Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 44
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
क्रमेणानेन येनाप्ता जीवेन
स्थितिरात्म
नः ।
स कथं भगवन्देहं समाधत्तेऽस्थिपञ्जरम्
2
Keep
पूर्वमेव मया प्रोक्तं राम किं
नावबुध्य
से ।
पूवापरविचारार्हा शेमुषी क्व गता तव
3
Keep
यदिदं हि शरीरादि
जगत्स्थावरजङ्गम
म् ।
आभासमात्रमेवेतदसत्स्वप्नमिवोत्थितम्
4
Keep
दीर्घस्वप्नो ह्ययं राम मिथ्यैवानघ
दृश्य
ते ।
द्विचन्द्रविभ्रमाकारं भ्रमान्तर्भ्रान्तशैलवत्
5
Keep
प्रशान्ताज्ञाननिद्रस्तु नूनं
गलितभाव
नः ।
प्रबुद्धचेताः संसारस्वप्नं पश्यन्न पश्यति
6
Keep
स्वभावकल्पितो राम जीवानां सर्वदैव
हि ।
आमोक्षपदसंप्राप्ति संसारोऽस्त्यात्मनोऽन्तरे
7
Keep
जीवस्य तरलः काय आवर्तः पयसो
य
था ।
यथा बीजेऽङ्कुरः स्फारः पल्लवः स्वाङ्कुरे यथा
8
Keep
पल्लवे च यथा पुष्पं पुष्पकोशे फलं
य
था ।
यतः स कल्पनारूपो देहोऽस्ति मनसोऽन्तरे
9
Keep
बहुरूपतया राम यतोऽस्त्येकतमः
स्फु
टः ।
स एव प्रतिभासोऽस्य मनसः किल जायते
10
Keep
स एवाशु भवत्येतन्मृत्पिण्डो
घटकोप
मः ।
आदिसर्गे पुरा कायः प्रतिभासोऽस्य चोत्तमः
11
Keep
यस्मादेष विभुर्ब्रह्मा
पद्मकोशगृहस्थि
तः ।
तत्संकल्पक्रमेणैव ततः स्थितिमुपागता
12
Keep
इयं सृष्टिरपर्यन्ता मायेव
घनमाय
या ।
जीवो मनःपदं प्राप्य वैरिञ्चं पदमागतः
13
Keep
यथा ब्रह्मंस्तथा सर्वं विस्तरेण वदाशु
मे ।
ब्राह्मे श्रृणु महाबाहो शरीरग्रहणे क्रमम्
14
Keep
निदर्शनेन तेनैव जागतीं ज्ञास्यसि
स्थिति
म् ।
दिक्कालाद्यनवच्छिन्नमात्मतत्त्वं स्वशक्तितः
15
Keep
लीलयैव यदादत्ते दिक्कालकलितं
व
पुः ।
तदैव जीवपर्यायं वासनावेशतत्परम्
16
Keep
मनः संपद्यते लोलं
कलनाकलनोन्मुख
म् ।
कलयन्ती मनःशक्तिरादौ भावयति क्षणात्
17
Keep
आकाशभावनामच्छां
शब्दबीजरसोन्मुखी
म् ।
ततस्तां घनतां यातं घनस्पन्दक्रमान्मनः
18
Keep
भावयत्यनिलस्पन्दं
स्पर्शबीजरसोन्मुख
म् ।
ताभ्यामाकाशवाताभ्यामदृष्टाभ्यां मनोदृशा
19
Keep
शब्दस्पर्शस्वरूपाभ्यां
संघाताज्जन्यतेऽन
लः ।
मनस्तद्धनतां प्राप्य ततो भावयति क्षणात्
20
Keep
प्राकाश्यममलालोकमालोकस्तेन
वर्ध
ते ।
मनस्तावद्गुणगतं रसतन्मात्रवेदनम्
21
Keep
क्षणार्धेन त्वपां शैत्यं जलसंवित्ततो
भवे
त् ।
ततस्तादृग्गुणगतं मनो भावयति क्षणात्
22
Keep
स्वरूपं गन्धवत्स्थूलं येनोदेष्यति
मेदि
नी ।
अथेत्थंभूततन्मात्रवेष्टितं तनुतां जहत्
23
Keep
वपुर्वह्निकणाकारं स्फुरितं व्योम्नि
पश्य
ति ।
अहंकारकलायुक्तं बुद्धिबीजसमन्वितम्
24
Keep
तत्पुर्यष्टकमित्युक्तं
भूतहृत्पद्मषट्पद
म् ।
तस्मिंस्तु तीव्रसंवेगाद्भावयद्भास्वरं वपुः
25
Keep
स्थूलतामेति पाकेन मनो बिल्वफलं
य
था ।
मूषास्थद्रुतहेमाभं स्फुरितं विमलाम्बरे
26
Keep
सन्निवेशमुपादत्ते तत्तेजः
स्वस्वभाव
तः ।
तस्मिन्स्वसन्निवेशे च तेजःपुञ्जमये पुनः
27
Keep
भजते भावनां स्फारां
निश्चितामातताम्बरा
म् ।
ऊर्ध्वं शिरःपीठमयीमधःपादमयीं तथा
28
Keep
पार्श्वयोर्हस्तसंस्थानां मध्ये
चोदरधर्मिणी
म् ।
प्रकटावयवो बालो ज्वालामालामलाकृतिः
29
Keep
मनोरथवशोपात्तवपुस्तिष्ठत्यसाव
थ ।
एवं स्ववासनावेशात्कलिताङ्गो मनोमुनिः
30
Keep
नयत्युपचयं देहं
स्वस्वभावमृतुर्य
था ।
कालेन स्फुटतामेति भवत्यमलविग्रहः
31
Keep
बुद्धिसत्त्वबलोत्साहविज्ञानैश्वर्यसंस्थि
तः ।
स एव भगवान्ब्रह्मा सर्वलोकपितामहः
32
Keep
द्रवत्कनकसंकाशः
परमाकाशसंभ
वः ।
यथासौ परमाकाशे तिष्ठत्यपररूपवान्
33
Keep
जनयत्यात्मनो मोहमात्मस्थं
चित्तलील
या ।
कदाचित्केवलं व्योम परमं पारवर्जितम्
34
Keep
अनादिमध्यपर्यन्तं कदाचिदमलं
प
यः ।
कदाचित्कल्पकालाग्निज्वालाभास्वरमण्डकम्
35
Keep
कदाचित्काननं कार्ष्ण्यं कालं
कमलकुड्मल
म् ।
अन्यान्यन्यान्यनेकानि प्रतिजन्मावधिः प्रभुः
36
Keep
कल्पयन्पालयत्येष नानारूपाणि
हेल
या ।
तत्रेदंप्रथमत्वेन यदैष ब्रह्मणः पदात्
37
Keep
अवतीर्णस्तदाऽज्ञानात्तथैव
सुखमस्मृत
म् ।
गर्भनिद्राव्यपगमे वपुः पश्यति भास्वरम्
38
Keep
प्राणापानप्रवाहाढ्यं द्रव्यैरिव
विनिर्मित
म् ।
रोमकोटिभिराकीर्णं द्वात्रिंशद्दशनान्वितम्
39
Keep
त्रिस्थूणं
पञ्चदैवत्यमधश्चरणलाञ्छित
म् ।
पञ्चभागं नवद्वारं त्वग्लेपमसृणाङ्गकम्
40
Keep
युक्तमङ्गुलिविंशत्या
नखविंशतिलाञ्छित
म् ।
द्विबाहुं द्विस्तनं द्व्यक्षं बह्वक्षिभुजमेव च
41
Keep
नीडं चित्तविहङ्गस्य नीडं
मन्मथभोगि
नः ।
तृष्णापिशाच्या निलयं जीवकेसरिकन्दरम्
42
Keep
अभिमानगजालानं
मानसाम्भोजशोभित
म् ।
अथालोच्य वपुर्ब्रह्मा कान्तमात्मीयमुत्तमम्
43
Keep
चिन्तयामास
भगवांस्त्रिकालामलदर्श
नः ।
अस्मिन्नाकाशकुहरे तते मधुपलाञ्छिते
44
Keep
अदृष्टपारपर्यन्ते प्रथमं
किमभूदि
ति ।
इतिचिन्तितवान्ब्रह्मासद्योजातोऽमलात्मदृक्
45
Keep
अपश्यत्सर्गवृन्दानि
समतीतान्यनेक
शः ।
अथ सस्मार सकलान्सर्वान्धर्मगणान्क्रमात्
46
Keep
वसन्तः कुसुमानीव वेदानादाय
संस्तुता
न् ।
लीलया कल्पयामास चित्रसंकल्पजाः प्रजाः
47
Keep
नानाचारसमाचारं गन्धर्वनगरे
य
था ।
तासां स्वर्गापवर्गार्थं धर्मकामार्थसिद्धये
48
Keep
अनन्तानि विचित्राणि शास्त्राणि
समकल्पय
त् ।
दृष्टिरेवमियं राम
सर्गेऽस्मिन्स्थितिमाग
ता ।
विरिञ्चिरूपान्मनसः पुष्पलक्ष्मीर्मधोरिव
49
Keep
विविधविरचनैः क्रियाविलासैः
कमलजरूपधरेण
चेतसै
व ।
रघुसुत परिकल्पनेन नीता
स्थितिमतुलां जगतीह सर्गलक्ष्मीः
Previous
←
Sarga 43
Next
Sarga 45
→