Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 39
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
इति संचिन्त्य सर्वात्मा
क्षीरोदादात्मकात्पुरा
त् ।
चचाल परिवारेण सह सानुरिवाचलः
2
Keep
क्षीरोदतलरन्ध्रेण तेनैव
स्तम्भिताम्भ
सा ।
प्रह्लादनगरं प्राप शक्रलोकमिवापरम्
3
Keep
हेममन्दिरकोशस्थं ददर्शात्रासुरं
ह
रिः ।
अथ शैलगुहालीनं समाधिस्थमिवाब्जजम्
4
Keep
तत्र ते तेजसा दैत्या
वैष्णवेनावधूलि
ता ।
दूरं ययुर्दिनेशांशुवित्रस्ता इव कौशिकाः
5
Keep
द्वित्रैः सहासुरैर्मुख्यैः परिवारयुतो
ह
रिः ।
प्रविवेशासुरगृहं तारावानिव खं शशी
6
Keep
वैनतेयासनस्थोऽसौ
लक्ष्मीविधुतचाम
रः ।
स्वायुधादिपरीवारो देवर्षिमुनिवन्दितः
7
Keep
महात्मन्संप्रबुध्यस्वेत्येवं
विष्णुरुदाहर
न् ।
पाञ्चजन्यं प्रदध्मौ च ध्वनयन्ककुभां गणम्
8
Keep
महता तेन शब्देन
वैष्णवप्राणजन्म
ना ।
तुल्यकालपरिक्षुब्धकल्पाभ्रार्णवरंहसा
9
Keep
आसुरी जनता भूमौ
पपातागतसंभ्र
मा ।
मत्तलीलाभ्रनादेन राजहंसावली यथा
10
Keep
जहर्ष जनितानन्दा वैष्णवी
गतसंभ्र
मा ।
जनता जलदध्वानफुल्लेव कुटजावली
11
Keep
बभूव संप्रबुद्धात्मा दानवेशः
शनैःश
नैः ।
मेघावसर उत्फुल्लकदम्ब इव कानने
12
Keep
ब्रह्मरन्ध्रकृतोत्थाना
प्राणशक्तिरथासुर
म् ।
शनैराक्रमयामास गङ्गा सर्वमिवार्णवम्
13
Keep
क्षणादाक्रमयामास प्राणश्रीः
सर्वतोऽसुर
म् ।
उदयानन्तरं सौरी प्रभेव भुवनान्तरम्
14
Keep
प्राणेषु रन्ध्रनवके प्रवृत्तेष्वथ तस्य
चि
त् ।
चेत्योन्मुखी बभूवान्तः प्राणदर्पणबिम्बिता
15
Keep
चेतनीयोन्मुखी चेत्यं
चिन्मनस्तामुपाय
यौ ।
द्वित्वं मुकुरसंक्रान्ता मुखश्रीरिव राघव
16
Keep
किंचिदङ्कुरिते चित्ते नेत्रे
विकसनोन्मु
खे ।
शनैर्बभूवतुस्तस्य प्रातर्नीले यथोत्पले
17
Keep
प्राणापानपरामृष्टानाडीविवरसंवि
दः ।
वातार्तस्येव पद्मस्य स्पन्दोऽस्य समजायत
18
Keep
निमेषान्तरमात्रेण मनः पीवरतां
य
यौ ।
तस्मिन्प्राणवशात्पूर्णे तरङ्ग इव वारिणि
19
Keep
अथासौ
विकसन्नेत्रमनःप्राणवपुर्ब
भौ ।
अर्धोदित इवादित्ये सरः स्फुरितपङ्कजम्
20
Keep
अस्मिन्नवसरे
यावद्बुध्यस्वेत्यवदद्वि
भुः ।
प्रबुद्धस्तावदेषोऽभूद्बर्ही घनरवादिव
21
Keep
प्रफुल्लनयनं जातमननं
पीवरस्मृति
म् ।
उवाचैनं त्रिलोकेशः पुरा नाभ्यब्जजं यथा
22
Keep
साधो स्मर महालक्ष्मीमात्मीयां स्मर
चाकृति
म् ।
अकाण्ड एव किं देहविरामः क्रियते त्वया
23
Keep
हेयोपादेयसंकल्पविहीनस्य
शरीर
गैः ।
भावाभावैस्तवार्थः किमुत्तिष्ठोत्तिष्ठ संप्रति
24
Keep
स्थातव्यमिह देहेन कल्पं यावदनेन
ते ।
वयं हि नियतिं विद्मो यथाभूतामनिन्दिताम्
25
Keep
जीवन्मुक्तेन भवता राज्य एवेह
तिष्ठ
ता ।
क्षेपणीया गतोद्वेगमाकल्पान्तमियं तनुः
26
Keep
तन्वां कल्पान्तशीर्णायां स्वे महिम्नि
त्वयान
घ ।
वस्तव्यं स्फुटिते कुम्भे कुम्भाकाशेन खे यथा
27
Keep
कल्पान्तस्थायिनी शुद्धा
दृष्टलोकपराव
रा ।
इयं तव तनुर्जाता जीवन्मुक्तविलासिनी
28
Keep
नोदिता द्वादशादित्या न प्रलीनाः
शिलोच्च
याः ।
न जगज्ज्वलितं साधो तनुं त्यजसि किं मुधा
29
Keep
वायुर्वहति
नोन्मत्तस्त्रिलोकीभस्मधूस
रः ।
लोलामरकपालाङ्कस्तनुं त्यजसि किं मुधा
30
Keep
अशोक इव मञ्जर्यः
पुष्करावर्तविद्यु
तः ।
न स्फुरन्ति जगत्कोशे तनुं त्यजसि किं मुधा
31
Keep
धरासाररणच्छैलाः
प्रज्वलज्ज्वलनोज्ज्व
लाः ।
ककुभो न विशीर्यन्ते तनुं त्यजसि किं मुधा
32
Keep
न ब्रह्मविष्णुरुद्राख्यत्रयीशेषमिदं
स्थित
म् ।
जगज्जरठजीमूतं तनुं त्यजसि किं मुधा
33
Keep
न
चेहाद्रिदलश्रेणिमात्रैकानुमितान्त
राः ।
दिशो जर्जरतां यातास्तनुं त्यजसि किं मुधा
34
Keep
स्फुटदद्रीन्द्रटंकाराः कराः सौरा भ्रमन्ति
खे ।
कल्पाभ्राणि न गर्जन्ति तनुं त्यजसि किं मुधा
35
Keep
अहं भूतावकीर्णासु सालोकासु
खगध्व
जः ।
विहरामि दशाशासु मा देहमवधीरय
36
Keep
इमे वयमिमे शैला भूतानीमान्ययं
भवा
न् ।
इदं जगदिदं व्योम मा देहमवधीरय
37
Keep
पीवराज्ञानयोगेन यस्य पर्याकुलं
म
नः ।
दुःखानि विनिकृन्तन्ति मरण तस्य राजते
38
Keep
कृशोऽतिदुःखी मूढोऽहमेताश्चान्याश्च
भाव
नाः ।
मतिं यस्यावलुम्पन्ति मरणं तस्य राजते
39
Keep
आशापाशनिबद्धोऽन्तरितश्चेतश्च
नीय
ते ।
यो विलोलमनोवृत्त्या मरणं तस्य राजते
40
Keep
यस्य तृष्णाः प्रभञ्जन्ति हृदयं
हृतभाव
नाः ।
प्ररोहमिव गर्धेभ्यो मरणं तस्य राजते
41
Keep
चित्तवृत्तिलता यस्य
तालोत्तालमनोव
ने ।
फलिता सुखदुःखाभ्यां मरणं तस्य राजते
42
Keep
रोमराजीलताजालं यस्येमं
देहदुर्द्रुम
म् ।
अनर्थौघो हरत्युच्चैर्मरणं तस्य राजते
43
Keep
यस्य
स्वदेहविपिनमाधिव्याधिदवाग्न
यः ।
दहन्ति लोलाङ्गलतं मरणं तस्य राजते
44
Keep
कामकोपात्मका यस्य
स्फूर्जन्त्यजगरास्त
नौ ।
अन्तःशुष्कद्रुमस्येव मरण तस्य राजते
45
Keep
योऽयं देहपरित्यागस्तल्लोके मरणं
स्मृत
म् ।
न सता नासता तेन कारणं वेद्यवेदनम्
46
Keep
यस्य नोत्क्रामति मतिः
स्वात्मतत्त्वावलोकना
त् ।
यथार्थदर्शिनो ज्ञस्य जीवितं तस्य शोभते
47
Keep
यस्य नाहंकृतो भावो बुद्धिर्यस्य न
लिप्य
ते ।
यः समः सर्वभावेषु जीवितं तस्य राजते
48
Keep
योऽन्तःशीतलया बुद्ध्या
रागद्वेषविमुक्त
या ।
साक्षिवत्पश्यतीदं हि जीवितं तस्य राजते
49
Keep
येन सम्यक्परिज्ञाय
हेयोपादेयमुज्झ
ता ।
चित्तस्यान्तेऽर्पितं चित्तं जीवितं तस्य शोभते
50
Keep
अवस्तुसदृशे वस्तुन्यसक्तं
कलनाम
ले ।
येन लीनं कृतं चेतो जीवितं तस्य शोभते
51
Keep
सत्यां दृष्टिमवष्टभ्य लीलयेयं
जगत्क्रि
या ।
क्रियतेऽवासनं येन जीवितं तस्य राजते
52
Keep
नान्तस्तुष्यति नोद्वेगमेति यो
विहरन्न
पि ।
हेयोपादेयसंप्राप्तौ जीवितं तस्य शोभते
53
Keep
शुद्धपक्षस्य शुद्धस्य हंसौघः सरसो
य
था ।
यस्माद्गुणौघो निर्याति जीवितं तस्य शोभते
54
Keep
यस्मिन्श्रुतिपथं प्राप्ते दृष्टे
स्मृतिमुपाग
ते ।
आनन्दं यान्ति भूतानि जीवितं तस्य शोभते
55
Keep
यस्योदयेषु हृदयेन जनाम्बुजानि
जीवालिमन्ति सकलानि
विलासवन्
ति ।
तस्यैव भाति परिजीवितमक्षयेन्दो-
रापूर्णतेव दनुजेश्वर नेतरस्य
Previous
←
Sarga 38
Next
Sarga 40
→