Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 65
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
परस्मात्कारणादेव मनः प्रथममुत्थितम् ।
मननात्मकमाभोगि तत्स्थमेव स्थितिं गतम्
2
Keep
भावाभावलसद्दोलं तेनायमवलोक्यते ।
सर्गः सदसदाभासः पूर्वगन्ध इवेच्छया
3
Keep
न कश्चिद्विद्यते भेदो द्वैतैक्यकलनात्मकः ।
ब्रह्मजीवमनोमायाकर्तृकर्मजगद्दृशाम्
4
Keep
अपारावारविस्तारसंवित्सलिलवल्गनैः ।
चिदेकार्णव एवायं स्वयमात्मा विजृम्भते
5
Keep
असत्यमस्थैर्यवशात्सत्यं संप्रतिभासतः ।
यथा स्वप्नस्तथा चित्तं जगत्सदसदात्मकम्
6
Keep
न सन्नासन्न संजातश्चेतसो जगतो भ्रमः ।
अथ धीसमवायानामिन्द्रजालमिवोत्थितः
7
Keep
दीर्घः स्वप्नः स्थितिं यातः संसाराख्यो मनोबलात् ।
असम्यग्दर्शनात्स्थाणाविव पुंस्प्रत्ययो मुधा
8
Keep
अनात्मालोकनाच्चित्तं चित्तत्वं नानुशोचति ।
वेतालकल्पनाद्बाल इव संकल्पिते भये
9
Keep
अनाख्यस्य स्वरूपस्य सर्वाशातिगतात्मनः . ।
चेत्योन्मुखतया चित्तं चित्ताज्जीवत्वकल्पनम्
10
Keep
जीवत्वादप्यहंभावस्त्वहंभावाच्च चित्तता ।
चित्तत्वादिन्द्रियादित्वं ततो देहादिविभ्रमाः
11
Keep
देहादिमोहतः स्वर्गनरकौ मोक्षबन्धने ।
बीजाङ्कुरवदारम्भसंरूढे देहकर्मणोः
12
Keep
द्वैतं यथा नास्ति चिदात्मजीवयो-
स्तथैव भेदोऽस्ति न जीवचित्तयोः ।
यथैव भेदोऽस्ति न जीवचित्तयो-
स्तथैव भेदोऽस्ति न देहकर्मणोः
13
Keep
कर्मैव देहो ननु देह एव
चित्तं तदेवाहमितीह जीवः ।
स जीव एवेश्वरचित्स आत्मा
सर्वः शिवस्त्वेकपदोक्तमेतत्
Previous
←
Sarga 64
Next
Sarga 66
→