Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 36
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
36
Keep
षट्त्रिशः सर्गं
1
Keep
यथेदृशं स्थितं विश्वं विश्वातीते
चिदात्म
नि ।
तन्मे कथय हे ब्रह्मन् पुनर्बोधविवृद्धये
2
Keep
यथोर्मयोऽनभिव्यक्ता भाविनः पयसि
स्थि
ताः ।
न स्थिताश्चात्मनोऽन्यत्वाच्चित्तत्वे सृष्टयस्तथा
3
Keep
यथा सर्वगतः सौक्ष्म्यादाकाशो
नोपलक्ष्य
ते ।
तथा निरंशश्चिद्भावः सर्वगोऽपि न लक्ष्यते
4
Keep
सुस्थितेवास्थितेवान्तः प्रतिभास्ति मणौ
य
था ।
न सत्यभूता नासत्या तथेयं सृष्टिरात्मनि
5
Keep
स्वाधारैरम्बुदैः स्वस्थैर्न स्पृष्टं गगनं
य
था ।
चित्स्थैः सर्गैश्चिदाधारैर्न स्पृष्टा चित्परा तथा
6
Keep
जलधिष्ठिततत्तेजो यथाङ्ग
प्रतिबिम्ब
ति ।
तथा पुर्यष्टकेष्वेव चिद्धि देहेषु लक्ष्यते
7
Keep
सर्वसंकल्परहिता
सर्वसंज्ञाविवर्जि
ता ।
सैषा चिदविनाशात्मा तच्चेत्यादिकृताभिधा
8
Keep
आकाशशतभागाच्छा ज्ञेषु
निष्कलरूपि
णी ।
सकलाकलसंसारस्वरूपैकात्म्यदर्शिनी
9
Keep
तरङ्गादिमयी स्फारा नानाता
सलिलार्ण
वे ।
तस्मान्न व्यतिरेकेण यथा भावविकारिणी
10
Keep
त्वत्तामत्तामयी स्फारा नानातेयं
चिदर्ण
वे ।
चिन्मात्रव्यतिरेकेण तथा नैव प्रकाशते
11
Keep
चिच्चिनोति चितं चेत्यं तेनेदं
स्थितमात्म
नि ।
अज्ञेऽज्ञे त्वन्यदायातमन्यदस्तीति कल्पना
12
Keep
अज्ञेष्वसत्स्वभावोग्रसंसारगणगर्भि
णी ।
ज्ञेषु प्रकाशरूपैव सकलैकात्मिका सती
13
Keep
अनुभूतिवशान्नित्यमर्कादीनां
प्रकाशि
नी ।
स्वादिनी सर्वभूतानां भाविनी भवभोगिनाम्
14
Keep
नास्तमेति न चोदेति नोत्तिष्ठति न
तिष्ठ
ति ।
न चायाति न वा याति न चेह नच नेह चित्
15
Keep
सैषा चिदमलाकारा स्वयमात्मनि
संस्थि
ता ।
राघवेत्थं प्रपञ्चेन जगन्नाम्ना विजृम्भते
16
Keep
तेजःपुञ्जैर्यथा तेजः पयःपूरैर्यथा
प
यः ।
परिस्फुरति संस्पन्दैस्तथा चित्सर्गविभ्रमैः
17
Keep
तत्स्वभावेन चिन्नाम्ना
सर्वगेनोदितात्म
ना ।
प्रकाशेनाप्रकाशेन निरंशेनांशधारिणा
18
Keep
स्वयं स्वकलनाभोगादनन्तं
पदमुज्झ
ता ।
अहमस्मीति भावेन गच्छता ज्ञपदं शनैः
19
Keep
नानातायां प्ररूढायामस्यां
संसृतिपूर्वक
म् ।
भावाभावग्रहोत्सर्गपदे स्थितिमुपागते
20
Keep
पुर्यष्टकस्पन्दशतैःकरोति न करोति
च ।
उत्सेधमेति भूकोशकोटरस्थोऽङ्कुरोत्करः
21
Keep
व्योम सौषिर्यमादत्ते सर्वमूर्त्यविरोधि
य
त् ।
स्पन्दैकधर्मवान्वातो रसरूपतया जलम्
22
Keep
दृढोर्वी प्रकटं तेजः स्थितिमन्ति जगन्ति
च ।
प्रतिबन्धाभ्यनुज्ञासु कालः कलनया स्थितः
23
Keep
पुष्पेषु गन्धतां याति शनैः
संचितकेसर
म् ।
मृत्कोटररसोल्लासः स्थाणुतामेति भूतले
24
Keep
मूलस्थाः फलमायान्ति पेलवा
रसलेश
काः ।
संनिवेशं व्रजन्त्येता रेखाः पल्लवपालिषु
25
Keep
नवतामनुगृह्नाति शक्रबाणासनेन
च ।
यो यो भवत्यविरतं संस्थानेन वनेन च
26
Keep
वसन्तमुपतिष्ठन्ति
पुष्पपल्लवराश
यः ।
निदाघविधिमायान्ति दैवदाहविभूतयः
27
Keep
प्रावृट्समयमीहन्ते नीला
जलदराश
यः ।
शरदं चानुधावन्ति समग्राः फलराशयः
28
Keep
हेमन्ते हिमहासिन्यो भवन्ति ककुभो
द
श ।
नयन्त्युपलतामम्बु शिशिरे शीतलानिलाः
29
Keep
न जहाति स्वमर्यादां कालो
युगमयीमिमा
म् ।
तरङ्गिणीतरङ्गौघलीलया यान्ति सृष्टयः
30
Keep
नियतिः स्थितिमायाति
स्थैर्यचातुर्यकारि
णी ।
तिष्ठत्याप्रलयं धीरा धराधरणधर्मिणी
31
Keep
चतुर्दशविधानीह भूतानि
भुवनान्त
रे ।
नानाचारविहाराणि नानाविरचनानि च
32
Keep
पुनःपुनर्विलीयन्ते जायन्ते च
पुनःपु
नः ।
धारापरम्परा याति विना वारीव बुद्बुदाः
33
Keep
आयाति याति परितिष्ठति लीलयाऽति-
स्वार्थानुपार्जयति धावति
जन्मना
शैः ।
उन्मत्तवद्विहितभावनमाहितेहा
मुग्धा कृतान्तविवशा जनता वराकी
Previous
←
Sarga 35
Next
Sarga 37
→