Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 33
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
गर्जन्तमतिसंरब्धं सुरलोकमथारिहा ।
उवाच माधवो वाक्यं शिखिवृन्दमिवाम्बुदः
2
Keep
श्रीभगवानुवाच ।
विबुधा मा विषण्णाः स्थ प्रह्लादो भक्तिमानिति ।
पाश्चात्यं जन्म तस्येदं मोक्षार्होऽसावरिंदमः
3
Keep
अत उत्तरमेतेन गर्भता दनुजन्मना ।
न कर्तव्या प्रदग्धेन बीजेनेवाङ्कुरक्रिया
4
Keep
गुणवान्निर्गुणो जात इत्यनर्थक्रमं विदुः ।
निर्गुणो गुणवाञ्जात इत्याहुः सिद्धिदं क्रमम्
5
Keep
आत्मीयानि विचित्राणि भुवनान्यमरोत्तमाः ।
प्रयात नासुखायैषा प्राह्लादी गुणितेह वः
6
Keep
इत्युक्त्वा विबुधांस्तत्र क्षीरोदार्णववीचिषु ।
अन्तर्धानं ययौ देवस्तटतापिच्छगुच्छवत्
7
Keep
सोऽपि संपूजितहरिः सुरौघो व्रजदम्बरम् ।
पुनर्मन्दरनिर्धूतात्कणजालमिवार्णवात्
8
Keep
प्रह्लादं प्रति गीर्वाणास्ततः स्निग्धत्वमाययुः ।
महान्तो यत्र नोद्विग्नास्तत्र विश्वासवन्मनः
9
Keep
प्रत्यहं पूजयामास देवदेवं जनार्दनम् ।
मनसा कर्मणा वाचा प्रह्लादो भक्तिमानिति
10
Keep
अथ पूजापरस्यास्य समवर्धन्त कालतः ।
विवेकानन्दवैराग्यविभवप्रमुखा गुणाः
11
Keep
नाभ्यनन्ददसौ भोगपूगं शुष्कमिव द्रुमम् ।
न चारमत कान्तासु मृगो लोकमहीष्विव
12
Keep
न रेमे लोकचर्यासु शास्त्रार्थकथनादृते ।
न जायते रतिस्तस्य दृश्ये स्थल इवाजिनी
13
Keep
न विशश्राम चेतोऽस्य भोगरोगानुरञ्जने ।
मुक्ताफलमसंश्लिष्टं मुक्ताफल इवामले
14
Keep
त्यक्तभोगादिकलनं विश्रान्तिमनुपागतम् ।
चेतः केवलमस्यासीद्दोलायामिव योजितम्
15
Keep
प्राह्लादीं तां स्थितिं विष्णुर्देवः क्षीरोदमन्दिरात् ।
विवेद सर्वगतया धिया परमकान्तया
16
Keep
अथ पातालमार्गेण विष्णुराह्लादिताग्रतः ।
पूजादेवगृहं तस्य प्रह्लादस्य समाययौ
17
Keep
विज्ञायाभ्यागतं देवं पूजया द्विगुणेद्धया ।
दैत्येन्द्रः पुण्डरीकाक्षमादरात्पर्यपूजयत्
18
Keep
पूजागृहगतं देवं प्रत्यक्षावस्थितं हरिम् ।
प्रह्लादः परमप्रीतो गिरा तुष्टाव पुष्टया
19
Keep
त्रिभुवनभवनाभिरामकोशं सकलकलङ्कहरं परं प्रकाशम् ।
अशरणशरणं शरण्यमीशं हरिमजमच्युतमीश्वरं प्रपद्ये
20
Keep
कुवलयदलनीलसंनिकाशं शरदमलाम्बरकोटरोपमानम् ।
भ्रमरतिमिरकज्जलाञ्जनाभं सरसिजचक्रगदाधरं प्रपद्ये
21
Keep
विमलमलिकलापकोमलाङ्गं सितदलपङ्कजकुड्मलाभशङ्खम् ।
श्रुतिरणितविरञ्चिचञ्चरीकं स्वहृदयपद्मदलाश्रयं प्रपद्ये
22
Keep
सितनखगणतारकावकीर्णं स्मितधवलाननपीवरेन्दुबिम्बम् ।
हृदयमणिमरीचिजालगङ्गं हरिशरदम्बरमाततं प्रपद्ये
23
Keep
अविरलकृतसृष्टिसर्वलीनं सततमजातमवर्धनं विशालम् ।
गुणशतजरठाभिजातदेहं तरुदलशायिनमर्भकं प्रपद्ये
24
Keep
नवविकसितपद्मरेणुगौरं स्फुटकमलावपुषा विभूषिताङ्गम् ।
दिनशमसमयारुणाङ्गरागं कनकनिभाम्बरसुन्दरं प्रपद्ये
25
Keep
दितिसुतनलिनीतुषारपातं सुरनलिनीसततोदितार्कबिम्बम् ।
कमलजनलिनीजलावपूरं हृदि नलिनीनिलयं विभुं प्रपद्ये
26
Keep
त्रिभुवननलिनीसितारविन्दं तिमिरसमानविमोहदीपमग्र्यम् ।
स्फुटतरमजडं चिदात्मतत्त्वं जगदखिलार्तिहरं हरिं प्रपद्ये
27
Keep
इति गुणबहुलाभिर्वाग्भिरभ्यर्चितोऽसौ हरिरसुरविनाशः श्रीनिषण्णांसदेशः ।
जलद इव मयूरं प्रीतिमान्प्रीयमाणं कुवलयदलनीलः प्रत्युवाचासुरेन्द्रम्
Previous
←
Sarga 32
Next
Sarga 34
→