Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 79
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
इत्युक्त्वा राक्षसी प्रश्नान्सा वक्तुमुपचक्रमे । ।
उच्यतामिति राज्ञोक्ते तानिमान्शृणु राघव
2
Keep
राक्षस्युवाच ।
एकस्यानेकसंख्यस्य कस्याणोरम्बुधेरिव ।
अन्तर्ब्रह्माण्डलक्षाणि लीयन्ते बुद्बुदा इव
3
Keep
किमाकाशमनाकाशं न किंचित्किंचिदेव किम् ।
कोऽहमेवासि संपन्नः को भवानप्यहं स्थितः
4
Keep
गच्छन्न गच्छति च कः कोऽतिष्ठन्नपि तिष्ठति ।
कश्चेतनोऽपि पाषाणः कश्चिद्व्योम्नि विचित्रकृत्
5
Keep
वह्नितामजहच्चैव कश्च वह्निरदाहकः ।
अवह्नेर्जायते वह्निः कस्माद्राजन्निरन्तरम्
6
Keep
अचन्द्रार्काग्नितारोऽपि कोऽविनाशः प्रकाशकः ।
अनेत्रलभ्यात्कस्माच्च प्रकाशः संप्रवर्तते
7
Keep
लतागुल्माङ्कुरादीनां जात्यन्धानां तथैव च ।
अन्येषामप्यनक्षाणामालोकः क इवोत्तमः
8
Keep
जनकः कोऽम्बरादीनां सत्तायाः कः स्वभावदः ।
को जगद्रत्नकोशः स्यात्कस्य कोशो मणेर्जगत्
9
Keep
कोऽणुस्तमःप्रकाशः स्यात्कोऽणुरस्ति च नास्ति च ।
कोऽणुर्दूरेऽप्यदूरे च कोऽणुरेव महागिरिः
10
Keep
निमेष एव कः कल्पः कः कल्पोऽपि निमेषकः ।
किं प्रत्यक्षमसद्रूपं किं चेतनमचेतनम्
11
Keep
कश्च वायुरवायुश्च कः शब्दोऽशब्द एव कः ।
कः सर्वं न च किंचिच्च कोऽहं नाहं च किं भवेत्
12
Keep
किं प्रयत्नशतप्राप्यं लब्ध्वापि बहुजन्मनि ।
लब्धं न किंचिद्भवति किंतु सर्वं न लभ्यते
13
Keep
स्वस्थेन जीवितेनोच्चैः केनात्मैवापहारितः ।
केनाणुनान्तः क्रियते मेरुस्त्रिभुवनं तृणम्
14
Keep
केनाप्यणुकमात्रेण पूरिता शतयोजनी ।
कोऽणुरेव भवन्माति न योजनशतेष्वपि
15
Keep
केनालोकनमात्रेण जगद्वालः प्रनाट्यते ।
कस्याणोरुदरे सन्ति किलावनिभृतां घटाः
16
Keep
अणुत्वमजहत्कोऽणुर्मेरोः स्थूलतराकृतिः ।
वालाग्रशतभागात्मा कोऽणुरुच्चैः शिलोच्चयः
17
Keep
कोऽणुः प्रकाशतमसां दीपः प्रकटनप्रदः ।
कस्याणोरुदरे सन्ति समग्रानुभवाणवः
18
Keep
कोऽणुरत्यन्तनिःस्वादुरपि संस्वदतेऽनिशम् ।
केन संत्यजता सर्वमणुना सर्वमाश्रितम्
19
Keep
केनात्माच्छादनाशक्तेनाणुनाच्छादितं जगत् ।
जगल्लये न कस्याणोः सद्भूतमपि जीवति
20
Keep
अजातावयवः कोऽणुः सहस्रकरलोचनः ।
को निमेषो महाकल्पः कल्पकोटिशतानि च
21
Keep
अणौ जगन्ति तिष्ठन्ति कस्मिन्बीज इव द्रुमः ।
बीजानि निष्कलान्तानि स्फुटान्यनुदितान्यपि
22
Keep
कल्पः कस्य निमेषस्य बीजस्येवान्तरस्थितः ।
कः प्रयोजनकर्तृत्वमप्यनाश्रित्य कारकः
23
Keep
दृश्यसंपत्तये द्रष्टा स्वात्मानं दृश्यतां नयन् ।
दृश्यं पश्यन्स्वमात्मानं को हि पश्यत्यनेत्रवान्
24
Keep
अन्तर्गलितदृश्यं च क आत्मानमखण्डितम् ।
दृश्यासंपत्तये पश्यन्पुरो दृश्यं न पश्यति
25
Keep
आत्मानं दर्शनं दृश्यं को भासयति दृश्यवत् ।
कटकादीनि हेम्नेव विकीर्णं केन च त्रयम्
26
Keep
कस्मान्न किंचिच्च पृथगूर्म्यादीव महाम्भसः ।
कस्येच्छया पृथक्चास्ति वीचितेव महाम्भसः
27
Keep
दिक्कालाद्यनवच्छिन्नादेकस्मादसतः सतः ।
द्वैतमप्यपृथक्कस्माद्द्रवतेव महाम्भसः
28
Keep
आत्मानं दर्शनं दृश्यं सदसच्च जगत्त्रयम् ।
कोऽन्तर्बीजमिवान्तस्थं स्थितः कृत्वा त्रिकालगः
29
Keep
भूतं भवद्भविष्यच्च जगद्वृन्दं बृहद्भ्रमम् ।
नित्यं समस्य कस्यान्तर्बीजस्यान्तरिव द्रुमः
30
Keep
बीजं द्रुमतयेवाशु द्रुमो बीजतयेव च ।
स्वमेकमजहदूपमुदेत्यनुदितोऽपि कः
31
Keep
बिसतन्तुर्महामेरुर्भो राजन्यदपेक्षया ।
तस्य कस्योदरे सन्ति मेरुमन्दरकोटयः
32
Keep
केनेदमाततमनेकचिदेव विश्वं
किंसार एवमतिवल्गसि हंसि पासि ।
किंदर्शनेन न भवस्यथवा सदैव
नूनं भवस्यमलदृग्वदनः स्वशान्त्यै
33
Keep
एषोऽसौ प्रगलतु संशयो ममोच्चै-
श्चित्तश्रीमुखमिहिकामलानुलेपः ।
यस्याग्रे न गलति संशयः समूलो
नैवासौ क्वचिदपि पण्डितोक्तिमेति
34
Keep
एवं मे यदि न विनेष्यथः क्रमोक्तं
संशान्तं लघुतरसंशयं सुबुद्धी ।
तद्रक्षोजरठहुताशनेन्धनत्वं
निर्विघ्नं झटिति गमिष्यथः क्षणेन
35
Keep
पश्चात्तां जनपदमण्डलीं समन्ता-
द्भावत्कीमुरुजठरा क्षणाद्ग्रसेऽहम् ।
एवं ते भवतु सुराजतेति मन्ये
मूर्खाणामतिरस एव संक्षयाय
36
Keep
इत्युक्त्वा विपुलगभीरमेघनाद-
प्रोल्लासप्रकटगिरा निशाचरी सा ।
तूष्णीमप्यतिविकटाकृतिस्तदासी-
च्छुद्धान्तः शरदमलाभ्रमण्डलीव
Previous
←
Sarga 78
Next
Sarga 80
→