Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 58
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
अत्रैव वस्तुन्युदिता श्रृणु राघव पूर्वजाः ।
कचेन गाथा या गीता बार्हस्पत्येन पावनाः
2
Keep
कस्मिंश्चिन्मेरुगहनेऽतिष्ठन्सुरगुरोः सुतः ।
कदाचिदभ्यासवशाद्विश्रान्तिं प्राप चात्मनि
3
Keep
सम्यग्ज्ञानामृतापूर्णा मतिर्नारमतास्य सा ।
पञ्चभूतमयेऽमान्ये दृश्येऽस्मिन्पेलवात्मनि
4
Keep
स तेन निर्विण्ण इव सदात्मत्वादृते पदम् ।
अपश्यन्समुवाचेदमेको गद्गदया गिरा
5
Keep
किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् ।
आत्मना पूरितं विश्वं महाकल्पाम्बुना यथा
6
Keep
दुःखमात्मा सुखं चैव खमाशासुमहत्तया ।
सर्वमात्ममयं ज्ञातं नष्टकष्टोऽहमात्मना
7
Keep
सबाह्याभ्यन्तरे देहे अधश्चोर्ध्वं च दिक्षु च ।
इत आत्मा ततश्चात्मा नास्त्यनात्ममयं क्वचित्
8
Keep
सर्वत्रैव स्थितो ह्यात्मा सर्वमात्ममयं स्थितम् ।
सर्वमेवेदमात्मैवमात्मन्येव भवाम्यहम्
9
Keep
यन्नाम नाम तत्किंचित्सर्वमेवाहमान्तरः ।
θ
आपूरितापारनभाः सर्वत्र सन्मयः स्थितः
10
Keep
पूर्णस्तिष्ठामि मोदात्मा सुखमेकार्णवोपमः ।
इत्येवं भावयंस्तत्र कनकाचलकुञ्जके
11
Keep
उच्चारयन्नोङ्कारं च घण्टास्वनमिव क्रमात् ।
ओंकारस्य कलामात्रं पाश्चात्यं वालकोमलम् ।
नान्तरस्थो न बाह्यस्थो भावयन्परमे हृदि
12
Keep
व्यपगतकलनाकलङ्कशुद्धो
हृदयनिरन्तरलीनवातवृत्तिः ।
गतघनशरदाशयोपमानः
स्थित इति राम कचः स गायमानः
Previous
←
Sarga 57
Next
Sarga 59
→