Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 41
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
क्षीरोदकुक्षितुल्याभिः
शीतलामलदीप्ति
भिः ।
तवोक्तिभिर्विचित्राभिर्गम्भीराभिरिवाभितः
2
Keep
क्षणमान्ध्यमिवाप्नोमि क्षणं यामि
प्रकाशता
म् ।
शान्तातपलवः प्रावृड्लोलाभ्र इव वासरः
3
Keep
अनन्तस्याप्रमेयस्य सर्वस्यैकस्य
भास्व
तः ।
अनस्तमितसारस्य कलना कथमागता
4
Keep
यथाभूतार्थवाक्यार्थाः सर्वा एव
ममोक्त
यः ।
नासमर्था विरूपार्थाः पूर्वापरविरोधदाः
5
Keep
ज्ञानदृष्टौ प्रसन्नायां प्रबोधे
विततोद
ये ।
यथावज्ज्ञास्यसि स्वस्थो मद्वाग्दृष्टिबलाबलम्
6
Keep
उपदेश्योपदेशार्थं
शास्त्रार्थप्रतिपत्त
ये ।
शब्दार्थवाक्यरचनाभ्रमो मा तन्मयो भव
7
Keep
यदा पुरा ज्ञास्यसि
तत्सत्यमत्यन्तनिर्मल
म् ।
वाच्यवाचकशब्दार्थभेदं त्यक्ष्यसि वै तदा
8
Keep
भेदकृद्वाक्प्रपञ्चोऽयमुपदेश्येषु
कल्पि
तः ।
उपदेश्योपदेशार्थं शास्त्रार्थप्रतिपत्तये
9
Keep
शब्दार्थवाक्प्रपञ्चोऽयमुपदेशेषु
कल्पि
तः ।
सदाऽज्ञेषु न तज्ज्ञेषु विद्यते पारमार्थिकः
10
Keep
कलनामलमोहादि किंचिन्नात्मनि
विद्य
ते ।
नीरागं ब्रह्म परमं तदेवेदं जगत्स्थितम्
11
Keep
एतद्विचित्ररूपाभिर्युक्तिभिर्बहुशः
पु
नः ।
विस्तरेणैव वक्तव्यं सिद्धान्तावसरेऽनघ
12
Keep
वाक्प्रपञ्चं विना त्वेतदज्ञानमतुलं
त
मः ।
भेत्तुमन्योन्यमुदितं यत्नं कर्तुं न शक्यते
13
Keep
अविद्ययैवोत्तमया
स्वात्मनाशोद्यमेच्छ
या ।
विद्या सा प्रार्थ्यते राम सर्वदोषापहारिणी
14
Keep
शाम्यति ह्यस्त्रमस्त्रेण मलेन क्षाल्यते
म
लः ।
शमं विषं विषेणैति रिपुणा हन्यते रिपुः
15
Keep
ईदृशी राम मायेयं यां स्वनाशेन
हर्ष
दा ।
न लक्ष्यते स्वभावोऽस्याः प्रेक्ष्यमाणैव नश्यति
16
Keep
विवेकमाच्छादयति जगन्ति
जनयत्यल
म् ।
नच विज्ञायते कैषा पश्याश्चर्यमिदं जगत्
17
Keep
अप्रेक्ष्यमाणा स्फुरति प्रेक्षिता सु
विनश्य
ति ।
मायेयमपरिज्ञायमानरूपैव वल्गति
18
Keep
अहो नु खलु चित्रेयं माया
संसारबन्ध
नी ।
असत्येवातिसत्येव स्वज्ञानं विहितं तया
19
Keep
अत्यभिन्नपदे तस्मिंस्तन्वाना
भेदमातत
म् ।
संसारमाया येनासौ तेनासौ पुरुषोत्तमः
20
Keep
नास्त्येषा परमार्थे न त्वेवं
भावनयेद्ध
या ।
ज्ञो भूत्वा ज्ञेयसंप्राप्तो ज्ञास्यस्यस्यास्त्वमाशयम्
21
Keep
यावत्तु न प्रबुद्धस्त्वं तावन्मद्वचसैव
ते ।
निश्चयो भवतूद्दामो नास्त्यविद्येति निश्चलः
22
Keep
यदिदं दृश्यतां यातं मानसं मननं
मह
त् ।
असन्मात्रमिदं यस्मान्मनोमात्रविजृम्भितम्
23
Keep
सत्तद्ब्रह्मेति यस्यान्तर्निश्चयः सोऽपि
मोक्षभा
क् ।
चलाचलाकृतिर्या या दृष्टिरावद्धभावना
24
Keep
सा
समग्रजगद्भूतखगबन्धनवागु
रा ।
यः स्वप्नभूमिवद्भ्रान्तमसत्सद्ह्येकनिश्चयः
25
Keep
जगत्पश्यत्यसक्तात्मा न स दुःखे
निमज्ज
ति ।
यस्यैतास्वस्वरूपासु भावना स्वात्मभावना
26
Keep
अस्वरूपस्य तस्यापि सा ह्यविद्यैव
विद्य
ते ।
विकारितादयो दोषा न केचन महात्मनि
27
Keep
परमात्मनि विद्यन्ते पयसीवेह
पांस
वः ।
भावनाशब्दशब्दार्थरञ्जनेयं जगद्गता
28
Keep
व्यवहारार्थमुत्पन्ना व्यतिरिक्ता च
नात्म
नः ।
अनेन व्यवहारेण विनैताः शास्त्रदृष्टयः
29
Keep
संस्थितिं नाधिगच्छन्ति पटा इव
वितन्त
वः ।
उह्यमानो ह्यविद्यायामात्मा नेहोपलक्ष्यते
30
Keep
आत्मज्ञानादृते तच्च
शास्त्रार्थात्समवाप्य
ते ।
अविद्यासरितः पारमात्मलाभादृते किल
31
Keep
राम नासाद्यते तद्धि
पदमक्षयमुच्य
ते ।
यतःकुतश्चिज्जातेयमविद्या मलदायिनी
32
Keep
नूनं स्थितिमुपायाता समासाद्य पदं
स्थि
ता ।
कुतो जातेयमिति ते राम मास्तु विचारणा
33
Keep
इमां कथमहं हन्मीत्येषा तेऽस्तु
विचार
णा ।
अस्तं गतायां क्षीणायामस्यां ज्ञास्यसि राघव
34
Keep
यत एषा यथा चैषा यथा
नष्टेत्यखण्डित
म् ।
वस्तुतः किल नास्त्येषा विभात्येषा न वेक्षिता
35
Keep
असतो भ्रान्तता सत्यरूपां जानातु कः
कु
तः ।
जातेयं प्रौढिमापन्ना दोषायैवातताकृतिः
36
Keep
बलात्प्रणाशय त्वेनां परिज्ञास्यसि वै
त
तः ।
अपि शूरा अतिप्राज्ञास्ते न सन्ति जगत्त्रये
37
Keep
अविद्यया ये पुरुषा न नाम
विवशीकृ
ताः ।
तदस्या रोगशीलाया यत्नं कुरु विनाशने
38
Keep
यथैषा जन्मदुःखेषु न भूयस्त्वां
नियोक्ष्य
ति ।
सर्वापदामेकसखीमज्ञानतरुमञ्जरी
म् ।
अनर्थसार्थजननीमविद्यामलमुद्धर
39
Keep
भयविषाददुराधिविपत्प्रदां
हृदयमोहमहापटलांकुरा
म् ।
भृशमपास्य कुदृष्टिमिमां बला-
द्भव भवार्णवपारमुपागतः
Previous
←
Sarga 40
Next
Sarga 42
→