Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 25
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
बलिरुवाच ।
एतन्मे कथितं पूर्वं पित्रा चारुविचारिणा ।
इदानीं संस्मृतं दिष्ट्या संप्रबोधमहं गतः
2
Keep
अद्येयं मम संजाता भोगान्प्रत्यरतिः स्फुटम् ।
दिष्ट्या शमसुखं स्वच्छं विशाम्यमृतशीतलम्
3
Keep
पुनरापूरयन्नाशां पुनरप्याहरन्धनम् ।
पुनरावर्जयन्कातां खिन्नोऽस्मि विभवस्थितौ ।
4
Keep
अहो नु खलु रम्येयं शमभूः शीतलान्तरा ।
सर्वा एव शमं यान्ति सुखदुःखदृशः शमे
5
Keep
शाम्यामि परिनिर्वामि सुखमासे शमे स्थितः ।
अयमन्तः प्रहृष्यामि चन्द्रबिम्ब इवार्पितः
6
Keep
उत्ताण्डवन्मनोरंहःप्रोषितोरुशरीरकम् ।
अनारतपरिक्षोभं हा दुःखं विभवार्जनम्
7
Keep
अङ्गमङ्गेन संपीड्य मांसं मांसेन च स्त्रियः ।
पुराहमभवं प्रीतो यत्तन्मोहविजृम्भितम्
8
Keep
दृष्टान्तदृष्टयो दृष्टा भुक्तं भोक्तव्यमक्षतम् ।
आक्रान्तमखिलं भूतं जातं किमिव शोभनम्
9
Keep
पुनस्तान्येव तान्येव तत्रेहान्यत्र वापि च ।
इतश्चेतश्च वस्तूनि नापूर्वं नाम किंचन
10
Keep
सर्वमेव परित्यज्य परिहृत्य धिया स्वयम् ।
स्वस्थ एवावतिष्ठेऽहं पूर्णात्पूर्ण इवात्मनि
11
Keep
पाताले भूतले स्वर्गे स्त्रियो रत्नोपलादयः ।
सारं तदपि तुच्छेन कालेनाशु निगीर्यते
12
Keep
एतावन्तमहं कालं भृशं बालोऽभवं पुरा ।
यः कुर्वन्द्वेषममरैस्तुच्छया जगदिच्छया
13
Keep
मनोनिर्माणमात्रेण जगन्नाम्ना महाधिना ।
त्यक्तेनानेनकोऽर्थः स्यात्को नु रागोमहात्मनः
14
Keep
कष्टं चिरतरं कालमनर्थोऽर्थधिया मया ।
अज्ञानमदमत्तेन कालेन स्वेन सेवितः
15
Keep
तरत्तरलतृष्णेन किमिवास्मिञ्जगत्त्रयम् ।
मया न कृतमज्ञेन पश्चात्तापाभिवृद्धये
16
Keep
एतया तदलं मेऽस्तु तुच्छया पूर्वचिन्तया ।
पौरुषं याति साफल्यं वर्तमानचिकित्सया
17
Keep
अद्यापरिमिताकारकारणैकतयात्मनि ।
सर्वतः सुखमभ्येति रसायनमिवार्णवे
18
Keep
कोऽयं तावदहं किं स्यादात्मेत्यात्मावलोकनम् ।
पृच्छाम्यौशनसं नाथं नूनमज्ञानशान्तये
19
Keep
संचिन्तयामि परमेश्वरमाशु शुक्र-
मुद्यत्प्रसादमथ तेन गिरोपदिष्टे ।
तिष्ठाम्यनन्तविभवे स्वयमात्मनात्म-
न्यक्षीणमर्थमुपदेशगिरः फलन्ति
Previous
←
Sarga 24
Next
Sarga 26
→