Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 8
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
कयैतज्ज्ञायते युक्त्या कथमेतत्प्रसिध्यति ।
न्यायानुभूत एतस्मिन्न ज्ञेयमवशिष्यते
2
Keep
बहुकालमियं रूढा मिथ्याज्ञानविषूचिका ।
जगन्नाम्न्यविचाराख्या विना ज्ञानं न शाम्यति
3
Keep
वदाम्याख्यायिका राम या इमा बोधसिद्धये ।
ताश्चेच्छृणोषि तत्साधो मुक्त एवासि बुद्धिमान्
4
Keep
नो चेदुद्वेगशीलत्वादर्धादुत्थाय गच्छसि ।
तत्तिर्यग्धर्मिणस्तेऽद्य न किंचिदपि सेत्स्यति
5
Keep
योऽयमर्थं प्रार्थयते तदर्थं यतते तथा ।
सोऽवश्यं तदवाप्नोति न चेच्छ्रान्तो निवर्तते
6
Keep
साधुसंगमसच्छास्त्रपरो भवसि राम चेत् ।
तद्दिनैरेव नो मासैः प्राप्नोषि परमं पदम्
7
Keep
आत्मज्ञानप्रबोधाय शास्त्रं शास्त्रविदां वर ।
किं नाम तत्प्रधानं स्याद्यस्मिञ्ज्ञाते न शोच्यते
8
Keep
आत्मज्ञानप्रधानानामिदमेव महामते ।
शास्त्राणां परमं शास्त्रं महारामायणं शुभम्
9
Keep
इतिहासोत्तमादस्मताद्बोधः प्रवर्तते ।
सर्वेषामितिहासानामयं सार उदाहृतः
10
Keep
श्रुतेऽस्मिन्वाड्मये यस्माज्जीवन्मुक्तत्वमक्षयम् ।
उदेति स्वयमेवात इदमेवातिपावनम्
11
Keep
स्थितमेवास्तमायाति जगद्दृश्यं विचारणात् ।
यथा स्वप्ने परिज्ञाते स्वप्नादावेव भावना
12
Keep
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ।
इमं समस्तविज्ञानशास्त्रकोशं विदुर्बुधाः
13
Keep
य इदं श्रृणुयान्नित्यं तस्योदारचमत्कृतेः ।
बोधस्यापि परं बोधं बुद्धिरेति न संशयः
14
Keep
यस्मै नेदं त्वरुचये रोचते दुष्कृतोदयात् ।
विचारयतु यत्किंचित्सच्छास्त्रं ज्ञानवाङ्मयम्
15
Keep
जीवन्मुक्तत्वमस्मिंस्तु श्रुते समनुभूयते ।
स्वयमेव यथा पीते नीरोगत्वं वरौषधे
16
Keep
श्रूयमाणे हि शास्त्रेऽस्मिञ्छ्रोता वेत्त्येतदात्मना ।
यथावदिदमस्माभिर्ननूक्तं वरशापवत्
17
Keep
नश्यति संसृतिदुःखमिदं ते
स्वात्मविचारणया कथयैव ।
नो धनदानतपःश्रुतवेदै-
स्तत्कथनोदितयत्नशतेन
Previous
←
Sarga 7
Next
Sarga 9
→