Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 71
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
अथ सा बहुकालेन कर्कटी नाम राक्षसी ।
सर्वेषां नरमांसानां नतु तृप्तिमुपाययौ
2
Keep
पूर्वेणैव किलाह्ना सा तृप्ता रुधिरबिन्दुना ।
सूच्याः किमिव मात्यन्तस्तृष्णासूची सुदुर्भरा
3
Keep
चिन्तयामास हा कष्टं किमहं सूचिता गता ।
सूक्ष्मास्मि हतशक्तिश्च अपि ग्रासो न माति च
4
Keep
क्व मे तानि विशालानि गतान्यङ्गानि दुर्धियः ।
कालमेघविशालानि वने शीर्णानि पर्णवत्
5
Keep
मय्यस्यां मन्दभाग्यायां मनागपि न माति हि ।
स्वादुमांसरसग्रासो वसावासित आसयन्
6
Keep
पङ्कान्तर्विनिमज्जामि पतामि धरणीतले ।
हस्तास्मि जनपादौघैः शुक्रेण मलिनास्मि च
7
Keep
हा हताहमनाथाहमनाश्वासा निरास्पदा ।
दुःखाद्दुःखे निमज्जामि संकटात्संकटेऽपि च
8
Keep
न सखी न च मे दासी न मे माता न मे पिता ।
न मे बन्धुर्न मे भृत्या न मे भ्राता न मे सुतः
9
Keep
न मे देहो न मे स्थानं न मे कश्चित्समाश्रयः ।
नैकस्थाने समावासो भ्राम्यामि वनपर्णवत्
10
Keep
आपदां धुरि तिष्ठामि निविष्टास्मि सुदारुणे ।
अभावमपि वाञ्छामि सोऽपि संपद्यते न मे
11
Keep
स्वको देहः परित्यक्तो मूढचेतनया मया ।
काचबुद्ध्या विमूढेन हस्ताच्चिन्तामणिर्यथा
12
Keep
आपतद्धि मनो मोहं पूर्वमापत्प्रयच्छति ।
पश्चादनर्थविस्ताररूपेण परिजृम्भते
13
Keep
धूमेषु परितिष्ठामि मार्गे विलुलितास्मि च ।
तृणेषु प्रेषितास्म्यन्तर्हा मे दुःखपरम्परा
14
Keep
परप्रैषकरी नित्यं परसंचारचारिणी ।
परं कार्पण्यमायाता जाता परवशास्म्यलम्
15
Keep
भ्रान्तिं करोमि तुच्छे च सापि वेधनरूपिणी ।
अहो ममाल्पभाग्याया दौर्भाग्यमपि दुर्भगम्
16
Keep
उत्थितः स्फारवेतालः कुर्वत्याः शान्तिमद्य मे ।
सर्वनाशोऽवदातेन प्रवृत्ताया ममोदिता
17
Keep
किं मन्दया मया तादृक्संत्यक्तं तन्महावपुः ।
यथा नाशेन वा भाव्यं तथोदेत्यशुभा मतिः
18
Keep
मामवान्तरनिर्मग्नां सूक्ष्मां कीटतनोरपि ।
उद्धरिष्यति को नाम पांसुराशिभिरावृताम्
19
Keep
विविक्तमनसां बुद्धौ क्व स्फुरन्ति हताशयाः ।
ग्राममार्गतृणानीव गिरेरुपरिवासिनाम्
20
Keep
स्थिताया अज्ञताम्भोधौ क्व ममाभ्युदयो भवेत् ।
अन्धस्योदेति प्राकाश्यं नखद्योतानुसेविनः
21
Keep
अतः कियन्तं नो जाने कालमावलितापदम् ।
मयापच्छ्वभ्रगर्तेषु लुठितव्यं हतेहया
22
Keep
कदा स्यामञ्जनमहाशैलपुत्रकरूपिणी ।
द्यावापृथिव्योर्वैधुर्ये स्तम्भतामनुतिष्ठत
23
Keep
मेघमालासमभुजा चिरं विद्युत्पदेक्षणा ।
नीहारजालवसना प्रोच्चकेशमिताम्बरा
24
Keep
लम्बोदराभ्रसंदर्शप्रनर्तितशिखण्डिनी ।
लम्बलोलस्तनी श्यामा देहवातद्रवत्स्तनी
25
Keep
हासभस्मच्छटाच्छन्नसूर्यमण्डलरोधिनी ।
कृतान्तग्रसनोद्युक्तकृत्यैकाकृतिधारिणी
26
Keep
कृशानूलूखलदृशा सूर्यस्रग्दामहारिणी ।
पर्वतात्पर्वते शृङ्गे न्यस्य पादौ विहारिणी
27
Keep
कदा मे स्याद्गुरुश्वभ्रभासुरं तन्महोदरम् ।
कदा मे स्याच्छरन्मेघमेदुरा नखरावली
28
Keep
कदा मे स्यान्महारक्षोविद्रावणकरं स्मितम् ।
स्वस्फिग्वाद्यैररण्यान्यां कदा नृत्येयमुन्मदा
29
Keep
वसासवमहाकुम्भैर्मृतमांसास्थिसंचयैः ।
कदा करिष्येऽविरतं मेदुरोदरपूरणम्
30
Keep
कदा पीतमहालोकरुधिरा क्षीबतां गता ।
भवेयं मुदिता दृप्ता मुद्रिता निद्रया ततः
31
Keep
मयैव कुतपोवह्नौ तदन्यं भासुरं वपुः ।
भस्मत्वं कनकेनेव सूचित्वमुररीकृतम्
32
Keep
क्व किलाञ्जनशैलाभं वपुर्भरितदिक्तटम् ।
क्व प्राचिकाखुरसमं सूचित्वं तृणपेलवम्
33
Keep
त्यजत्याशु मृदित्यज्ञः प्राप्यापि कनकाङ्गदम् ।
मया सूचित्वलोभेन संत्यक्तं भासुरं वपुः
34
Keep
हा महोदर विन्ध्याद्रिसनीहारगुहोपम ।
अद्य नान्तं करोषि त्वं कथं सिंहेन हस्तिनाम्
35
Keep
हा भुजौ भरनिर्भग्नशिखरौ शशभृन्नखैः ।
पुरोडाशधिया चन्द्रं कथमद्य न बाधतः
36
Keep
हा वक्षः काचवैधुर्यगिरीन्द्रतटसुन्दर ।
नाद्य सिंहादि यौकं तद्धृतं रोमवनं तथा
37
Keep
हा नेत्रे कृष्णरजनीरजःशुष्केन्धनैजने ।
कस्मान्न मे भूषयतो दृग्ज्वालामालया दिश
38
Keep
हा स्कन्ध बन्धो नष्टोऽसि निषिद्धोऽसि महीतले ।
कालेन विनिपिष्टोऽसि निघृष्टोऽसि शिलातले
39
Keep
हा मुखेन्दो तपसि किं नाद्य त्वं मम रश्मिभिः ।
कल्पान्तदावसंशान्तचन्द्रबिम्बमनोहर
40
Keep
हा हा हस्तौ महाकारौ तावद्य क्व गतौ मम ।
संपन्नास्मि महासूचिर्मक्षिकाखुरदोलिता
41
Keep
हा भगोग्रकरञ्जाढ्यसत्कन्दश्वभ्रशोभन ।
विन्ध्याद्वरेण्यविपुलनितम्बामलबिम्बक
Previous
←
Sarga 70
Next
Sarga 72
→