Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 89
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
भानुरुवाच ।
मनो हि जगतां कर्तृ मनो हि पुरुषः परः ।
मनःकृतं कृतं लोके न शरीरकृतं कृतम्
2
Keep
सामान्यब्राह्मणा भूत्वा मनोभावनया किल ।
ऐन्दवा ब्रह्मतां याता मनसः पश्य शक्तताम्
3
Keep
मनसा भाव्यमानो हि देहतां याति देहकः ।
देहभावनयाऽयुक्तो देहधर्मैर्न बाध्यते
4
Keep
बाह्यदृष्टिर्हि नियतं सुखदुःखादि विन्दति ।
नान्तर्मुखतया योगी देहे वेत्ति प्रियाप्रिये
5
Keep
मनःकारणकं तस्माज्जगद्विविधविभ्रमम् ।
इन्द्रस्याहल्यया सार्धं वृत्तान्तोऽत्र निदर्शनम्
6
Keep
श्रीब्रह्मोवाच ।
काहल्या भगवन्भानो को वात्रेन्द्रस्तमोनुद ।
ययोरुदन्तश्रवणे पावनी दृष्टिरेति हि
7
Keep
भानुरुवाच ।
श्रूयते हि पुरा देव मागधेषु महीपतिः ।
इन्द्रद्युम्न इति ख्यात इन्द्रद्युम्न इवापरः
8
Keep
तस्येन्दुबिम्बप्रतिमा भार्या कमललोचना ।
अहल्या नाम तत्रासीच्छशाङ्कस्येव रोहिणी
9
Keep
तस्मिन्नेव पुरे षिङ्गः षिङ्गप्रकरशेखरः ।
इन्द्रनामा परः कश्चिद्धीमान्विप्रकुमारकः
10
Keep
अहल्या पूर्वमिन्द्रस्य बभूवेष्टेत्यहल्यया ।
श्रुतं राजमहिष्याथ कथाप्रस्तावतः क्वचित्
11
Keep
आकर्ण्यैवमहल्या सा बभूवेन्द्रानुरागिणी ।
अहल्यां मां स नो कस्मात्सक्तोऽभ्येतीत्यथोत्सुका
12
Keep
मृणालभारकदलीपल्लवास्तरणेषु सा ।
अतप्यत भृशं बाला लता लूना वनेष्विव
13
Keep
खेदमाप समग्रासु तासु भूपविभूतिषु ।
मत्सी निदाघतप्तासु परिलोला स्थलीष्विव
14
Keep
अयमिन्द्रोऽयमिन्द्रश्चेत्येवं जातप्रलापया ।
लज्जापि हि तया त्यक्ता वैवश्यमनुयातया
15
Keep
इत्यार्तया घनस्नेहमथ तस्या वयस्यया ।
उक्तं तया प्रियेऽविघ्नमिन्द्रमभ्यानयाम्यहम्
16
Keep
इष्टं तवानयामीति श्रुत्वा विकसितेक्षणा ।
पपात पादयोः सख्या नलिन्या नलिनी यथा
17
Keep
ततः प्रयाते दिवसे समायाते निशागमे ।
सा वयस्या तमिन्द्राख्यं ययौ द्विजकुमारकम्
18
Keep
बोधयित्वा यथायुक्तं सा तमिन्द्रमथाङ्गना ।
अहल्यानिकटं रात्र्यामानयामास सत्वरम्
19
Keep
ततः सा तेन षिङ्गेन सहेन्द्रेण रतिं ययौ ।
कस्मिंश्चित्सदने गुप्ते बहुमाल्यविलेपना
20
Keep
हाराङ्गदमनोज्ञेन तरुणी तेन सा तदा ।
रतेनावर्जिता वल्ली रसेन मधुना यथा
21
Keep
ततस्तदनुरक्ता सा पश्यन्ती तन्मयं जगत् ।
न समस्तगुणाकीर्णं भर्तारं बह्वमन्यत
22
Keep
केनचित्त्वथ कालेन तस्या इन्द्रानुरागिता ।
सा ज्ञाता राजसिंहेन तन्मुखव्योमचन्द्रिका
23
Keep
इन्द्रं ध्यायति सा यावत्तावत्तस्या विराजते ।
मुखं पूर्णेन चन्द्रेण प्रबुद्धमिव कैरवम्
24
Keep
इन्द्रोऽपि च तदासक्तसमस्तकरणाकुलः ।
न तिष्ठति क्षणमहो तया विरहितः क्वचित्
25
Keep
अथातिसुघनस्नेहनिरावरणचेष्टयोः ।
तयोरनयवृत्तान्तो राज्ञाकर्णि कटुव्यथः
26
Keep
एवमन्योन्यमासक्तं भावमालक्ष्य भूपतिः ।
चकार बहुभिर्दण्डैः स द्वयोरथ शासनम्
27
Keep
तावुभावपि संत्यक्तौ हेमन्ते सलिलाशये ।
तुष्टौ जहसतुस्तत्र न खेदं समुपागतौ
28
Keep
अपृच्छत ततो राजा खिन्नौ स्थो न तु दुर्मती ।
तावूचतुर्महीपाल जलाशयसमुद्धृतौ
29
Keep
संस्मृत्यावामिहान्योन्यमुखकान्तिमनिन्दिताम् ।
आत्मानं न विजानीवो रूढभावं परस्परम्
30
Keep
शासनेषु च यत्सङ्गो निःशङ्कस्तेन हर्षितौ ।
मुह्यावो न महीपाल स्वाङ्गैरपि विकर्तितैः
31
Keep
ततो भ्राष्ट्रे परिक्षिप्तावखिन्नावेवमेव तौ ।
ऊचतुर्मुदितात्मानावन्योन्यस्मृतिहर्षितौ
32
Keep
ग्रथितौ गजपादेषु न खिन्नावेव संस्थितौ ।
एवमेवोचतुर्भूपमन्योन्यस्मृतिहर्षितौ
33
Keep
कशाहतावखिन्नौ तावेवमेव किलोचतुः ।
अन्यस्माच्छासनाद्राज्ञा कल्पिताच्च पुनः पुनः
34
Keep
उद्धृतावूचतुः पृष्टौ तमेवार्थं पुनः पुनः ।
उवाचेन्द्रो महीपालं जगन्मे दयितामयम्
35
Keep
न शातनानि दुःखानि बाधन्ते किंचिदेव मे ।
अस्याश्चैव जगद्राजन्सर्वं मन्मयमेव च
36
Keep
तेनान्यशासनाद्दुःखं किंचिदेव न विद्यते ।
मनोमात्रमहं राजन् मनो हि पुरुषः स्मृतः
37
Keep
प्रपञ्चमात्रमेवायं देहो दृश्यत एव हि ।
समकालप्रयुक्तेन सहसा दण्डराशिना
38
Keep
वीरं मनो भेदयितुं मनागपि न शक्यते ।
का नाम ता महाराज कीदृश्यः कस्य शक्तयः
39
Keep
याभिर्मनांक्त भिद्यन्ते दृष्टनिश्चयवन्त्यपि ।
वृद्धिमायातु वा देहो यातु वा विशरारुताम्
40
Keep
भावितार्थाभिपतितं मनस्तिष्ठति पूर्ववत् ।
इष्टेऽर्थे चिरमाविष्टं दधानं तत्स्थितं मनः
41
Keep
भावाभावाः शरीरस्था नृप शक्ता न बाधितुम् ।
भावितं तीव्रवेगेन मनसा यन्महीपते
42
Keep
तदेव पश्यत्यचलं न शरीरविचेष्टितम् ।
न काश्चन क्रिया राजन्वरशापादिका अपि
43
Keep
तीव्रवेगेन संपन्नं शक्ताश्चालयितुं मनः ।
तीव्रवेगेन संयुक्तं पुरुषा ह्यभिवाञ्छितात्
44
Keep
मनश्चालयितुं शक्ता न महाद्रिं मृगा इव ।
ममेयमसितापाङ्गी मनःकोशे प्रतिष्ठिता
45
Keep
देवागारे महोत्सेधे देवी भगवती यथा ।
न दुःखमनुगच्छामि प्रियया जीवरक्षया
46
Keep
गिरिर्ग्रीष्मदशादाहं लग्नयेवाब्दमालया ।
यत्र यत्र यथा राजंस्तिष्ठाम्यभिपतामि वा
47
Keep
तत्रेष्टसंगमादन्यत्किंचिन्नानुभवाम्यहम् ।
अहल्यादयितानाम्ना मनसेन्द्राभिधं मनः
48
Keep
संसक्तमिदमायाति न स्वभावादृते परम् ।
एककार्यनिविष्टं हि मनो धीरस्य भूपते
49
Keep
न चाल्यते मेरुरिव वरशापबलैरपि ।
देहो हि वरशापाभ्यामन्यत्वमिव गच्छति ।
ननु धीरं मनो राजन्विजिगीषुतया स्थितम्
50
Keep
एतानि चात्र मनसां न च कारणानि
राजञ्शरीरशकलानि वृथोत्थितानि ।
चेतो हि कारणममीषु शरीरकेषु
वारीव सर्ववनखण्डलतारसेषु
51
Keep
आद्यं शरीरमिह विद्धि मनो महात्म-
न्संकल्पितो जगति तेन शरीरसङ्घः ।
आद्यं शरीरमधितिष्ठति यत्र यत्र
तत्तद्भृशं फलति नेतरदस्य पुंसः
52
Keep
मुख्याङ्कुरं सुभग विद्धि मनो हि पुंसो
देहास्ततः प्रविसृतास्तरुपल्लवाभाः ।
नष्टेऽङ्कुरे पुनरुदेति न पल्लवश्री-
र्नैवाङ्कुरः क्षयमुपैति दलक्षयेषु
53
Keep
देहे क्षते विविधदेहगणं करोति
स्वप्नावनाविव नवं नवमाशु चेतः ।
चित्ते क्षते तु न करोति हि किंचिदेव
देहस्ततः समनुपालय चित्तरत्नम्
54
Keep
दिशि दिशि हरिणाक्षीमेव पश्यामि राजन्
प्रिययुवतिमनस्त्वान्नित्यमानन्दितोऽस्मि ।
तव पुरप्रकृतीनां यत्फलं दुःखदायि
क्षणमथसुचिरं तत्तन्न पश्यामि किंचित्
Previous
←
Sarga 88
Next
Sarga 90
→