Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 16
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
अथाक्षिप्य वचस्तस्य तनयस्य तथा भृगोः ।
उवाच भगवान्कालो वचो गम्भीरनिःस्वनः
2
Keep
समङ्गातापसीमेतां तनुं संत्यज्य भार्गव ।
प्रविशेमां तनुं साधो नगरीमिव पार्थिवः
3
Keep
काले पूर्वजया तन्वा तपः कृत्वा तया पुनः ।
गुरुत्वमसुरेन्द्राणां कर्तव्यं भवतानघ
4
Keep
महाकल्पान्त आयाते भवता भार्गवी तनुः ।
अपुनर्ग्रहणायैषा त्याज्या प्रम्लानपुष्पवत्
5
Keep
जीवन्मुक्तपदं प्राप्तस्तन्वा प्राक्तनरूपया ।
महासुरेन्द्रगुरुतां कुर्वंस्तिष्ठ महामते
6
Keep
कल्याणमस्तु वां यामो वयं त्वभिमतां दिशम् ।
न किंचिदपि यच्चित्तं यस्य नाभिमतं भवेष्पत्
7
Keep
इत्युक्त्वा मुञ्चतोर्वाष्पं तयोः सोऽन्तरधीयत ।
तप्तांग्योरिव रोदस्योः सममंशुभिरंशुमान्
8
Keep
गते तस्मिन्भगवति कृतान्ते भवितव्यताम् ।
विचार्य भार्गवोऽभेद्यां नियतेर्नियतां गतिम्
9
Keep
कालकारणसंशुष्कां भाविपुष्पशुभोदयाम् ।
विवेश तां तनुं बालां सुलतामिव माधवः
10
Keep
सा ब्राह्मणीतनुर्भूमौ विवर्णवदनाङ्गिका ।
पपात कम्पिता तूर्णं छिन्नमूला लता यथा
11
Keep
तस्यां प्रविष्टजीवायां पुत्रतन्वां महामुनिः ।
चकाराप्यायनं मन्त्रैः स कमण्डलुवारिभिः
12
Keep
सर्वा नाड्यस्ततस्तन्वास्तस्याः पूर्णा विरेजिरे ।
सरितः प्रावृषीवाम्बुपूरपूरितकोटराः
13
Keep
नलिनी प्रावृषीवासौ मधाविव नवा लता ।
यदा पूर्णा तदा तस्याः प्रान्ताः पल्लविता बभुः
14
Keep
अथ शुक्रः समुत्तस्थौ वहत्प्राणसमीरणः ।
रसमारुतसंयोगादापूर्ण इव वारिदः
15
Keep
पुरोऽभिवादयामास पितरं पावनाकृतिम् ।
प्रथमोल्लासितो मेघः स्तनितेनेव पर्वतम्
16
Keep
पिताथ प्राक्तनीं तन्वा आलिलिङ्गाकृतिं ततः ।
स्नेहार्द्रवृत्तिर्जलदश्चिरादद्रितटीमिव
17
Keep
भृगुर्ददर्श सस्नेहं प्राक्तनीं तानवीं तनुम् ।
मत्तो जातेयमित्यास्थां हसन्नपि महामतिः
18
Keep
मत्पुत्रोऽयमिति स्नेहो भृगुमप्यहरत्तदा ।
परमात्मीयता देहे यावदाकृतिभाविनी
19
Keep
बभूवतुः पितापुत्रौ तावथान्योन्यशोभितौ ।
निशावसानमुदितावर्कपद्माकराविव
20
Keep
चिरसंगमसंबद्धाविव चक्राह्वदम्पती ।
घनागमनसस्नेहौ मयूरजलदाविव
21
Keep
चिरकालदृढोत्कण्ठौ तुल्ययोग्यतया तया ।
स्थित्वा तत्र मुहूर्तं तावथोत्थाय महामती
22
Keep
समङ्गाद्विजदेहं तं भस्मसात्तत्र चक्रतुः ।
को हि नाम जगज्जातमाचारं नानुतिष्ठति
23
Keep
एवं तौ कानने तस्मिन्पावने भृगुभार्गवौ ।
संस्थितौ तापसौ दीप्तौ दिवीव शशिभास्करौ
24
Keep
चेरतुर्ज्ञातविज्ञेयौ जीवन्मुक्तौ जगद्गुरू ।
देशकालदशौघेषु सुसमौ सुस्थिरौ ततः
25
Keep
अथासुरगुरुत्वं स शुक्रः कालेन लब्धवान् ।
भृगुरप्यात्मनो योग्ये पदेऽतिष्ठदनामये
26
Keep
शुक्रोऽसौ प्रथममिति क्रमेण जात-
स्तस्मात्सत्परमपदादुदारकीर्तिः ।
स्वेनाशु स्मृतिपदविभ्रमेण पश्चा-
दन्येषु प्रविलुलितो दशान्तरेषु
Previous
←
Sarga 15
Next
Sarga 17
→