Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 37
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
इत्थं स्थिरतराकाराः
संसारावलयोऽभि
तः ।
स्वभावाद्ब्रह्मणः सर्वाः पुनरायान्ति यान्ति च
2
Keep
स्वतः सर्वमिदं जातमन्योन्यं हेतुतां
गत
म् ।
अन्योन्यमभिनश्यत्तत्स्वत एव विलीयते
3
Keep
स्वतोऽस्पन्दोऽपि तु स्पन्दो
यथाऽगाधजलोद
रे ।
तथैवेयमसत्सच्च चिदेव परिदृश्यते
4
Keep
व्योमन्येव निराकारे निदाघात्सरितो
य
था ।
लक्ष्यन्ते तद्वदेवेमाश्चित्तत्त्वे सृष्टिदृष्टयः
5
Keep
यथा मदवशादात्मा
सोऽन्यवत्प्रतिभास
ते ।
तथैव चित्त्वाच्चिद्धातुः स एवाऽस इव स्थितः
6
Keep
न चेदं सदसन्नेदं तत्स्थातत्स्थतया
चि
तः ।
नातिरिक्तातिरिक्ता च कटकादिषु हेमता
7
Keep
येन शब्दं रसं रूपं गन्धं जानासि
राघ
व ।
सोऽयमात्मा परं ब्रह्म सर्वमापूर्य संस्थितः
8
Keep
नानैकत्वादतीतात्तु
सर्वंगादमलात्म
नः ।
द्वितीया कलना नास्ति काचिन्नेतरथा क्वचित्
9
Keep
राम भावनादन्यस्य भावाभावाः
शुभाशु
भाः ।
सृष्टयः परिकल्प्यन्तेऽनात्मन्येवाथवात्मनि
10
Keep
यस्मादात्मनो व्यतिरिक्ते वस्तुनि सिद्धे सति
तत्रेच्छा
प्रवर्त
ते ।
यत्र स्वात्मनो व्यतिरिक्तं न किं-
चिदपि संभवति तत्रात्मा किमिव वाञ्छन्किमनु-
स्मरन्धावतु किमुपैतु
11
Keep
अत इदमीहितमिदमनीहितमित्यात्मानं न स्पृ-
शन्ति
विकल्
पाः ।
अतो निरिच्छतायामात्मा न
किंचिदपि करोति कर्तृकरणकर्मणामेकत्वात्, न
क्वचित्तिष्ठत्याधाराधेययोरेकत्वात्, नच निरिच्छ-
स्यात्मनो नैष्कर्म्यमभिमतम्, द्वितीयायाः कल्प-
नाया अभावात्
12
Keep
नेतरा जानासि राम त्वमियं
ब्रह्मसंस्थि
तिः ।
सर्वद्वन्द्वविनिर्मुक्तः कर्ता भव गतज्वरः
13
Keep
अन्यच्च राघव पुनः
पुनः कृत्वा कृत्वा बहुविधमिदं कर्म तरसा
त्वया प्राप्यं किं तद्वद यदुचितं
भूतकरणा
त् ।
अकर्तृत्वे वास्था भवतु तव चाप्यागमवतो
भव स्वस्थः स्वच्छः स्तिमित इव निर्वातजलधिः
14
Keep
गत्वा सुदूरमपि यत्नवता जवेन
नासाद्यते तदिह येन
सुपूर्णतै
ति ।
मत्वेति मा व्रज पदार्थगणान्धिया त्वं
न त्वं त्वमेव परमार्थतया चिदात्मा
Previous
←
Sarga 36
Next
Sarga 38
→