Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 39
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
भगवन्नेवं स्थिते परे ब्रह्मण्येव विद्यमाने कुत
एवाभित्तिचित्ररूपायाः सृष्टेरागम इति कथय
महात्मन्
2
Keep
राजपुत्र ब्रह्मतत्त्वमेवेदमावर्तते यस्मात्सर्वशक्ति
तत्तस्मात्सर्वाः शक्तयो ब्रह्मणि दृश्यन्ते
3
Keep
सत्त्वमसत्त्वं द्वित्वमेकत्वमनेकत्वमाद्यत्वमन्त-
त्वमिति
4
Keep
तच्च नान्यत् ।
यथा जलराशेर्जलाशय उल्लास-
प्रफुल्लासेन नानाकारतां दर्शयन्प्रकटतांगच्छति
5
Keep
तथा चिद्धनश्चित्तं चित्त्वाच्च सर्वाः शक्तीः कर्म-
मयीर्वासनामयीर्मनोमयीश्चिनोति दर्शयति विभ-
र्ति जनयति क्षिपयति चेति
6
Keep
सर्वेषामेव जीवानां सर्वासामभितो दृशाम् ।
समग्राणां पदार्थानामुत्पत्तिर्ब्रह्मणोऽनिशम्
7
Keep
लोकात्परादुपायान्ति तस्मिश्चित्त्वाद्विशन्त्यलम् ।
तन्मया एव सततं तरङ्गा इव सागरे
8
Keep
भगवंस्तवातिगहनेयं वचनव्यक्तिर्न खल्वद्य वा-
क्यार्थमवगच्छामि
9
Keep
क्व किलातीतमनःषष्ठेन्द्रियवृत्ति ब्रह्मतत्त्वं क्व भङ्गु-
रेयं तज्जा पदार्थश्रीरिति वचनरचना ।
यदि चाय-
मारम्भो ब्रह्मण आपतितस्तदनेन तत्सदृशेनैव
भवितव्यम्
10
Keep
यो यस्माज्जायते स तत्सदृश एव भवति
11
Keep
यथादीपाद्दीपःपुरुषात्पुरुषः सस्यात्सस्यम्
12
Keep
यतो निर्विकाराद्यदागतं निर्विकारेणैवानेन भवि-
तव्यम्
13
Keep
अथैतद्व्यतिरिक्तं चिदात्मनस्तन्निष्कलङ्कस्य परमे-
श्वरस्य येयं कलङ्कापत्तिरित्याकर्ण्य भगवान् ब्रह्म-
र्षिरुवाच
14
Keep
ब्रह्मैवेदं स्थितं नाम मलमस्तीह नानघ ।
तरङ्गौघगणैरम्भः सिन्धौ स्फुरति नो रजः
15
Keep
द्वितीया कल्पनैवेह न रघूद्वह विद्यते ।
ब्रह्ममात्रादृते वह्नावौष्ण्यमात्रादृते यथा
16
Keep
निर्दुःखं ब्रह्म निर्द्वन्द्वं तज्जं दुःखमयं जगत् ।
अस्पष्टार्थमिदं ब्रह्मन्न वेद्मि वचनं तव
17
Keep
श्रीवाल्मीकिरुवाच ।
इत्युक्ते तत्र रामेण चिन्तयामास चेतसा ।
वसिष्ठो मुनिशार्दूलो राघवस्योपदेशने
18
Keep
परं विकासमायाता नास्य तावदियं मतिः ।
किंचिन्निर्मलतां प्राप्ता प्रोह्यते चेह वस्तुनि
19
Keep
यो व्युत्पन्नमनास्तस्य ज्ञातज्ञेयस्य धीमतः ।
मोक्षोपायगिरां पारं प्रयातस्य विवेकतः
20
Keep
न कश्चित्कस्यचिद्दोषो नास्ति विद्यात्मनि ह्यलम् ।
यावन्नोक्तं न विश्रान्तिं तावदेत्येष राघवः
21
Keep
अर्धव्युत्पन्नबुद्धेस्तु नैतद्व्यक्तं हि शोभते ।
दृश्यानया भोगदृशा भावयन्नेव नश्यति
22
Keep
परां दृष्टिं प्रयातस्य भोगेच्छा नाभिजायते ।
सर्वं ब्रह्मेति सिद्धान्तः काले नामास्य युज्यते
23
Keep
आदौ शमदमप्रायैर्गुणैः शिष्यं विशोधयेत् ।
पश्चात्सर्वमिदं ब्रह्म शुद्धस्त्वमिति बोधयेत्
24
Keep
अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् ।
महानरकजालेषु स तेन विनियोजितः
25
Keep
प्रबुद्धबुद्धेः प्रक्षीणभोगेच्छस्य निराशिषः ।
नास्त्यविद्यामलमिति युक्तं वक्तुं महात्मनः
26
Keep
अपरीक्ष्य च यः शिष्यं प्रशास्त्यतिविमूढधीः ।
स एव नरकं याति यावदाभूतसंप्लवम्
27
Keep
इति संचिन्त्य भगवानज्ञानतिमिरापहः ।
तमुवाच मुनिश्रेष्ठो वसिष्ठो भूमिभास्करः
28
Keep
कलङ्ककलना ब्रह्मण्यस्ति नास्तीति वानघ ।
सिद्धान्तकाले वक्तव्यं स्वयं ज्ञास्यसि राघव
29
Keep
ब्रह्म सर्वशक्ति सर्वव्यापि सर्वगतं सर्वोहमेवेति।
30
Keep
यथेन्द्रजालिनः पश्यसि चित्रा मायया क्रिया
जनयन्तः सदसत्तां नयन्त्यसच्च सत्तां नयन्ति तथै-
वात्मा अमायामयोऽपि मायामय इव परम ऐन्द्रजा-
लिको घटं पटं करोति पटं च घटं करोति उपले
लतां जनयति मेरौ कनकतटे नन्दनवनमिव लता-
यामुपलमुत्पादयति कल्पपादपेषु रत्नस्तबकमिव
व्योम्नि काननमध्यारोपयति
31
Keep
गन्धर्वउद्यानमिव तस्मिन् जगति भविष्यति
गगने कल्पनया नगरतां जनयति नष्टच्छायाञ्जन-
मिव व्योम धरातलं नयतीति
32
Keep
गन्धर्वनगरराजगृहे विपुलाङ्गनाजनमिव भूतले
व्योम निवेशयति
33
Keep
रक्तकुट्टिमेष्वाकाशप्रतिबिम्बमिव किंचिदस्ति
जगति भविष्यति वा बभूव
34
Keep
यदीश्वरो व्यक्तरूपो विचित्रतामुपेत्य निदर्श-
यति ।
35
Keep
सर्वमेव सर्वथा सर्वत्र यथा संभवत्येकमेवेह
वस्तु विद्यत इति तस्माद्धर्षामर्षविस्मयानां क्व वाऽव-
सरो राम
36
Keep
समतयैव सततं धृतिमता स्थातव्यम्
37
Keep
विस्मयस्मयसंमोहहर्षामर्षविकारिताम् ।
समतावलितस्तज्ज्ञो न कदाचन गच्छति
38
Keep
अपर्यवसाने देशकालवति चित्रा हि जगति
युक्तयो दृश्यन्ते
39
Keep
एताश्च युक्तीर्नामासावात्मा यत्नेन रचनां करोति
न चोत्पन्नां तिरस्करोति सागर इव वीचीः
40
Keep
किं तर्हि क्षीर इव घृतं घट इव मृदि पट इव तन्तुषु
वट इव धानायात्मन्येव स्थिताः शक्तयः प्रकटता-
मागता व्यवह्रियन्तेऽविरचितमेव तरङ्गवत्
41
Keep
नात्र कश्चित्कर्ता न भोक्ता न विनाशमेति
42
Keep
केवलमात्मतत्त्वे साक्षिणि निरामये समतया-
त्मनि नित्यमसंक्षुब्धे तिष्ठति सत्येवं संपद्यते
43
Keep
सति दीप इवालोकः सत्यर्क इव वासरः ।
सति पुष्प इवामोदः स्वतः संपद्यते जगत्
44
Keep
आभासमात्रमेवेदं परिदृश्यत एव च ।
स्पन्दः समीरणस्येव न सन्नासदवस्थितम्
45
Keep
निर्दोषवदेव जागतीनां दृष्टीनां परमार्थतो भग-
वान्स्थितो विनष्टानां पुनः कर्ता कृतानां वा नाश-
यिता स केवलं कदाचित्प्रकटाः कदाचिदल्पप्रकटाः
कदाचिदप्रकटास्तारका इव कुसुमराशयः
46
Keep
नश्यतीह हि तद्वस्तु नात्मभूतं यदात्मनः ।
कथं नश्यति तद्वस्तु स्वात्मभूतं यदात्मनः
47
Keep
जायते नैव तद्वस्तु नात्मभूतं यदात्मनः ।
जायते चैव तद्वस्तु स्वात्मभूतं यदात्मनः
48
Keep
कथं तज्जायते तस्मात्स्वात्मभूतं यदात्मनः
49
Keep
तस्मात्सम्यग्ज्ञानवशाद्ब्रह्मणः सर्वपदार्थानामा-
गमः
50
Keep
अवतीर्णानां च तेषामवतरणसमकालमेवाविद्यो-
देति तत्त्वज्ञानं दृढतामेति तदनु शतसहस्रस्कन्धो
विचित्रशुभाशुभफलभरफलितो भूरिशाखः स्फार-
तामेति संसारद्रुमः
Previous
←
Sarga 38
Next
Sarga 40
→