Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 42
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
इत्युक्त्वा पुण्डरीकाक्षः सनरामरकिन्नरः ।
द्वितीय इव संसारश्चचालासुरमन्दिरात्
2
Keep
प्रह्रादादिविनिर्मुक्तैः पश्चात्पुष्पाञ्जलिव्रजैः ।
पूर्यमाणो विहङ्गेशपाश्चात्याङ्गरुहोत्करैः
3
Keep
क्रमात्क्षीरोदमासाद्य विसृज्य सुरवाहिनीम् ।
भोगिभोगासने तस्थौ श्वेताब्ज इव षट्पदः
4
Keep
भोगिभोगासने विष्णुः शक्रः स्वर्गे सहामरैः ।
पाताले दानवाधीश इति तस्थुर्गतज्वराः
5
Keep
एषा ते कथिता राम निःशेषमलनाशिनी ।
प्राह्रादी बोधसंप्राप्तिरैन्दवद्रवशीतला
6
Keep
तां तु ये मानवा लोके बहुदुष्कृतिनोऽपि हि ।
धिया विचारयिष्यन्ति ते प्राप्स्यन्त्यचिरात्पदम्
7
Keep
सामान्येन विचारेण क्षयमायाति दुष्कृतम् ।
योगवाक्यविचारेण को न याति परं पदम्
8
Keep
अज्ञानमुच्यते पापं तद्विचारेण नश्यति ।
पापमूलच्छिदं तस्माद्विचारं न परित्यजेत्
9
Keep
इमां प्रह्रादसंसिद्धिं प्रविचारयता नृणाम् ।
सप्तजन्मकृतं पापं क्षयमायात्यसंशयम्
10
Keep
परे पदे परिणतं पाञ्चजन्यस्वनैर्मनः ।
कथं प्रबुद्धं भगवन्प्रहादस्य महात्मनः
11
Keep
द्विविधा मुक्तता लोके संभवत्यनघाकृते ।
सदेहैका विदेहान्या विभागोऽयं तयोः शृणु
12
Keep
असंसक्तमतेर्यस्य त्यागादानेषु कर्मणाम् ।
नैषणा तत्स्थितिं विद्धि त्वं जीवन्मुक्ततामिह
13
Keep
सैव देहक्षये राम पुनर्जननवर्जिता ।
विदेहमुक्तता प्रोक्ता तत्स्था नायान्ति दृश्यताम्
14
Keep
भृष्टबीजोपमा भूयो जन्माङ्कुरविवर्जिताः ।
हृदि जीवद्विमुक्तानां शुद्धा भवति वासना
15
Keep
पावनी परमोदारा शुद्धसत्त्वानुपातिनी ।
आत्मध्यानमयी नित्यं सुषुप्तस्येव तिष्ठति
55
Keep
अपि वर्षसहस्रान्ते तयेवान्तरवस्थया ।
सति देहे प्रबुध्यन्ते जीवन्मुक्ता रघूद्वह
17
Keep
प्रह्रादोऽन्तस्थया शुद्धसत्त्ववासनया स्वया ।
बोधमाप महाबाहो शङ्खशब्दावबुद्धया
18
Keep
हरिरात्मा हि भूतानां तस्य यत्प्रतिभासते ।
तत्तथैव भवत्याशु सर्वमात्मैव कारणम्
19
Keep
प्रबोधमेतु प्रह्रादो यदैवेति विचिन्तितम् ।
निमेषाद्वासुदेवेन तदैवैतदुपस्थितम्
20
Keep
आत्मन्यकारणेनैव भूतानां कारणेन च ।
सृष्ट्यर्थं वपुरात्तं हि वासुदेवमयात्मना
21
Keep
आत्मावलोकनेनाशु माधवः परिदृश्यते ।
माधवाराधनेनाशु स्वयमात्मावलोक्यते
22
Keep
एतां दृष्टिमवष्टभ्य राघवात्मावलोकने ।
विहराशु विचारात्मा पदं प्राप्स्यसि शाश्वतम्
23
Keep
दुःखासारवती राम संसारप्रावृडातता ।
जाड्यं ददाति परमं विचारार्कमपश्यताम्
24
Keep
प्रसादादात्मनो विष्णोर्मायेयमतिभासुरा ।
प्रबाधते न धीरांस्तु यक्षी मन्त्रवतो यथा
25
Keep
आत्मेच्छयैव घनतां समुपागतान्त-
रात्मेच्छयैव तनुतामुपयाति काले ।
संसारजालरचनेयमनन्तमाया-
ज्वालेह वातवलयादिव पावकस्य
Previous
←
Sarga 41
Next
Sarga 43
→