Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 26
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
इति निर्णीय दैत्येन्द्रो दामव्यालकटान्विताम् ।
सेनां संप्रेषयामास भूतलं देवनाशिनीम्
2
Keep
दैत्याः सागरकुञ्जेभ्यः कन्दरेभ्यश्च सायुधाः ।
उदगुर्भीमनिर्ह्लादाः सपक्षगिरिलीलया
3
Keep
रोदसीकोटरं हस्तप्रहारहतभास्करम् ।
दानवाः पूरयामासुर्दामव्यालकटैधिताः
4
Keep
अथोत्तस्थुर्निकुञ्जेभ्यः कन्दरेभ्यः सुराचलात् ।
प्रलयान्त इवाक्षुब्धा भीमाः स्वर्वासिनां गणाः
5
Keep
देवासुरपताकिन्योस्तद्युद्धमभवत्तयोः ।
अकालोल्वणकल्पान्तभीषणं भुवनान्तरे
6
Keep
पेतुः प्रलयपर्यस्तचन्द्रार्का इव दीप्तयः ।
शिरांसि कुन्डलोहयोततेजःपीततमांस्यथ
7
Keep
जुघूर्णुर्भटनिर्मुक्तसिंहनादविराविताः ।
प्रलयानिलसंपूरैः स्फुटहासा इवाद्रयः
8
Keep
रेणुः शैलशिलातुल्यहेतिघातास्तभित्तयः ।
कुलाचलतटाभीरुविश्रान्तहरिमण्डलाः
9
Keep
चेरुः परस्पराघातहतहेतिसमुत्थिताः ।
लोलानलकणाःकल्पविशीर्णा इव तारकाः
10
Keep
विलेसू रक्तमांसौघपूर्णैकार्णवतीरगाः ।
कल्पतालवदुत्ताला वेतालास्तालतालिताः
11
Keep
प्रस्फुरद्रुधिरासारशान्तपांसुपयोधरे ।
व्योम्नि हेतिहतक्षुण्णा मौलिकुण्डलकोटयः
12
Keep
बभूवुर्भास्कराकारैः कल्पभूरुहधारिभिः ।
प्रहारदलिताद्रीन्द्रैर्दैत्यैर्निर्विवरा दिशः
13
Keep
जग्मुर्ज्वलदसिप्रान्तवातपातितभित्तयः ।
कणप्रकरतां शैलाः कल्पाग्निदलिता इव
14
Keep
देवास्ते च समाजग्मुरश्वमेधैधिता इव ।
असुरानस्त्रविभ्रष्टाञ्जलदानिव वायवः
15
Keep
जगृहुस्तानथाक्रम्य जरठासूनिवौतवः ।
तेऽपि ताञ्जगृहुर्मत्तानृक्षारूढानिव द्रुमान्
16
Keep
दोर्वृक्षविलसद्धेतिकुसुमाः शस्त्रपल्लवाः ।
रेजुः सुरासुराः फुल्ला वनलोला इव द्रुमाः
17
Keep
अन्योन्यं पूरयामासुः शस्त्रपूरैर्दिशो दश ।
वनानि कुसुमव्रातैः सुमेराविव मारुतः
18
Keep
घोरं समभवद्युद्धं देवदानवसेनयोः ।
रोदोरन्ध्रोदुम्बरान्तर्महामशकसंघयोः
19
Keep
अथोदपतदुत्तालैर्लोकपालेभमण्डलैः ।
कल्पाभ्रस्फूर्जिताकारो दारुणः समरारवः
20
Keep
पिण्डग्रहेण नभसि भूभागमिव कुट्टिमम् ।
मुष्टिग्राह्यो महामेघमन्थरोदरपीवरः
21
Keep
रथसंपातसंपिष्टशस्त्रशैलरटन्नटः ।
त्रुटद्धृदयनिःसत्त्वकर्कशाक्रन्दघर्घरः
22
Keep
प्रलयप्रत्ययोल्लासिकल्पान्तारावबृंहणः ।
द्वादशादित्यसंघट्टद्रवत्काञ्चनपर्वतः
23
Keep
ब्रह्माण्डकुण्डसंघट्टात्परावृत्त्या च निर्गतः ।
महास्रोतःपयःपूरः सत्त्वाहत इवाकरः
24
Keep
चञ्चत्सपक्षशैलेन्द्रपक्षपातचलद्ध्वनिः ।
कठिनापूरणोद्धूतस्फुटच्छैलेन्द्रकन्दरः
25
Keep
मन्दरोद्धतदुग्धाब्धिसंक्षोभसदृशाङ्गकः ।
रतिश्रुद्धुंघुमास्फोटघटितद्वीपजन्तुभूः
26
Keep
सेनयोः क्षुब्धयोरासीद्युद्धमुद्धतदानवम् ।
निष्पिष्टनगरग्रामगिरिकाननमानवम्
27
Keep
महाहेतिशतच्छिन्नदानवाचलपूर्णदिक् ।
अन्योन्याहतहेत्यादिचूर्णपूर्णाम्बरोदरम्
28
Keep
भुशुण्डीमण्डलास्फोटस्फुटन्मेरुशिरःशतम् ।
शरमारुतनिर्लूनदैत्यदेवमुखाम्बुजम्
29
Keep
चक्रावर्तशतभ्रान्तदेवदैत्यजरत्तणम् ।
सेनाप्रहारकल्लोलवलनावलिताम्बरम्
30
Keep
हेत्युग्रवातनिष्पिष्टपतद्वैमानिकव्रजम् ।
अस्त्रोदिताब्धिवार्योघप्लावितव्योमपत्तनम्
31
Keep
वहन्महास्त्रपातासिशूलशक्तिनदीशतम् ।
शैलपक्षोद्भटास्फोटलुठद्ब्रह्माण्डमण्डपम्
32
Keep
दैत्यपार्ष्णिप्रहारौघपतल्लोकेशपत्तनम् ।
नारीहलहलारावरणत्कङ्कणमन्दिरम्
33
Keep
लुठद्दैत्यवलोद्भूतमत्तास्रौघजलान्वितम् ।
रक्तधौतनरौघोग्रमुक्तनादद्रवज्जनम्
34
Keep
लोकपानीकपाम्भोजच्छन्नाच्छन्नयमान्वितम् ।
पुनः सुरासुरैर्घातैर्दृष्टसैन्यकुलाकुलम्
35
Keep
सपक्षपर्वताकारदानवाद्रिगमागमैः ।
वहच्छवशवाशब्दभूरिभाङ्कारभीषणम्
36
Keep
आयुधाग्रविभिन्नोग्रदैत्यपर्वतनिर्झरैः ।
रक्तैररुणिताशेषवसुधार्णवपर्वतम्
37
Keep
उत्सन्नराष्ट्रनगरविपिनग्रामगह्वरम् ।
धृतासंख्यासुरेभाश्वमनुष्यशवपर्वतम्
38
Keep
सुतालोत्तालनाराचराजिरोचितवारणम् ।
मुष्टिप्रहारपिष्टांसमत्तैरावणवारणम्
39
Keep
कल्पाभ्रपटलासारधारादलितपर्वतम् ।
महाशनिविनिष्पेषपिष्टोड्डीनकुलाचलम्
40
Keep
कुपिताग्निज्वलज्ज्वालाजालज्वलितदानवम् ।
एकाञ्जलिपुटानीतसमुद्रोत्सादितानलम्
41
Keep
चण्डदैत्यातिसंभारशिलीकृतमहाज्वलम् ।
वनव्यूहेन्धनाग्न्यर्चिर्द्राविताम्बुशिलोच्चयम्
42
Keep
अस्त्रनिर्मितदुर्वारतमःकल्पान्तरात्रिकम् ।
मायासूर्यगणोद्द्योतैः पीतातनुतमःपटम्
43
Keep
मायाग्निवर्षनिष्पीतकलाभ्रघनवर्षणम् ।
ससीत्काराग्निवमनशस्त्रसंघट्टवर्षणम्
44
Keep
वज्रवर्षास्त्रनिर्धूतशैलवर्षास्त्रसंभ्रमम् ।
निद्राबोधास्त्रयुद्धाढ्यं संघर्षावग्रहाश्रयम्
45
Keep
वहत्क्रकचवृक्षास्त्रं जलाग्न्यस्मरणान्धितम् ।
ब्रह्मास्त्रयुद्धविषमं तमस्तेजोस्त्रसारितम्
46
Keep
अस्त्रोद्गीर्णायुधानीकनीरन्ध्रसकलाम्बरम् ।
शिलावर्षास्त्रदलितं वह्निवर्षास्त्रभासुरम्
47
Keep
पताकास्पृष्टशशिकैश्चक्रचीत्कारगर्जितैः ।
मुहूर्तेन रथैर्लङ्घितोदयास्तमयाचलम्
48
Keep
वज्रप्रहाराविरतम्रियमाणमहासुरम् ।
शुक्रामरमहाविद्याजीवमानमहासुरम्
49
Keep
विद्रवद्देवसंघातं जयप्रोड्डामरामरम् ।
शुभग्रहमहाकेतुमालिकानामितस्ततः
50
Keep
उत्पातमङ्गलौघानां बुद्धेरुद्धरकन्धरम् ।
साद्रिखोर्वीसमुद्रद्युजगद्रुधिरवारिधि
51
Keep
फुल्लैककिंशुकवनं कुर्वद्दुर्वारवैरतः ।
पर्वतप्रतिमासंख्यं शवपूर्णमहार्णवम्
52
Keep
समग्रतरुशाखाग्रलम्बलोलमहाशवम् ।
दीप्यमानैः स्ववातार्तैः पक्षपुष्पैर्लसत्फलैः
53
Keep
तालोत्तालैः शरव्रातवनैर्व्याप्तनभस्थलम् ।
पर्वतप्रतिमासंख्यकबन्धशतबाहुभिः
54
Keep
नृत्यद्भिः पातिताम्भोदविमानसुरतारकम् ।
शरशक्तिगदाप्रासपट्टिशप्रोतपर्वतम्
55
Keep
लोकसप्तकविभ्रष्टकुड्यखण्डचिताम्बरम् ।
अनारतरसन्मत्तकल्पाभ्रदृढदुन्दुभि
56
Keep
एवं शब्दशतोन्नादपातालतलवारणम् ।
विनायककराकृष्टदीर्घदानवपर्वतम्
57
Keep
एकदिक्करनिष्पन्दसिद्धसाध्यमरुद्गणम् ।
पलायमानगन्धर्वकिन्नरामरचारणम्
58
Keep
वघुरशनिनिपातखण्डिताङ्गा
दलितशिलाशकलाः ककुम्मुखेषु ।
प्रलयसमयसूचकाः सुराणां
सुरतरुघर्घरघस्मराः समीराः
Previous
←
Sarga 25
Next
Sarga 27
→