Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 12
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
सुरासुरनराकारा इमा याः संविदो मुने ।
ब्रह्मार्णवादभिन्नास्ताः सत्यमेतन्मृषेतरत्
2
Keep
मिथ्याभावनया ब्रह्मन्स्वविकल्पकलङ्किताः ।
न ब्रह्म वयमित्यन्तर्निंश्चयेन ह्यधोगताः
3
Keep
ब्रह्मणो व्यतिरिक्तत्वं ब्रह्मार्णवगता अपि ।
भावयन्त्यो विमुह्यन्ति भीमासु भवभूमिषु
4
Keep
या एताः संविदो ब्राह्म्यो मननैककलङ्किताः ।
एतत्तत्कर्मणां बीजमप्यकर्मैव विद्धि ताः
5
Keep
संकल्परूपयैवान्तर्मुने कलनयैतया ।
कर्मजालकरञ्जानां बीजमुष्ट्या करालया
6
Keep
इमा जगति विस्तीर्णाः शरीरोपलपङ्क्तयः ।
तिष्ठन्ति परिवल्गन्ति रुदन्ति च हसन्ति च
7
Keep
आब्रह्मस्तम्बपर्यन्तं स्पन्दनैः पवनो यथा ।
उल्लसन्ति निलीयन्ते म्लायन्ति विहसन्ति च
8
Keep
ता एताः काश्चिदत्यच्छा यथा हरिहरादयः ।
काश्चिदल्पविमोहस्था यथोरगनरामराः
9
Keep
काश्चिदत्यन्तमोहस्था यथा तरुतृणादयः ।
काश्चिदज्ञानसंमूढाः कृमिकीटत्वमागताः
10
Keep
काश्चिचत्तृणवदुह्यन्ते दूरे ब्रह्ममहोदधेः ।
अप्राप्तभूमिका एता यथोरगनगादयः
11
Keep
सत्त्वमात्रं समालोक्य काश्चिदेवमुपागताः ।
जाताजाता निखन्यन्ते कृतान्तजरठाखुना
12
Keep
काश्चिदन्तरमासाद्य ब्रह्मतत्त्वमहाम्बुधेः ।
गतास्तत्तां समं कार्यैर्हरिब्रह्महरादिकाः
13
Keep
अल्पमोहात्मिकाः काश्चित्तमेव ब्रह्मवारिधिम् ।
अदृष्टपारभूम्यौघमवलम्ब्य व्यवस्थिताः
14
Keep
काश्चिद्भोक्तव्यजन्मौघभुक्तजन्मौघकोटयः ।
वन्ध्याः प्रकाशतामस्यः संस्थिता भूतजातयः
15
Keep
काश्चिदूर्ध्वादधो यान्ति यथा हस्तान्महत्फलम् ।
ऊध्वादूर्ध्वतरं काश्चिदधस्तात्काश्चिदप्यधः
16
Keep
बहुसुखदुःखकराकराक्षयेयं
परमपदास्मरणात्समागतेह ।
परमपदावगमात्प्रयाति नाशं
विहगपतिस्मरणाद्विषव्यथेव
Previous
←
Sarga 11
Next
Sarga 13
→