Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 46
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
रम्ये धनेषु दारादौ शोकस्यावसरो हि कः ।
इन्द्रजालेक्षणाद्दृष्टे नष्टे का परिदेवना
2
Keep
गन्धर्वनगरस्यार्थे दूषिते भूषिते तथा ।
अविद्यांशे सुतादौ वा कः क्रमः सुखदुःखयोः
3
Keep
रम्ये धनेऽथ दारादौ हर्षस्यावसरो हि कः ।
वृद्धायां मृगतृष्णायां किमानन्दो जलार्थिनाम्
4
Keep
धनदारेषु वृद्धेषु दुःखं युक्तं न तुष्टयः ।
वृद्धायां मोहमायायां कः समाश्वासवानिह
5
Keep
यैरेव जायते रागो मूर्खस्याधिकतागतैः ।
तैरेव भोगैः प्राज्ञस्य विराग उपजायते
6
Keep
नष्टे धनेऽथ दारादौ हर्षस्यावसरो हि कः ।
पारावलोकिनस्त्वेतैर्विरागं यान्ति साधवः
7
Keep
अतो राघव तत्त्वज्ञो व्यवहारेषु संसृतेः ।
नष्टं नष्टमुपेक्षस्व प्राप्तं प्राप्तमुपाहर
8
Keep
अनागतानां भोगानामवाञ्छनमकृत्रिमम् ।
आगतानां च संभोग इति पण्डितलक्षणम्
9
Keep
संसारसंभ्रमे ह्यस्मिंश्छन्नात्मन्याततायिनि ।
तथा विहर संबुद्धो यथा नायासि मूढताम्
10
Keep
संसाराडम्बरस्यास्य प्रपञ्चरहिते क्रमे ।
सम्यग्ज्ञा नानुपश्यन्ति ये हतास्ते कुबुद्धयः
11
Keep
यया कयाचिद्युक्त्यैव दृश्याद्यस्य गता रतिः ।
परिमज्जति तस्यास्था न क्वचिद्विमला मतिः
12
Keep
यस्यासदिदमित्यास्था निवृत्ता सर्ववस्तुषु ।
क्रोडीकरोति सर्वज्ञं नाविद्या तमवास्तवी
13
Keep
अहं जगच्चैकमिदं सर्वमेवेति यस्य धीः ।
आस्थानास्थे परित्यज्य संस्थिता स न मज्जति
14
Keep
शुद्धं सदसतोर्मध्यं पदं बुद्ध्याऽवलम्ब्य च ।
सबाह्याभ्यन्तरं दृश्यं मा गृहाण विमुञ्च मा
15
Keep
अत्यन्तविरतः स्वस्थः सर्ववासविवर्जितः ।
व्योमवत्तिष्ठ नीरागो राम कार्यपरोऽपि सन्
16
Keep
यस्य नेच्छा न वानिच्छा ज्ञस्य कर्मणि तिष्ठतः ।
न तस्य लिप्यते प्रज्ञा पद्मपत्रमिवाम्बुभिः
17
Keep
दर्शनस्पर्शनादीनि मा करोतु करोतु च ।
तवेन्द्रियमनो गौणं त्वमनिच्छो भवात्मवान्
18
Keep
ममेदमित्यसद्भूतमिन्द्रियार्थे भवन्मनः ।
मा निमज्जत्वमग्नः सन्मा करोतु करोतु वा
19
Keep
यदा ते नेन्द्रियार्थश्रीः स्वदते हृदि राघव ।
तदा विज्ञातविज्ञानः समुत्तीर्णभवार्णवः
20
Keep
आस्वादितेन्द्रियार्थस्य सतनोरतनोरपि ।
अनिच्छतोऽपि संपन्ना मुक्तिरर्थवशात्तव
21
Keep
उच्चैःपदाय परया प्रज्ञया वासनागणात् ।
पुष्पाद्गन्धमिवोदारं चेतो राम पृथक्कुरु
22
Keep
संसाराम्बुनिधावस्मिन्वासनाम्बुपरिप्लुते ।
ये प्रज्ञा नावमारूढास्ते तीर्णा वुडिताः परे
23
Keep
क्षुरधाराप्रमितया धिया परमधीरया ।
प्रविचार्यात्मनस्तत्त्वं ततः स्वपदमाविश
24
Keep
यथा तत्त्वविदः प्राज्ञा ज्ञानबृंहितचेतसः ।
विहरन्ति तथा राम विहर्तव्यं न मूढवत्
25
Keep
जीवन्मुक्ता महात्मानो नित्यतृप्ता महाधियः ।
आचारैरनुगन्तव्या न भोगकृपणाः शठाः
26
Keep
न त्यजन्ति न वाञ्छन्ति व्यवहारं जगद्गतम् ।
सर्वमेवानुवर्तन्ते पारावारविदो जनाः
27
Keep
प्रभावस्याभिमानस्य गुणानां यशसः श्रियः ।
न क्वचित्कृपणा लोके महान्तस्तत्त्वदर्शिनः
28
Keep
सुशून्येऽपि न खिद्यन्ते देवोद्याने नसङ्गिनः ।
नियतिं च न मुञ्चन्ति महान्तो भास्करा इव
29
Keep
विगतेच्छा यथाप्राप्तव्यवहारानुवर्तिनः ।
विचरन्ति समुन्नद्धाः स्वस्था देहरथे स्थिताः
30
Keep
त्वमपि प्राप्तवान् राम विवेकमिममाततम् ।
प्रज्ञाबलेन चानेन ज्ञाने स्वस्थोऽसि सुन्दर
31
Keep
स्पष्टां दृष्टिमवष्टभ्य निर्मानो गतमत्सरः ।
विहरास्मिन्भुवः पीठे परां सिद्धिमवाप्स्यसि
32
Keep
स्वस्थः सर्वेहितत्यागी दूरालोकनवाञ्छनः ।
परां शीतलतामन्तरादाय विहरानघ
33
Keep
श्रीवाल्मीकिरुवाच ।
इत्थं गिरा विमलया विमलाशयस्य
रामो मुनेः सपदि मृष्ट इवाबभासे ।
ज्ञानामृतेन मधुरेण विराजितान्तः
पूर्णः शशाङ्क इव शीतलतां जगाम
Previous
←
Sarga 45
Next
Sarga 47
→