Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 20
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
एतत्ते कथितं सर्वं मनोरूपनिरूपणम् ।
मया राघव नान्येन केनचिन्नाम हेतुना
2
Keep
दृढनिश्चयवच्चेतो यद्भावयति भूरिशः ।
तत्तां यात्यनलाश्लेषादयःपिण्डोऽग्नितामिव
3
Keep
भावाभावग्रहोत्सर्गदृशश्चेतनकल्पिताः ।
नासत्या नापि सत्यास्ता मनश्चापलकारिताः
4
Keep
मनो मोहे तु कर्तृ स्यात्कारणं च जगत्स्थितेः ।
विश्वरूपतयैवेदं तनोति मलिनं मनः
5
Keep
मनो हि पुरुषो नाम तं नियोज्य शुभे पथि ।
तज्जयैकान्तसाध्या हि सर्वा जगति भूतयः
6
Keep
पुरुषश्चेच्छरीरं स्यात्कथं शुक्रो महामतिः ।
अगमद्विविधाकारं जन्मान्तरशतभ्रमम्
7
Keep
अतश्चित्तं हि पुरुषः शरीरं चेत्यमेव हि ।
यन्मयं च भवत्येतत्तदवाप्नोत्यसंशयम्
8
Keep
यदतुच्छमनायासमनुपाधि गतभ्रमम् ।
यत्नात्तदनुसंधानं कुरु तत्तामवाप्स्यसि
9
Keep
अभिपतति मनःस्थितं शरीरं
नतु वपुराचरितं मनः प्रयाति ।
अभिपततु तवात्र तेन सत्यं
सुभग मनः प्रजहात्वसत्यमन्यत्
Previous
←
Sarga 19
Next
Sarga 21
→