Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 77
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
एतस्मिन्नन्तरे तत्र किरातजनमण्डले ।
हस्तहार्यतमःपिण्डा बभूवासितयामिनी
2
Keep
नीलमेघपटच्छन्ना निरिन्दुगगनान्तरा ।
तमालवनसंपिण्डा मांसलोड्डीनकज्जला
4
Keep
लताघनतया ग्रामकोटरैकान्ध्यमन्थरा ।
गृहचत्वरसंबाधे नगरे नवयौवना । ।
चत्वरेषु तमःपिण्डी प्रजिह्मीकृतदीपिका ।
कुञ्चितच्छिद्रनिष्क्रान्ताऽऽदीपिकारोचिराजिता
5
Keep
सुवयस्येव कर्कट्याः परिनृत्यत्पिशाचिका ।
मत्तवेतालकङ्कालकाष्ठमौनमिवास्थिता
6
Keep
सुषुप्तमृगभूतौघघननीहारहारिणी ।
मन्दमन्दमरुत्स्पर्शलसत्प्रालेयसीकरा
7
Keep
सरःसु विवटद्वारि काकभेकतरङ्गिता ।
अन्तःपुरेषु रमणरणन्नारीनरानना
8
Keep
जङ्गलेषु जगज्वाला जटालज्वलनोज्ज्वला ।
केदारेष्वम्बुसंसेकपृष्ठपाकमिलच्छला
9
Keep
नभस्थलेक्षितस्पन्दप्रविविक्तर्क्षचक्रिका ।
वनेषु विसरद्वातपतत्पुष्पफलद्रुमा
10
Keep
श्वभ्रेषु कौशिकस्यान्तर्वायसव्याहतारवा ।
तस्कराक्रान्तपर्यन्तग्राम्याक्रन्दनकर्कशा
11
Keep
विपिने विपिनामौना नगरे सुप्तनागरा ।
वनेषु विसरद्वाता नीडेष्वस्पन्दपक्षिका
12
Keep
गुहासु सुप्तसिंहाढ्या कुञ्जेषु स्वपदेणका ।
खे सावश्यायनिकरा विपिने मौनचारिणी
13
Keep
कज्जलाम्भोदमध्याभा काचशैलोदरोपमा ।
पङ्कपिण्डान्तरघना खड्गच्छेद्यान्ध्यमांसला
14
Keep
प्रलयानिलविक्षुब्धकज्जलाचलचञ्चला ।
एकार्णवमहापङ्कपर्वतोदरमेदुरा
15
Keep
अङ्गारकोटरघना सौषुप्तपदसुन्दरी ।
अज्ञाननिद्रानिबिडा भृङ्गपृष्ठच्छदच्छविः
16
Keep
तस्यां रजन्यां भीमायां किरातजनमण्डले ।
मन्त्रिणा सह भूपालस्तस्मिन्नवसरे तदा
17
Keep
निर्जगाम सुधीरात्मा नगरात्सुप्तनागरात् ।
अटवीं विक्रमो नाम विषमां वीरचर्यया
18
Keep
अटव्यां कर्कटी सा तौ चरन्तौ राजमन्त्रिणौ ।
अपश्यद्धृतधैर्यास्त्रौ वेतालालोकनोन्मुखौ
19
Keep
अथ सा चिन्तयामास लब्धो भक्षो ह्यहो मया ।
मूढावेतावनात्मज्ञौ भारो देहः किलानयोः
20
Keep
इहामुत्र च नाशाय मूढो दुःखाय जीवति ।
यत्नाद्विनाशनीयोऽसौ नानर्थः परिपाल्यते
21
Keep
अपश्यतः स्वमात्मानं मृतिर्मूढस्य जीवितम् ।
मरणेनोदयोऽस्यास्ति पापासंपत्तिहेतुतः
22
Keep
आदिसर्गे च नियमः कृतः पङ्कजजन्मना ।
हिंस्राणां भोजनायास्तु मूढात्मानात्मवानिति
23
Keep
तस्मादिमौ मयैवाद्य भोक्तव्यौ भोज्यतां गतौ ।
अभव्य एव निर्दोषं प्राप्तमर्थमुपेक्षते
24
Keep
कदाचित्ताविमौ स्यातां गुणयुक्तौ महाशयौ ।
तादृङ्न रविनाशो हि स्वभावान्मे न रोचते
25
Keep
तदेतौ संपरीक्षेऽहं यदि तादृग्गुणान्वितौ ।
तद्भक्षं न करोम्येतौ न हिंस्या गुणिनः क्वचित्
26
Keep
अकृत्रिमं सुखं कीर्तिमायुश्चैवाभिवाञ्छता ।
सर्वाभिमतदानेन पूजनीया गुणान्विताः
27
Keep
अपि नङ्क्ष्यामि देहेन नैव भोक्ष्ये गुणान्वितम् ।
सुखयन्ति हि चेतांसि जीवितादपि साधवः
28
Keep
अपि जीवितदानेन गुणिनं परिपालयेत् ।
गुणवत्संगमौषध्या मृत्युरप्येति मित्रताम्
29
Keep
यत्राहमपि रक्षामि राक्षसी गुणशालिनम् ।
तत्रान्यः को न कुर्यात्तं हृदि हारमिवामलम्
30
Keep
उदारगुणयुक्ता ये विहरन्तीह देहिनः ।
धरातलेन्दवः सङ्गाद्भृशं शीतलयन्ति ते
31
Keep
मृतिर्गुणितिरस्कारो जीवितं गुणिसंश्रयः ।
फलं स्वर्गापवर्गादि जीविताद्गुणिसंश्रितात्
32
Keep
तस्मादिमौ परीक्षेऽहं कयाचित्प्रश्नलीलया ।
किंमात्रज्ञानकावेताविति तामरसेक्षणौ
33
Keep
आदौ विचार्य सगुणागुणलेशयुक्तिं
पश्चात्स्वतोऽधिकतरं च गुणैर्यदि स्यात् ।
कुर्यात्ततः समुपपत्तिवशेन दण्डं
दड्यस्य युक्तिसदृशं घनसंभवेन
Previous
←
Sarga 76
Next
Sarga 78
→