Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 30
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
अथेमं परमं राम विज्ञानाभिगमे क्रमम् ।
श्रृणु दैत्येश्वरः सिद्धः प्रह्रादः स्वात्मना यथा
2
Keep
आसीत्पातालकुहरे विद्रावितसुरासुरः ।
हिरण्यकशिपुर्नाम नारायणपराक्रमः
3
Keep
आक्रान्तभुवनाभोगः स जहार हरेर्जगत् ।
षट्पदस्य बृहत्पत्रं राजहंस इवाम्बुजम्
4
Keep
चकार जगतां राज्यं समाक्रान्तसुरासरः ।
दन्ती निरस्तहंसौघो नलिन्यामलिनामिव
5
Keep
अथासावसुराधीशः कुर्वंस्त्रिभुवनेशताम् ।
कालेन सुषुवे पुत्रानङ्कुरानिव माधवः
6
Keep
तेऽवर्धन्ताचिरेणैव तेजस्यूर्जितबालकाः ।
दशार्कांशुशतानीव व्योमाक्रान्तिविलासिनः
7
Keep
प्रह्रादनामा बलवान्प्रधानात्मा बभूव ह ।
तेषां मध्ये महार्हाणां मणीनामिव कौस्तुभः
8
Keep
तेनाराजत पुत्रेण हिरण्यकशिपुर्भृशम् ।
सर्वसौन्दर्ययुक्तेन वसन्तेनेव वत्सरः
9
Keep
अथ पुत्रसहायोऽसौ बलकोशसमन्वितः ।
आजगाम मदं दैत्यस्त्रिगण्डगलितेभवत्
10
Keep
तत्तापाक्रान्तितापेन त्रिजगन्ति विकासिना ।
कल्पान्तसूर्यगणवन्नवयैव करश्रिया
11
Keep
अखिद्यन्तास्य तेनाथ सूर्येन्दुप्रमुखाः सुराः ।
दुर्विलासविलोलस्य बालस्येव स्वबन्धवः
12
Keep
प्रार्थयांचक्रिरेऽथाजं दैत्येन्द्रेभपतेर्वधे ।
न क्षमन्ते महान्तोपि पौनःपुन्येन दुष्क्रियाम्
13
Keep
ततः प्रलयपर्यस्तजगद्धर्घरजृम्भितम् ।
दिग्दन्तिदशनप्रख्यनखवज्रादिजृम्भितम्
14
Keep
स्थिरविद्युल्लताजालभासुरद्विजमण्डलम् ।
दशदिक्कोटरोद्भान्तज्वलज्ज्वलनकुण्डलम्
15
Keep
समस्तकुलशैलेन्द्रपिण्डपीठोद्भटोदरम् ।
दोर्द्रुमाधूतनिर्धूतस्फुरद्ब्रह्माण्डखर्परम्
16
Keep
वदनोदरनिष्क्रान्तवातोत्सारितपर्वतम् ।
त्रिजगद्दहनोद्युक्तकोपकल्पाग्निगर्वितम्
17
Keep
सटाविकटपीनांसस्पन्दप्रेरितभास्करम् ।
रोमकूपलसद्वह्निपुञ्जापिञ्जरपर्वतम्
18
Keep
कुलाचलमहाकुड्यघटनोद्भटदिक्तटम् ।
सर्वावयवनिष्क्रान्तपट्टिशप्रासतोमरम्
19
Keep
नारसिंहं वपुः कृत्वा माधवोऽहन्महासुरम् ।
लसत्कटकटारावं तुरङ्गममिव द्विपः
20
Keep
पौरमासुरमुद्वान्तैददाहेक्षणवह्निभिः ।
स सर्वभूतकल्पान्ते जगज्जालमिवानलः
21
Keep
नृसिंहमारुते तस्मिन्भृशं क्षोभमुपागते । ।
विस्फूर्जितघनास्फोटैरेकार्णव इवाकुले
22
Keep
दुद्रुवुर्दानवौघास्ते दिग्ज्वलन्मशका इव ।
उपाययुरदृश्यत्वं दीपा इव गतत्विषः
23
Keep
अथ विद्रुतदैत्येन्द्रं दग्धान्तःपुरमण्डलम् ।
बभूव पातालतलं कल्पक्षुण्णजगत्समम्
24
Keep
अकालकल्पान्तविधौ हत्वा दैत्यं शनैर्विभौ ।
क्वापि याते समाश्वस्तसुरसंरम्भपूजिते
25
Keep
मृतशिष्टा दनुसुताः प्रह्रादपरिपालिताः ।
दग्धं तं देशमाजग्मुः सरः शुष्कमिवाण्डजाः
26
Keep
तत्र कालोचितां कृत्वा स्वनाशपरिदेवनाम् ।
और्ध्वदेहिकसत्कारं चक्रुः प्रेतेषु बन्धुषु
27
Keep
हतबन्धुजनं प्लुष्टबन्धुबान्धवमण्डलम् ।
शनैराश्वासयामासुर्मृतशिष्टं स्वकं जनम्
28
Keep
चित्रार्पितोपमदुराकृतयो निरीहा
दीनाशया हि महताम्बुरुहोपमानाः ।
शोकोपतप्तमनसोऽसुरनायकास्ते
दग्धद्रुमा इव निरस्तविकारमासन्
Previous
←
Sarga 29
Next
Sarga 31
→