Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 34
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
अत्र ते श्रृणु वक्ष्यामि दामादिषु गतेष्वथ ।
यद्वृत्तं शम्बरस्यैव नगरे नगसंनिभे
2
Keep
तथा गगनविभ्रष्टे समस्ते ध्वस्तसंस्थितौ ।
विनष्टे शम्बरानीके शरदीवाब्दमण्डले
3
Keep
देवनिर्जितसैन्योऽसौ नीत्वा कतिपयाः समाः ।
पुनर्देववधोयुक्तश्चिन्तयामास दानवः
4
Keep
दामादयस्तु रचिता ये मया माययाऽसुराः ।
मौर्ख्यातैर्भाविता युद्धे मिथ्यैव दुरहंकृतिः
5
Keep
इदानीं संसृजाम्यन्यान्दानवान्माययोदितान् ।
तानप्यध्यात्मशास्त्रज्ञान्सविवेकान्करोम्यहम्
6
Keep
ततस्तत्त्वपरिज्ञानान्मिथ्याभावनयोज्झिताः ।
नाहंकारं प्रयास्यन्ति विजेष्यन्ति च तान्सुरान्
7
Keep
इति संचिन्त्य दैत्येन्द्रस्तादृशान्दानवान्धिया ।
माययोत्पादयामास बुद्बुदानिव वारिधिः
8
Keep
सर्वज्ञा वेद्यवेत्तारो वीतरागा गतैनसः ।
यथाप्राप्तैककर्तारो भावितात्मान उत्तमाः
9
Keep
भीमो भासो दृढ इति नामभिः परिलाञ्छिताः ।
जगत्तृणमिवाशेषं पश्यन्तः पावनाशयाः
10
Keep
ते दैत्या भुवनं प्राप्य च्छादयामासुरम्बरम् ।
गर्जन्तो हेतितडितः प्रावृषीव पयोधराः
11
Keep
अयुध्यन्त समं देवैरपि वर्षगणान्बहून् ।
विवेकवशतो जग्मुर्नाहंकारं कदाचन
12
Keep
तेषां यावदुदेत्यन्तर्ममेदमिति वासना ।
तावत्कोऽयमहं चेति विचाराद्यात्यसत्यताम्
13
Keep
असच्छरीरं विबुधाः कोऽसावहमिति स्थितिः ।
विचारादित्थमेतेषां प्रोदगुर्न भयादयः ।
14
Keep
असच्छरीरं नास्तीदं चिच्छुद्धैवात्मनि स्थिता ।
अहं नाम न चान्योऽस्ति निश्चित्यैवासुरा ययुः
15
Keep
ततस्तैर्निरहंकारैर्जरामरणनिर्भयैः ।
प्राप्तार्थकारिभिर्धीरैर्वर्तमानानुसारिभिः
16
Keep
असक्तबुद्धिभिर्नित्यं हतान्यैरप्यहन्तृभिः ।
वासनाजालनिर्मुक्तैः कृतकार्यैरकर्तृभिः
17
Keep
प्रभोः कार्यमिदं कार्यमिति संगरतत्परैः ।
वीतरागैर्गतद्वेषैः सर्वदा समदृष्टिभिः
18
Keep
सा दैवी दानवैः सेना भीमभासदृढादिभिः ।
हता भुक्ता हृता पुष्टा स्वान्नश्रीरिव भोक्तृभिः
19
Keep
भीमभासदृढक्षुण्णा जाता गीर्वाणवाहिनी ।
परिदुद्राव वेगेन गङ्गेव हिमवच्च्युता
20
Keep
सा सुरानीकिनी देवं क्षीरोदार्णवशायिनम् ।
जगाम शरणं शैलं वातार्तेवाब्दमालिका
21
Keep
हरिराश्वासयामास तां भीतां देववाहिनीम् ।
भुजङ्गाभिवृतामेकां रमणीमिव नायकः
22
Keep
अथ क्षीरोदकुहरे तावत्सा सुरवाहिनी ।
उवास यावद्भगवांस्तन्निरासार्थमुद्ययौ
23
Keep
बभूव दारुणं युद्धं शौरिशम्बरयोस्ततः ।
अकाल इव कल्पान्ते समुड्डीनकुलाचलम्
24
Keep
शशाम समरे तस्मिन्दैत्यः सबलवाहनः ।
नारायणहतो यातः शम्बरो वैष्णवीं पुरीम्
25
Keep
भीमभासदृढास्ते तु तस्मिन्विषमसंगरे ।
विष्णुनैव शमं नीताः पवनेनेव दीपिकाः
26
Keep
ते हि निर्वासना एव यदा शान्तिमुपागताः ।
न तदैषां गतिर्ज्ञाता दीपानामिव शाम्यताम्
27
Keep
तस्माद्वासनया बद्धं मुक्तं निर्वासनं मनः ।
राम निर्वासनीभावमाहरस्व विवेकतः
28
Keep
सम्यगालोकनात्सत्याद्वासना प्रविलीयते ।
वासनाविलये चेतः शममायाति दीपवत्
29
Keep
न सत्यं किंचिदेवेह सद्भावो भावयत्यलम् ।
नास्त्येव भावना तस्मादित्येतत्सम्यगीक्षणम्
30
Keep
आत्मैवेदं जगत्सर्वं कः किं भावयतु क्व वा ।
भावना नाम नास्त्वेव तदेतत्सम्यगीक्षणम्
31
Keep
वासनाचित्तनामानौ शब्दावर्थसमन्वितौ ।
सत्यावलोकनाद्यत्र विलीनौ तत्परं पदम्
32
Keep
वासनावलितं चित्तमिह स्थितिमुपागतम् ।
तदेव तद्विनिर्मुक्तं विमुक्तमिति कथ्यते
33
Keep
नानाघटपटाकारैश्चेतःस्थितिमुपागतम् ।
तदेवाशु शमं नेयं मिथ्यायक्ष इवोत्थितः ।
34
Keep
दामव्यालकटाकारैश्चेतः परिणतं यथा ।
भीमभासदृढन्यायो राघवास्त्वचलस्तव ।
35
Keep
दामव्यालकटन्यायो मा ते भवतु राघव ।
एतद्राम पुरा प्रोक्तं पित्रा कमलजेन मे
36
Keep
भवते यन्मया प्रोक्तं शिष्यायात्यन्तधीमते ।
दामव्यालकटन्यायस्तस्मान्मा तेऽस्तु राघव ।
भीमभासदृढन्यायो नित्यमस्तु तवानघ
37
Keep
अविरलसुखदुःखसंकटेयं
भवपदवी भवतापनोपयाता ।
व्यवहरणवतो विभूतियातौ
सततमसक्ततयैव नश्यतीति ।
Previous
←
Sarga 33
Next
Sarga 35
→