Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 42
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
कुपितस्यासतोऽप्यस्य
प्रेक्षामात्रविनाशि
नः ।
अविद्याविततव्याधेरौषधं श्रृणु राघव
2
Keep
यां तां कथयितुं जातिं राम
राजससात्त्विकी
म् ।
मनोवीर्यविचारार्थं प्रस्तुतोऽस्मीह तां श्रृणु
3
Keep
यत्तदप्यमृतं ब्रह्म सर्वव्यापि
निरामय
म् ।
चिदाभासमनन्ताख्यमनादि विगतभ्रमम्
4
Keep
चित्स्पन्दवपुषस्तस्य स्पन्दस्तस्माच्चिदेव
हि ।
प्रदेशाद्धनतामेति सौम्योऽब्धिश्चलनादिव
5
Keep
अन्तरब्धेर्जलं
यद्वत्स्पन्दास्पन्दवदीह
ते । ।
सर्वशक्तिस्तथैकत्र गच्छति स्पन्दशक्तिताम्
6
Keep
आत्मन्येवात्मना व्योम्नि यथा सरति
मारु
तः ।
तथेहात्मात्मशक्त्यैव स्वात्मन्येवैति लोलताम्
7
Keep
स्वशिखास्पन्दशक्त्यैव दीपः सौम्यो
यथोन्नत
म् ।
एति तद्वदसावात्मा तत्स्वे वपुषि वल्गति
8
Keep
जलान्तरेऽम्बुधिर्यद्वल्लसद्वारीव
चञ्च
लः ।
सर्वशक्तिर्वपुष्येव तथा स्पन्दविलासवान्
9
Keep
यथोल्लसति भाश्चक्रैः
कचन्कनकसाग
रः ।
तथात्मनि परिस्पन्दैः स्फुरत्यक्षैश्चिदर्णवः
10
Keep
लक्ष्यते मौक्तिकस्पन्दो यथा व्योम्नि
दृशोऽदृ
शि ।
तथा भाति लसद्रूपा चिच्छक्तिश्चिन्महाम्बरे
11
Keep
किंचित्क्षुभितरूपा सा
चिच्छक्तिश्चिन्महार्ण
वे ।
तन्मयी चित्स्फुरत्यच्छा तत्रैवोर्मिरिवार्णवे
12
Keep
आत्मनोऽव्यतिरिक्तैव व्यतिरिक्तेव
तिष्ठ
ति ।
आलोकश्रीरिवालोककोटरे यत्ततां गता
13
Keep
क्षणं स्फुरति सा देवी सर्वशक्तितया
त
या ।
चेतति स्वां स्वयं शक्तिं कलेन्दोः शीततामिव
14
Keep
उदितैषा प्रकाशाख्या चिच्छक्तिः
परमात्म
नः ।
देशकालक्रियाशक्तीर्वयस्याः संप्रकर्षति
15
Keep
स्वस्वभावं विदित्वैवमनाद्यन्तपदे
स्थि
ता ।
रूपं परिमितेवासौ भावयत्यविभाविता
16
Keep
यदैवंभावितं रूपं तया
परमसत्त
या ।
तदैवैनामनुगता नामसंख्यादिका दृशः
17
Keep
चिदेवैतदवस्त्वेव व्यतिरिक्ता
तथात्म
नः ।
अनन्ता तद्गतैवाशु लहरीव महार्णवात्
18
Keep
यथा कटककेयूरैर्भेदो हेम्नो
विलक्ष
णः ।
तथात्मनश्चितो रूपं भावयन्त्याः स्वमांशिकम्
19
Keep
यथा दीपेन दीपानां जातानामात्मनां
त
था ।
देशकालकलामात्रभेदः स्वाभाविकश्चितेः
20
Keep
देशकालपरिस्पन्दशक्तिसन्दीपिताथ
चि
त् ।
संकल्पमनुधावन्ती प्रयाति कलनापदम्
21
Keep
विकल्पकलिताकारं
देशकालक्रियास्पद
म् ।
चितो रूपं महाबाहो क्षेत्रज्ञ इति कथ्यते
22
Keep
क्षेत्रं शरीरमित्याहुस्तदसौ
वेत्त्यखण्डित
म् ।
सबाह्याभ्यन्तरं तेन क्षेत्रज्ञ इति कथ्यते
23
Keep
वासनां कलयन्सोऽपि यात्यहंकारतां
पु
नः ।
अहंकारोऽपि निर्णेता कलङ्की बुद्धिरुच्यते
24
Keep
बुद्धिः संकल्पकलिता प्रयाति मनसः
पद
म् ।
मनो घनविकल्पं तु गच्छतीन्द्रियतां शनैः
25
Keep
पाणिपादमयं देहमिन्द्रियाणि
विदुर्बु
धाः ।
दहोऽसौ ज्ञायते लोके सूयतेऽपि च जीवति
26
Keep
एवं जीवो हि
संकल्पवासनारज्जुवेष्टि
तः ।
दुःखजालपरीतात्मा क्रमादायाति चित्तताम्
27
Keep
क्रमेण पाकवशतः फलमेति
यथान्यता
म् ।
अवस्थयैव नाकृत्या जीवो मलवशात्तथा
28
Keep
जीवोऽहंकारतां प्राप्तस्त्वहंकारश्च
बुद्धिता
म् ।
संकल्पजालकलितां मनस्तां बुद्धिरागता
29
Keep
मनो हि संकल्पमयं
संस्थाग्रहणतत्पर
म् ।
प्रतियोगिव्यवच्छिन्नप्राप्तिसत्यैरपीहितैः
30
Keep
इच्छाद्याः शक्तयश्चेतो गावो
वृषमिवोन्मद
म् ।
अनुधावन्ति दोषाय सरितः सागरं यथा
31
Keep
इति शक्तिमयं चेतो घनाहंकारतां
गत
म् ।
कोशकारक्रिमिरिव स्वेच्छया याति बन्धनम्
32
Keep
स्वसंकल्पानुसंधानात्पाशैरिव
नयन्व
पुः ।
कष्टमस्मिन्स्वयं बन्धमेत्यात्मा परितप्यते
33
Keep
बद्धमस्मीति कलयद्विद्यातत्त्वं
जहच्छ
नैः ।
अविद्यां जनयत्यन्तर्जगज्जङ्गलराक्षसीम्
34
Keep
स्वसंकल्पिततन्मात्रज्वालाभ्यन्तरवर्ति
च ।
परां विवशतामेति श्रृङ्खलाबद्धसिंहवत्
35
Keep
विचित्रकार्यकर्तृत्वमाहरद्वासनावशा
त् ।
स्वेच्छामात्रानुरचिता दशाश्चानुपतत्तथा
36
Keep
क्वचिन्मनः क्वचिद्रुद्धिः क्वचिज्ज्ञानं
क्वचित्क्रि
याः ।
क्वचिदेतदहंकारः क्वचित्पुर्यष्टकं स्मृतम्
37
Keep
क्वचित्प्रकृतिरित्युक्तं क्वचिन्मायेति
कल्पित
म् ।
क्वचिन्मलमितिप्रोक्तं क्वचित्कर्मेतिसंस्थितम्
38
Keep
क्वचिद्बन्धमिति ख्यातं क्वचिच्चित्तमिति
स्फुट
म् ।
प्रोक्तं क्वचिदविद्येतिक्वचिदिच्छेति संस्थितम्
39
Keep
तदेतदाबद्धमिह चित्तं राघव
दुःखित
म् ।
तृष्णाशोकसमाविष्टं रागायतनमाततम्
40
Keep
जरामरणमोहान्तर्भवभावनयाहत
म् ।
ईहितानीहितैर्ग्रस्तमविद्यारागरञ्जितम्
41
Keep
इच्छासंक्षुभिताकारं
कर्मवृक्षवनाङ्कुर
म् ।
सुविस्मृतोत्पत्तिपदं कल्पितानर्थकल्पितम्
42
Keep
कोशकारवदाबद्धं शोकाकारपदं
गत
म् ।
तन्मात्रवृन्दावयवमनन्तनरकातपम्
43
Keep
स्वदृश्यमपि
शैलेन्द्रसमभारभयावह
म् ।
जरामरणशाखाढ्यं संसारविषदुर्द्रुमम्
44
Keep
इमं
संसारमखिलमाशापाशविधायक
म् ।
दधदन्तः फलैर्हीनं वटधाना वटं यथा
45
Keep
चिन्तानलशिखादग्धं
कोपाजगरचर्वित
म् ।
कामाब्धिकल्लोलहतं विस्मृतात्मपितामहम्
46
Keep
मृगं यूथादिव भ्रष्टं
शोकोपहतचेतन
म् ।
पतङ्गकमिव ज्वालादग्धं विषयपावके
47
Keep
छिन्नमूलमिवाम्भोजं परमां
म्लानिमागत
म् ।
छिन्नाङ्गमात्मनः स्थानाद्विशेषासङ्गदुःस्थितम्
48
Keep
विषयादिषु मध्यस्थं चित्ररूपेषु
शत्रु
षु ।
दशास्वेतास्वनन्तासु लुठितं संकटास्विति
49
Keep
दुःखे निपतितं घोरे विहङ्गः सागरे
य
था ।
स्वबन्धास्थं जगज्जाले शून्ये गन्धर्वपत्तने
50
Keep
उह्यमानमनास्थाब्धौ मनो
विषयविद्रुत
म् ।
उद्धरामरसंकाश मातङ्गमिव कर्दमात्
51
Keep
बलीवर्दवदामग्नं मनो
मदनपल्व
ले ।
आलूनशीर्णावयवं बलाद्राम समुद्धर
52
Keep
शुभाशुभप्रसरपराहताकृतौ
ज्वलज्जरामरणविषादमूर्च्छि
ते ।
व्यथेह यस्य मनसि भो न जायते
नराकृतिर्जगति स राम राक्षसः
Previous
←
Sarga 41
Next
Sarga 43
→