Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 40
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
श्रीभगवानुवा
च ।
स्थैर्यं देहस्य दृष्टस्य जीवितं प्रोच्यते
ज
नैः ।
देहान्तरार्थं देहस्य संत्यागो मरणं स्मृतम्
2
Keep
द्वाभ्यां चैवासि पक्षाभ्यामाभ्यां मुक्तो
महाम
ते ।
किं ते मरणमस्तीह किं वा जीवितमस्ति ते
3
Keep
निदर्शनार्थमेतत्तु
मयोक्तमरिमर्द
न ।
न त्वं जीवसि सर्वज्ञ म्रियसे न कदाचन
4
Keep
देहसंस्थोऽप्यदेहत्वाददेहोऽसि
विदेहदृ
क् ।
व्योमसंस्थोऽप्यसक्तत्वादव्योमेव हि मारुतः
5
Keep
स्पर्शसंबोधकारित्वाद्देह एवास्ति
सुव्र
त ।
उत्सेधारोधकत्वेन खमुत्सेधस्य कारणम्
6
Keep
प्रबुद्धो ज्ञातवस्तुत्वाद्देहः क्व
शमिनामि
ह ।
इदं त्वेकं परिच्छिन्नं रूपमज्ञेषु दुःस्थितम्
7
Keep
सर्वदा सर्वमेवासि चित्प्रकाशः
परैक
धीः ।
को देहः कोऽप्यदेहस्ते यं गृह्णासि जहासि च
8
Keep
समुदेतु वसन्तो वा वातु वा
प्रलयानि
लः ।
भावाभावविहीनस्य किमभ्यागतमात्मनः
9
Keep
प्रलुठत्स्वपि शैलेषु कल्पाग्निषु
दहत्स्व
पि ।
वहत्सूत्पातवातेषु स्वात्मन्येव हि तिष्ठति
10
Keep
सर्वभूतानि तिष्ठन्तु सर्वमेव प्रयातु
वा ।
नश्यन्तु वाथ वर्धन्तामात्मन्येवाभितिष्ठति
11
Keep
क्षीयते न क्षयं प्राप्ते वर्धमाने न
वर्ध
ते ।
न स्पन्दते स्पन्दमाने देहेऽस्मिन्परमेश्वरः
12
Keep
देहस्याहमहं देहीति क्षीणे
चित्तविभ्र
मे ।
त्यजामि न त्यजामीति किं मुधा कलनोदिता
23
Keep
इदं कृत्वा करोमीदमिदं
त्यक्त्वेदमित्यल
म् ।
इति तत्त्वविदां तात संकल्पाः संक्षयं गताः
14
Keep
प्रबुद्धाः सर्वकर्तारः करिष्यन्तीह
किंच
न ।
न तस्याकरणे नित्यमकर्तृत्वपदं गताः
15
Keep
अकर्तृत्वादभोक्तृत्वमर्थादेव
समागत
म् ।
संगृहीतं किलानुप्तं केनेह भुवनत्रये
16
Keep
शान्ते कर्तृत्वभोक्तृत्वे शान्तिरेवेह
शिष्य
ते ।
प्रौढिमभ्यागता सैव मुक्तिरित्युच्यते बुधैः
17
Keep
प्रबुद्धाश्चिन्मयाः शुद्धाः सर्वमाक्रम्य
संस्थि
ताः ।
किं त्यक्तं परिगृह्णन्तु किं गृहीतं त्यजन्तु वा
18
Keep
ग्राह्यग्राहकसंबन्धप्रमितावयविक्र
मैः ।
हीनः प्रमेयावयवैः किं गृह्णातु जहातु किम्
19
Keep
ग्राह्यग्राहकसंबन्धे क्षीणे
शान्तिरुदेत्यल
म् ।
स्थितिमभ्यागता शान्तिर्मोक्षनाम्नाभिधीयते
20
Keep
तत्र स्थिताः सदा शान्तास्त्वादृशाः
पुरुषोत्त
माः ।
सुषुप्तावयवस्पन्दसाधर्म्येण चरन्ति हि
21
Keep
परावबोधविश्रान्तवासनो जगति
स्थिति
म् । ।
अर्धसुप्त इवेहेमां त्वं पश्यात्मस्थया धिया
22
Keep
न रमन्ते हि रम्येषु स्वात्मन्येव
गताश
याः । ।
नोद्विजन्तेऽन्यदुःखेषु स्वात्मन्येकरसायनाः
23-2
Keep
नित्यप्रबुद्धा गृह्णन्ति
कार्याणीमान्यसङ्गि
नः ।
मुकुरा इव बिम्बानि यथाप्राप्तान्यवाञ्छया
24
Keep
जाग्रति स्वात्मनि स्वस्थाः सुप्ताः
संसारसंस्थि
तौ ।
बालवत्प्रविवेपन्ते सुषुप्तसदृशाशयाः
25
Keep
त्वमजितपदवीमुपागतोऽन्तः
कमलजवासरमेकमेव
भुक्त्
वा ।
गुणगणकलितामिहैव लक्ष्मीं
व्रज परमास्पदमच्युतं महात्मन्
Previous
←
Sarga 39
Next
Sarga 41
→