Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 93
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
इति मे भगवता पूर्वमुक्तं तदेतदद्य तुभ्यं कथितम्
2
Keep
तस्मादनाख्यानाद्ब्रह्मणः सर्वतः सर्वमनाख्यान-
मुत्पद्यते स्वयमेव तद्धनतां प्राप्य मनः संपद्यते
3
Keep
तन्मनस्तन्मात्रकल्पनपूर्वकसन्निवेशं भवति तत-
स्तैजसः पुरुषः संपद्यते सोऽयं ब्रह्मेत्यात्मनि नाम
कृतवान्
4
Keep
तेन राम योऽयं परमेष्ठी तन्मनस्तत्त्वं विद्धि
5
Keep
समनस्तत्त्वाकारो भगवानब्रह्मा संकल्पमयत्वाद्य-
देव संकल्पयति तदेव पश्यति
6
Keep
ततस्तेनेयमविद्या परिकल्पिता अनात्मन्यात्मा-
भिमानमयीति तेन ब्रह्मणा गिरितृणजलधिमयमिदं
क्रमेण जगत्परिकल्पितम्
7
Keep
इत्थं क्रमेण ब्रह्मतत्त्वादियमागता सृष्टिरन्यत
एवागतेयमिति लक्ष्यते
8
Keep
तस्मात्सर्वपदार्थानां त्रैलोक्योदरवर्तिनाम् ।
उत्पत्तिर्ब्रह्मणो राम तरङ्गाणामिवार्णवात्
9
Keep
य एवमनुत्पन्ने जगति या ब्रह्मणश्चिन्मनोरूपिणी
साहंकारे परिकल्प्य ब्रह्म ब्रह्मतामेति
10
Keep
यास्त्वन्याश्चिच्छक्तयः सर्वशक्तेरभिन्ना एव
कल्प्यन्ते
11
Keep
जगति स्फारतां नीते पितामहरूपेण मनसा
समुल्लसन्ति
12
Keep
एते सहस्रशोऽपि परिवर्तमानजीवा उच्यन्ते
13
Keep
तेऽभ्युत्थिता एव चिन्नभसो नभसि तन्मात्रैरा-
वलिता गगनपवनान्तर्वर्तिनश्चतुर्दशविधा ये भूत-
जातमध्यतयाभ्यासे तिष्ठन्ति तस्या एव प्राणशक्ति-
द्वारेण प्रविश्य शरीरं स्थावरं जंगमं वापि
बीजतां गच्छन्ति
14
Keep
तदनु योनितो जगति जायन्ते तदनु काकताली-
ययोगेनोत्पन्नवासनाप्रवाहानुरूपकर्मफलभागिनो
भवन्ति
15
Keep
ततः कर्मरज्जुभिर्वासनावलिताभिर्बद्धशरीरा
भ्रमन्तः प्रोत्पतन्ति च
16
Keep
इच्छैवैता भूतजातयः
17
Keep
काश्चिज्जनसहस्रान्ताः पतन्ति वनपर्णवत् ।
कर्मवात्या परिभ्रान्ता लुठन्ति गिरिकुक्षिषु
18
Keep
अप्रमेयभवाः काश्चिच्चित्सत्ताज्ञानमोहिताः ।
चिरजाता भवन्तीह बहुकल्पशतान्यपि
19
Keep
काश्चित्कतिपयातीता मनोरमभवान्तराः ।
विहरन्ति जगत्यस्मिन्शुभकर्मपरायणाः
20
Keep
काश्चिद्विज्ञातविज्ञानाः परमेव पदं गताः ।
वातोद्भूताः पयोमध्यं सामुद्रा इव बिन्दवः
21
Keep
उत्पत्तिः सर्वजीवानामितीह ब्रह्मणः पदात् ।
आविर्भावतिरोभावभङ्गुरा भवभाविनी
22
Keep
वासनाविषवैषम्यवैधुर्यज्वरधारिणी ।
अनन्तसंकटानर्थकार्यसत्कारकारिणी
23
Keep
नानादिग्देशकालान्तशैलकन्दरचारिणी ।
रचितोत्तमवैचित्र्यविहिताऽऽसंभ्रमाऽसती
24
Keep
एषा जगज्जाङ्गलजीर्णवल्ली
सम्यक्समालोककुठारकृत्ता ।
वल्लीव विक्षुब्धमनःशरीरा
भूयो न संरोहति रामभद्र
Previous
←
Sarga 92
Next
Sarga 94
→