Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 83
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
किरातमण्डले तस्मिन्ये भवन्ति महीभृतः ।
तैस्तैः सह परा मैत्री तस्याः समभिजायते
2
Keep
सर्वांस्तत्र महोत्पातान्पिशाचादिभयान्यपि ।
रोगांश्च योगसंसिद्धा निवारयति राक्षसी
3
Keep
बहुवर्षगणेनैषा ध्यानाद्विरतिमागता ।
तत्रागत्य समस्तांस्तान्वध्याञ्जन्तून्सुसंचितान्
4
Keep
अद्यापि तत्र ये वध्यास्ते तदर्थं महीभुजा ।
नीयन्ते मित्रसन्माने के हि नाध्यवसायिनः
5
Keep
तस्यां ध्याननिषण्णायां किरातजनमण्डले ।
अनायान्त्यां चिरं कालं जनैर्दोषप्रशान्तये
6
Keep
सा देवी कन्दरानाम्नी मङ्गलेतरनामिका ।
संप्रतिष्ठापिता मूर्त्या पुरे गगनकोटरे
7
Keep
ततःप्रभृति तत्रत्यो यो यो भवति भूमिपः ।
स कन्दरां भगवतीं प्रतिष्ठापयति स्वयम्
8
Keep
यः कन्दराप्रतिष्ठां च न करोति नृपाधमः ।
तस्योपतापनिचयाः प्रजा निघ्नन्ति यत्नतः
9
Keep
तत्पूजनादवाप्नोति जनस्तन्निखिलं फलम् ।
स्ववासनावशोच्छूनमनर्थं यात्यपूजनात्
10
Keep
वध्यलोकोपहारेण सा देवी परिपूज्यते ।
प्रतिमा सा स्थिताद्यापि चित्रस्था फलदायिनी
11
Keep
सकलकोमलमङ्गलकारिणी कवलिताखिलवध्यमहाजना ।
जयति सात्र किरातजनास्पदे परमबोधवती चिरदेवता
Previous
←
Sarga 82
Next
Sarga 84
→