Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 44
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
2
Keep
रामापर्यवसानेयं माया
संसृतिनामि
का ।
आत्मचित्तजयेनैव क्षयमायाति
नान्य
था । ।
जगन्मायाप्रपञ्चस्य
वैचित्र्यप्रतिपत्त
ये ।
इतिहासमिमं वक्ष्ये श्रृणुष्वावहितोऽनघ
3
Keep
अस्त्यस्मिन्वसुधापीठे कोसलो नाम
मण्ड
लः ।
कल्पवृक्षवनं मेराविव रत्नगणाकरः
4
Keep
तत्राभूद्ब्राह्मणः कश्चिद्गुणी गाधिरिति
श्रु
तः ।
परमश्रोत्रियो धीमान्धर्ममूर्तिरिव स्थितः
5
Keep
आबाल्यात्प्रविरक्तेन चेतसा स
व्यराज
त ।
निष्कलङ्कावदातेन भुवनं नभसा यथा
6
Keep
किमप्यभिमतं कार्यं विनिधाय
स्वचेत
सि ।
बन्धुवृन्दाद्विनिष्क्रम्य तपस्तप्तुं वनं ययौ
7
Keep
उत्फुल्लकमलं प्राप सरस्तत्र स
विप्ररा
ट् ।
चन्द्रः प्रसन्नविमलं तारासारमिवाम्बरम्
8
Keep
आशौरिदर्शनं तस्मिंस्तपोर्थं सरसि
द्वि
जः ।
आकण्ठमम्बुनिर्मग्नः प्रावृट्पद्म इवाविशत्
9
Keep
ययौ मासाष्टकं तस्य मग्नस्य
सरसोऽम्भ
सि ।
वासपङ्कजसंकोचमनाग्भग्नमुखच्छवेः
10
Keep
अथैनं तपसा तप्तमाजगामैकदा
ह
रिः ।
निदाघार्तं घनः श्यामः प्रावृषीव धरातलम्
11
Keep
श्रीभगवानुवा
च ।
विप्रोत्तिष्ठ पयोमध्याद्गृहाणाभिमतं
वर
म् ।
अभीप्सितफलोपेतो जातस्ते नियमद्रुमः
12
Keep
असंख्येयजगद्भूतहृत्पद्मकुहरालि
ने ।
जगत्त्रयेकनलिनीसरसे विष्णवे नमः
13
Keep
मायामिमां त्वद्रचितां
भगवन्पारमात्मिकी
म् ।
द्रष्टुमिच्छामि संसारनाम्नीमान्ध्यैककारिणीम्
14
Keep
इमां द्रक्ष्यसि मायां त्वं ततस्त्यक्ष्यसि
चेत्य
जः ।
उक्त्वा ययावदृश्यत्वं गान्धर्वमिव पत्तनम्
15
Keep
गते विष्णौ समुत्तस्थौ जलात्स
ब्राह्मणेश्व
रः ।
शीतलामलमूर्तित्वादिन्दुः क्षीरोदकादिव
16
Keep
बभूव परितुष्टात्मा दर्शनेन
जगत्प
तेः ।
दर्शनस्पर्शनैरिन्दोरुत्फुल्लमिव कैरवम्
17
Keep
अथास्य कतिचित्तस्मिन्दिवसा
निर्ययुर्व
ने ।
हरिसंदर्शनानन्दवतो ब्राह्मणकर्मणा
18
Keep
एकदारब्धवान्स्नानं
सरस्युदितपङ्क
जे ।
चिन्तयन्वैष्णवं वाक्यं महर्षिरिव मानसे
19
Keep
अथ स्नानविधावन्तर्जलमेष चकार
ह ।
सकलाघविघातार्थं परिवर्तमिवात्मना
20
Keep
अन्तर्जलविधौ
तस्मिन्विस्मृतध्यानमन्त्र
धीः ।
पर्यस्तसंवित्प्रसरः सोऽपश्यज्जलमध्यतः
21
Keep
मृतमात्मानमात्मीये सदने शोच्यतां
गत
म् ।
पतितं वातवेगेन कन्दरान्तरिव द्रुमम्
22
Keep
प्राणापानप्रवाहेण
मुक्तमन्तमुपागत
म् ।
संशान्तावयवस्पन्दं निर्वात इव खण्डकम्
23
Keep
पाण्डुराननमाम्लानं
वृक्षपर्णमिवारस
म् ।
शवीभूतमिवाग्लानं छिन्ननालमिवाम्बुजम्
24
Keep
विपर्यस्तेक्षणं
प्रातर्मग्नतारमिवाम्बर
म् ।
सावग्रहमिव ग्रामं सर्वतः पांसुधूसरम्
25
Keep
बाष्पक्लिन्नमुखैर्दीनैः
करुणाक्रन्दकारि
भिः ।
आवृतं बन्धुभिः खिन्नैः कुररैरिव पादपम्
26
Keep
सेतुभंगगलद्वारिह्रियमाणमुखाब्ज
या ।
नलिन्या समधर्मिण्या भार्यया पादयोः श्रितम्
27
Keep
ताराक्रन्दरणद्रेफप्रलापालापलुब्ध
या ।
मात्रा गृहीतं चिबुके नवव्यञ्जनलाञ्छिते
28
Keep
अन्यैः पार्श्वगतैर्दीनैः
स्रवदश्रुमुखैर्ज
नैः ।
श्रितं गलदवश्यायैः शुष्कपर्णैरिव द्रुमम्
29
Keep
वियोगभीत्या
संयोगपरिहारपरैरि
व ।
दूरं विप्रसृतैरङ्गैरनात्मीयैरिवावृतम्
30
Keep
परस्परमलग्नाभ्यामोष्ठाभ्यां दशनैः
सि
तैः ।
सविरागमिवाम्लानैर्हसन्तं स्वात्मजीवितम्
31
Keep
मौनध्यानमिवापन्नं पङ्कादिव
विनिर्मित
म् ।
अप्रबोधाय संसुप्तं विश्राम्यन्तमिवोच्चकैः
32
Keep
बान्धवाक्रन्दसंरम्भकोलाहलगता
गि
रः ।
स्नेहभावविचारार्थं श्रृण्वन्तमिव यत्नतः
33
Keep
अथ
तत्कालकल्लोलप्रलापाकुलचेष्टि
तैः ।
सोरस्ताडनमूर्च्छोत्थनेत्रवारिवहाप्लुतैः
34
Keep
क्रमेण स्वजनैः
क्षुब्धैस्ताराक्रन्दादिघर्घ
रैः ।
निष्कालितममङ्गल्यमपुनर्दर्शनाय वै
35
Keep
नीतं श्मशानं
मांसान्त्रवसापङ्ककलङ्कित
म् ।
शुष्काशुष्करसक्लिन्नं कंकालशतसंकुलम्
36
Keep
गृध्राभ्रच्छन्नसूर्यांशुचिताज्वलननिस्त
मः ।
शिवाशिवमुखज्वालाजालपल्लवितावनि
37
Keep
वहद्रक्तसरित्स्नातमग्नकङ्कोग्रवायस
म् ।
रक्तार्द्रतन्त्रीप्रसरजालाबद्धजरत्खगम्
38
Keep
तत्र ते ज्वलने दीप्ते चक्रुस्तं
भस्मसाच्छव
म् ।
बान्धवाः सलिलापूरं समुद्रा इव वाडवे
39
Keep
चितिश्चटचटास्फोटैः शवमाशु ददाह
सा ।
शुष्केन्धनबहूच्छूनज्वालाजालजटावली
40
Keep
अभ्युल्लसत्कटकटारवमुक्तगन्ध-
व्याप्ताम्बुवाहपटलोऽस्थिचयं
हुता
शः ।
दन्ती सरन्ध्रमिव वेणुवनं समन्ता-
दुद्वान्तमेदुररसं दलयांचकार
Previous
←
Sarga 43
Next
Sarga 45
→