Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 9
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
इति चिन्तयतस्तस्य शुक्रस्य पितुरग्रतः ।
जगामातितरां कालो बहुसंवत्सरात्मकः
2
Keep
अथ कालेन महता पवनातपजर्जरः ।
कायस्तस्य पपातोर्व्यां छिन्नमूल इव द्रुमः
3
Keep
मनस्तु चञ्चलाभोगं तासु तासु दशासु च ।
बभ्रामातिविचित्रासु वनराजिष्विवैणकः
4
Keep
भ्रान्तमुद्भ्रान्तमभितश्चक्रार्पितमिवाकुलम् ।
मनस्तस्य विशश्राम समङ्गासरितस्तटे
5
Keep
अनन्तवृत्तान्तघनां पेलवां सुदृढामपि ।
तां संसृतिदशां शुक्रो विदेहोऽनुभवन्स्थितः
6
Keep
मन्दराचलसानुस्था सा तनुस्तस्य धीमतः ।
तापप्रसरसंशुष्का चर्मशेषा बभूव ह
7
Keep
शरीररन्ध्रप्रवहद्वातसीत्काररूपया ।
चेष्टा दुःखक्षयानन्दात्काकल्येव प्रगायति
8
Keep
मनोवराकमवटे लुठितं भवभूमिषु ।
हसतीवेति शुभ्राभ्रसितया दन्तमालया
9
Keep
दर्शयन्ती जगच्छून्यं वपुरक्ष्णोरकृत्रिमम् ।
मुखारण्यजरत्कूपरूपया गर्तशोभया
10
Keep
तापोपतप्ता संसिक्ता वर्षाजलभरेण सा ।
प्रागनुस्मरणोल्लासमिव वाष्पं विमुञ्चति
11
Keep
चन्द्रानिलविलासेन लुलिता वनभूमिषु ।
धारानिकरपातेन विनुन्ना जलदागमे
12
Keep
प्रावृण्निर्झररूपेण प्लुता गिरिनदीतटे ।
पांशुना पवनोत्थेन दुष्कृतेनेव रूषिता
13
Keep
शुष्ककाष्ठवदालोला वातेषु कृतखाकृतिः ।
तारमारुतसीत्कारे वने तप इवास्थिता
14
Keep
वक्रा शुष्कान्त्रतन्त्री च भूतभाङ्कारकारिणी ।
अरण्यलक्ष्भीर्बाल्येव शून्या चर्ममयोदरी
15
Keep
रागद्वेषविहीनत्वात्तस्य पुण्याश्रमस्य तु ।
महातपस्त्वाच्च भृगोर्न भुक्ता मृगपक्षिभिः
16
Keep
यमनियमकृशीकृताङ्गयष्टि-
श्चरति तपः स्म भृगूद्वहस्य चेतः ।
तनुरथ पवनापनीतरक्ता
चिरमलुठन्महतीषु सा शिलासु
Previous
←
Sarga 8
Next
Sarga 10
→