Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 87
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
भानुरुवाच ।
पितामहक्रमे तस्मिंस्ततस्ते बहुभावनात् ।
कर्मभिस्तैः समाक्रान्तमनस्कास्तस्थुरादृताः
2
Keep
यावत्ते देहकास्तेषां तापेन पवनैस्तथा ।
कालेन शोषमभ्येत्य गलिताः शीर्णपर्णवत्
3
Keep
जक्षुस्तान्देहकांस्तत्र क्रव्यादा वनवासिनः ।
इतश्चेतश्च लुठितान्सुफलानीव मर्कटाः
4
Keep
अथ ते शान्तबाह्यार्था ब्रह्मत्वे कृतभावनाः ।
तस्थुश्चतुर्युगस्यान्ते यावत्कल्पः क्षयं गतः
5
Keep
क्षीयमाणे ततः कल्पे तपत्यादित्यसंचये ।
पुष्करावर्तकेषूच्चैर्वर्षत्सु कठिनारवम्
6
Keep
वहत्सु कल्पवातेषु स्थित एकमहार्णवे ।
क्षीणेषु भूतवृन्देषु ते तथैव व्यवस्थिताः
7
Keep
ततो रात्रिक्रमपरे सर्वां संहृत्य तां स्थितिम् ।
स्थिते त्वय्यात्मनि विभो ते तथैव व्यवस्थिताः
8
Keep
अद्य प्रबुद्धे भवति स्रष्टुमिच्छति संसृतिम् ।
सुखेनैव क्रमेणोच्चैस्ते तथैव व्यवस्थिताः
9
Keep
तथैते भगवन्ब्रह्मन्ब्रह्मणो ब्राह्मणा दश ।
त एते दश संसारा मनोव्योमनि संस्थिताः
10
Keep
तेषामेकतमस्याहमयमाकाशमन्दिरे ।
भानुर्भुवि विभो कालकलाकर्मणि योजितः
11
Keep
एष ते कथितः सर्गो दिशानामलसंभव ।
ब्रह्मणां संभवो व्योम्नि यथेच्छसि तथा कुरु
12
Keep
विविधकल्पनया वलिताम्बरं
यदिदमुत्तम जागतमुत्थितम् ।
करणजालकमाहितमोहनं
तदखिलं निजचेतसि विभ्रमः
Previous
←
Sarga 86
Next
Sarga 88
→