Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 24
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
महानरकसाम्राज्ये मत्तदुष्कृतवारणाः ।
आशाशरशलाकाढ्या दुर्जया हीन्द्रियारयः
2
Keep
स्वाश्रयं प्रथमं देहं कृतघ्ना नाशयन्ति ये ।
ते कुकार्यमहाकोशा दुर्जयाः स्वेन्द्रियारयः
3
Keep
कलेवरालयं प्राप्य विषयामिषगृध्नुकाः ।
अक्षगृध्रा विवल्गन्ति कार्याकार्योग्रपक्षिणः
4
Keep
विवेकतन्तुजालेन गृहीता येन ते शठाः ।
तस्याङ्गानि न लुम्पन्ति पाशा नागबलं यथा
5
Keep
आपातरमणीयेषु रमते विषयेषु यः ।
विवेकधनवानस्मिन्कुकलेवरपत्तने
6
Keep
इन्द्रियारिभिरन्तस्थैरवशो नाभिभूयते ।
न तथा सुखिता भूपा मृन्मयोग्रपुरीजुषः
7
Keep
यथा स्वाधीनमनसः स्वशरीरपुरीश्वराः ।
आक्रान्तेन्द्रियभृत्यस्य सुगृहीतमनोरिपोः
8
Keep
वसन्त इव मञ्जर्यो वर्धन्ते शुद्धबुद्धयः ।
प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः
9
Keep
पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः ।
तावन्निशीथवेताला वल्गन्ति हृदि वासनाः
10
Keep
एकतत्त्वदृढाभ्यासाद्यावन्न विजितं मनः ।
भृत्योऽभिमतकर्तृत्वान्मन्त्री सत्कार्यकारणात्
11
Keep
सामन्तश्चेन्द्रियाक्रान्तेर्मनो मन्ये विवेकिनः ।
लालनात्स्निग्धललना पालनात्पावनः पिता
12
Keep
सुहृदुत्तमविश्वासान्मनो मन्ये मनीषिणाम् ।
स्वालोकितः शास्त्रदृशा बुद्ध्यान्तः स्वानुभावितः
13
Keep
प्रयच्छति परां सिद्धिं त्यक्त्वात्मानं मनःपिता ।
सुदृष्टः सुपरामृष्टः सुदृढः सुप्रबोधितः
14
Keep
सुगुणे योजितो भाति हृदि हृद्यो मनोमणिः ।
जन्मवृक्षकुठाराणि तथोदर्कोदयानि च
15
Keep
दिशत्येवं मनोमन्त्री कर्माणि शुभकर्मणि ।
एवं मनोमणिं राम बहुपङ्ककलङ्कितम्
16
Keep
विवेकवारिणा सिद्ध्ये प्रक्षाल्यालोकवान्भव ।
भवभूमिषु भीमासु विवेकविकलो वसन्
17
Keep
मा पतोत्पातपूर्णासु विवशः प्राकृतो यथा ।
संसारमायामुदितामनर्थशतसंकुलाम्
18
Keep
मा महामोहमिहिकामिमां त्वमवधीरय ।
विवेकं परमाश्रित्य बुद्ध्या सत्यमवेक्ष्य च
19
Keep
इन्द्रियारीनलं जित्वा तीर्णो भव भवार्णवात् ।
असत्येव शरीरेऽस्मिन्सुखदुःखेष्वसत्सु च
20
Keep
दामव्यालकटन्यायो मा ते भवतु राघव ।
भीमभासदृढस्थित्या त्वं यास्यसि विशोकताम्
21
Keep
अयमहमिति निश्चयो वृथा य-
स्तमलमपास्य महामते स्वबुद्ध्या ।
यदितरदवलम्ब्य तत्पदं त्वं
व्रज पिब भुङ्क्ष्व न बध्यसे मनस्कः
Previous
←
Sarga 23
Next
Sarga 25
→