Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 19
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
भ्रात्रोस्त्रिपथगातीरे संवादं मुनिपुत्रयोः
2
Keep
अयं बन्धुरयं नेति कथाप्रस्तावतः स्मृतम् ।
इतिहासमिमं पुण्यमाश्चर्यं श्रृणु राघव
3
Keep
अस्त्यस्य जम्बूद्वीपस्य कस्मिंश्चिद्गिरिकुञ्जके ।
वनव्यूहमहोत्तंसो महेन्द्रो नाम पर्वतः
4
Keep
कल्पद्रुमवनच्छायाविश्रान्तमुनिकिन्नरः ।
श्रृङ्गैराततमाकाशं जितवान्यः समुन्नतैः
5
Keep
ब्रह्मलोकान्तरप्राप्तश्रृङ्गकन्दरचारिभिः ।
सामवेदप्रतिध्वानघुंघुमैर्गायतीव यः
6
Keep
यः पयोमेदुरैर्मेघैर्लसितैः श्रृङ्गकोटिषु ।
लताकुसुमसंप्रोतैः कुन्तलैरिव राजते
7
Keep
यस्तदोड्डयनोत्कानां शरभाणां विजृम्भितैः ।
विस्फूर्जति गुहावक्रैः कल्पाभ्राणि हसन्निव
8
Keep
येन निर्झरनिर्ह्रादैः कन्दरान्तरचारिभिः ।
समुद्रजलकल्लोलविलासो विजितोऽभितः
9
Keep
तस्यैकदेशे वितते रत्नसानौ मनोरमे ।
मुनिभिः स्नानपानार्थं व्योमगङ्गावतारिता
10
Keep
तस्यास्त्रिपथगायास्तु तीरे विकसितद्रुमे ।
रत्नाद्रितटविद्योते कचत्कनकपिञ्जरे
11
Keep
आसीदभ्युदितज्ञानस्तपोराशिरुदारधीः ।
मुनिर्दीर्घतपा नाम तपो मूर्तमिवापरम्
12
Keep
मुनेर्बभूवतुस्तस्य पुत्रौ द्वाविन्दुसुन्दरौ ।
पुण्यपावननामानौ द्वौ कचाविव वाक्पतेः
13
Keep
स ताभ्यां सह पुत्राभ्यां भार्यया च सहैकया ।
उवास सरितस्तीरे तस्मिन्सफलपादपे
14
Keep
अथ काले तयोस्तस्य पुत्रयोर्ज्ञानवानभूत् ।
पुण्यो नाम च यो ज्येष्ठो गुणज्येष्ठश्च राघव
15
Keep
पावनोर्धप्रबुद्धोऽभूत्पूर्वसंध्याम्बुजं यथा ।
मौर्ख्यादधिगतो नाप्तः पदे दोलायितः स्थितः
16
Keep
ततो वहत्यकलिते काले कलितकारणे ।
संवत्सरशते जीर्णदीर्घदेहलतायुषि
17
Keep
अस्माद्भङ्गुरभूताढ्याद्वृत्तान्तशतभीषणात् ।
रतिमुत्सृज्य संसाराज्जराजर्जरजीवितः
18
Keep
कलनापक्षिणी नीडं देहं दीर्घतपा मुनिः ।
जहौ गिरिगुहागेहे भारं वैवधिको यथा
19
Keep
प्रशान्तकलनारम्भं चेत्यरिक्तचिदास्पदम् ।
पदं जगाम नीरागं पुष्पगन्ध इवाम्बरम्
20
Keep
अथ भार्या मुनेर्देहं प्राणापानविवर्जितम् ।
दृष्ट्वा विलुलितं भूमौ विनालमिव पङ्कजम्
21
Keep
चिरमभ्यस्तया योगयुक्त्या पतिवितीर्णया ।
तत्याज तनुमम्लानां षट्पदी पद्मिनीमिव
22
Keep
भर्तारमेवानुययौ जनस्यादृष्टतां गता ।
प्रभागगनकोशस्थमस्तं यातमिवोडुपम्
23
Keep
मातापित्रोस्तु गतयोरौर्ध्वदेहिककर्मणि ।
पुण्य एव स्थितोऽव्यग्रः पावनो दुःखमाययौ
24
Keep
शोकोपहतचित्तोऽसो भ्रमन्काननवीथिषु ।
ज्यायांसमनवेक्ष्यैव पावनो विललाप ह
25
Keep
अथौर्ध्वदेहिकं कृत्वा मातापित्रोरुदारधीः ।
आययौ विपिने पुण्यः पावनं शोकलालसम्
26
Keep
किं पुत्र घनतां शोकं नयस्यान्ध्यैककारणम् ।
वाष्पधाराधरं घोरं प्रावट्काल इवाम्बुजम्
27
Keep
पिता तव महाप्राज्ञ गतः सार्धं त्वदम्बया ।
स्वामेव परमात्मात्मपदवीं मोक्षनामिकाम्
28
Keep
तत्स्थानं सर्वजन्तूनां तद्रूपं विजितात्मनाम् ।
स्वभावमभिसंपन्ने किं पितर्यनुशोचसि
29
Keep
ईदृशी तु त्वया बद्धा भावनेह विमोहजा ।
संसारे यदशोच्योऽपि त्वया तातोनुशोच्यते
30
Keep
न सैव भवतो माता नासावेव पिता तव ।
न भवानेष तनयस्तयोर्निःसंख्यपुत्रयोः
31
Keep
मातापितृसहस्राणि समतीतानि ते सुत ।
बहून्यम्बुप्रवाहस्य निम्नानीव वने वने
32
Keep
असंख्यपुत्रयोर्नैव भवानेव सुतस्तयोः ।
सरित्तरङ्गवत्पुत्र गताः पुत्रगणा नृणाम्
33
Keep
अस्मत्पित्रोरतीतानि पुत्रलक्षाण्यनेकशः ।
पत्रकोरकवृन्तानि लताविटपयोरिव
34
Keep
मित्रबान्धववृन्दानि जन्तोर्जन्मनि जन्मनि ।
ऋतावृतावतीतानि फलानीव महातरोः
35
Keep
शोचनीया यदि स्नेहान्मातापितृसुताः सुत ।
तदतीता न शोच्यन्ते किमजस्रं सहस्रशः
36
Keep
प्रपञ्चोऽयं महाभाग दृश्यते जागते भ्रमे ।
परमार्थेन ते प्राज्ञ नास्ति मित्रं न बान्धवाः
37
Keep
न नाश इव हि भ्रातः परमार्थेन विद्यते ।
महत्यपि चिरातप्ते मराविव पयोलवाः
38
Keep
एता याः प्रेक्षसे लक्ष्मीश्छत्रचामरचञ्चलाः ।
स्वप्न एव महाबुद्धे दिनानि त्रीणि पञ्च वा
39
Keep
दृष्ट्या तु पारमार्थिक्या पुत्र सत्यं विचारय ।
नैव त्वं न वयं चैव भ्रान्तिमन्तः परित्यज
40
Keep
अयं गतो मृतश्चायमिति दुर्दृष्टयः पुरः ।
स्वसंकल्पोपतापोत्था दृश्यन्ते नतु सत्यतः
41
Keep
अज्ञानविस्तीर्णमरौ विलोलं
शुभाशुभस्यन्दमयैस्तरङ्गैः ।
सवासनानाममरीचिवारि
परिस्फुरत्येतदनन्तरूपम्
Previous
←
Sarga 18
Next
Sarga 20
→