किलानेनात्मनात्मना ।
पुनर्दोषा न बाधन्ते मरणाद्याः कदाचन
8
Keep
देवदेवो महानेष कुतो दूरादवाप्यते ।
तपसा केन तीव्रेण क्लेशेन कियताथवा
9
Keep
स्वपौरुषप्रयत्नेन विवेकेन विकासिना ।
स देवो ज्ञायते राम न तपःस्नानकर्मभिः
10
Keep
रागद्वेषतमःक्रोधमदमात्सर्यवर्जनम् ।
विना राम तपोदानं क्लेश एव न वास्तवम्
11
Keep
रागाद्युपहते चित्ते वञ्चयित्वा परं धनम् ।
यदर्ज्यते तस्य दानाद्यस्यार्थास्तस्य तत्फलम्
12
Keep
रागाद्युपहते चित्ते व्रतादि क्रियते च यत् ।
तद्दम्भः प्रोच्यते तस्य फलमस्ति मनाङ्ग च
13
Keep
तस्मात्पुरुषयत्नेन मुख्यमौषधमाहरेत् ।
सच्छास्त्रसज्जनासङ्गौ संसृतिव्याधिनाशनौ
14
Keep
अत्रैकं पौरुषं यत्नं वर्जयित्वेतरा गतिः ।
सर्वदुःखक्षयप्राप्तौ न काचिदुपपद्यते
15
Keep
श्रृणु तत्पौरुषं कीदृगात्मज्ञानस्य लब्धये ।
येन शाम्यत्यशेषेण रागद्वेषविषूचिका
16
Keep
यथासंभवया वृत्त्या लोकशास्त्राविरुद्धया ।
संतोषसंतुष्टमना भोगगन्धं परित्यजेत्
17
Keep
यथासंभवमुद्योगादनुद्विग्नतया स्वया ।
साधुसंगमसच्छास्त्रपरतां प्रथमं श्रयेत्
18
Keep
यथाप्राप्तार्थसंतुष्टो यो गर्हितमुपेक्षते ।
साधुसंगमसच्छास्त्रपरः शीघ्रं स मुच्यते
19
Keep
विचारेण परिज्ञातस्वभावस्य महामतेः ।
अनुकम्प्या भवन्त्येते ब्रह्मविष्ण्विन्द्रशंकराः
20
Keep
देशे यं सुजनप्राया लोकाः साधुं प्रचक्षते ।
स विशिष्टः स साधुः स्यात्तं प्रयत्नेन संश्रयेत्
21
Keep
अध्यात्मविद्या विद्यानां प्रधानं तत्कथाश्रयम् ।
शास्त्रं सच्छास्त्रमित्याहुर्मुच्यते तद्विचारणात्
22
Keep
सच्छास्त्रसत्संगमजैर्विवेकै-
स्तथा विनश्यन्ति बलादविद्याः ।
यथा जलानां कतकानुषङ्गा-
द्यथा जनानां मतयोऽपि योगात्
Previous
←
Sarga 5
Next
Sarga 7
→