Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 46
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
विलासिनीभिर्वलितो मन्त्रिमण्डलपूजितः ।
वन्दितः सर्वसामन्तैश्छत्रचामरलालितः
2
Keep
सिद्धानुशासनः कान्तो ज्ञातराज्यगुणक्रमः ।
वीतशोकभयायासप्रज्ञः प्राप्तमहादशः
3
Keep
विस्मृतात्मस्वभावोऽभूदनिशं स्तवमङ्गलैः ।
आनन्दपूर्णया वृत्त्या भृशं क्षीव इवासवैः
4
Keep
कीरेषु श्वपचो राज्यं वर्षाण्यष्टौ चकार ह ।
आर्यवृत्तमशेषेण तावत्कालं बभार ह
5
Keep
यदृच्छयैकदाथासावतिष्ठत्त्यक्तभूषणः ।
अतमस्तारकेन्द्वर्कतेजोऽम्भोदमिवाम्बरम्
6
Keep
बह्वमन्यत नो हारकेयूरवलयान्यसौ ।
प्रभुताबृंहितं चेतो नाहार्यमभिनन्दति
7
Keep
एक एवाजिरं बाह्यं तादृग्वेषः स निर्ययौ ।
मुख्याङ्गं णान्नभोभागादस्तं गच्छन्निवांशुमान्
8
Keep
तत्रापश्यद्धनं श्यामं पीनं श्वपचपेटकम् ।
गायन्मृदु वसन्तोत्थं कोकिलानामिव व्रजम्
9
Keep
धुनानं वल्लकीतन्त्रीं करपल्लवलीलया ।
मृदुरेफं रणद्रेफामलिश्रेणिमिव द्रुमम्
10
Keep
एकस्तस्मात्समुत्तस्थौ जरावान्रक्तलोचनः ।
काचश्रृङ्गहिमापूर्णमिव श्वपचनायकः
11
Keep
भो कटंजेति सहसा वदन्कीरमहीपतिम् ।
इह राजा भवन्तं वा कच्चिद्गेयक्रियाविदम्
12
Keep
रक्तकण्ठं मानयति रागवानिव कोकिलम् ।
आपूरयति वा कच्चिद्गृहवस्त्रासनार्पणैः
13
Keep
मधू रसालविटपं फलपुष्पभरैरिव ।
दर्शनेन तवाद्याहं परां निर्वृतिमागतः
14
Keep
पद्मं सूर्योदयेनेव चन्द्रोदय इवौषधी ।
आनन्दानामशेषाणां लाभानां महतामपि
15
Keep
विश्रामाणामनन्तानां सीमान्तो बन्धुदर्शनम् ।
श्वपचे प्रवदत्येवं राजा यावत्तया तया ।
चकार तत्कालजया चेष्टयैवावधीरणम्
16
Keep
तावद्वातायनगताः कान्ताः प्रकृतयस्तथा ।
श्वपचोऽयमिति ज्ञात्वा म्लानतामलमाययुः
17
Keep
पद्मास्तुषारप्रावृष्ट्या ग्रामाः सावग्रहा इव ।
दाववन्त इवाद्रीन्द्रा नागरा न विरेजिरे
18
Keep
नृपोऽवधीरयामास तां तां श्वपचसंकथाम् ।
वृक्षाग्रगतमार्जारफेत्कारं मृगराडिव
19
Keep
सत्वरं प्रविवेशान्तःपुरमाम्लानमानवम् ।
राजहंस इवावर्षे सीदत्सरसिजं सरः
20
Keep
सर्वावयवविश्रान्तां म्लाननामयमाययौ ।
जानुस्तम्भान्तरमहारन्ध्राग्निरिव दुर्द्रुमः
21
Keep
तत्रापश्यदसौ सर्वं विषण्णवदनं जनम् ।
जालं कुङ्कुमपुष्पाणां भुक्तमूलमिवाखुना
22
Keep
मन्त्रिणो नागरा नार्यस्ततस्ते तं महीपतिम् ।
नास्प्राक्षुरपि तिष्ठन्तं गृह एव शवं यथा
23
Keep
भृत्याश्चाकृतसत्कारं दूर एनमथात्यजन् ।
दुःखयुक्ता घनस्नेहा अपि बालाः शवं यथा
24
Keep
अनानन्दमुखं श्यामं शरीरं श्रीविवर्जितम् ।
दग्धं स्थलमिवैनं ते बह्वमन्यन्त नाकुलाः
25
Keep
धूमायमानदेहस्य परितापदशावती ।
नाढौकतास्य जनता पार्श्वमग्निर्गिरेरिव
26
Keep
मन्दोत्साहाः समुद्भूताः सभ्यसंघातवर्जिताः ।
न तदाज्ञाः पदं प्रापुर्भस्मनीवाम्बुविप्रुषः
27
Keep
क्रूरकर्मकराकारात्संगताशुभदायिनः ।
तस्माद्विशेषेण जना राक्षसादिव दुद्रुवुः
28
Keep
एक एव बभूवासौ जनमध्यगतोऽपि सन् ।
अर्थादिगुणनिर्मुक्तः परदेश इवाध्वगः
29
Keep
भृशमालपतेऽप्यस्मे नालापं नागरा ददुः ।
मुक्ताजालयुतायापि कीचकायाध्वगा इव
30
Keep
अथ सर्वे वयं दीर्घकालं श्वपचदूषिताः ।
प्रायश्चित्तैर्न शुद्ध्यामः प्रविशामो हुताशनम्
31
Keep
इति निर्णीय नगरे नागरा मन्त्रिणस्तथा ।
अभितो ज्वालयामासुश्चिताः शुष्केन्धनैधिताः
32
Keep
ज्वलितास्वभितस्तासु तारकास्विव खे तदा ।
बभूव नगरं सर्वमाक्रन्दपरमानवम्
33
Keep
करुणारावमुखरैः कलत्रैर्बाष्पवर्षिभिः ।
अवष्टब्धं ज्वलत्कुण्डोपान्तमन्दरुदत्प्रजम्
34
Keep
अग्निकुण्डप्रविष्टानां मन्त्रिणां भृत्यरोदनैः ।
रुदत्क्रन्ददृढतरमरण्यमिव मारुतैः
35
Keep
चितादीपितविप्रेन्द्रमांसमांसलगन्धया ।
जातनीहारमुत्पातवात्ययावकरोद्धतैः
36
Keep
वातदीर्घवसागन्धदूरानीतखगोर्जितैः ।
चक्रैर्व्योभाभवच्छन्नभास्करं जलदैरिव
37
Keep
वातोद्धूतचितावह्निप्रज्वलद्व्योममण्डलम् ।
उड्डीनाग्निकणव्राततारासारदिगन्तरम्
38
Keep
प्रमत्ततस्करक्रन्दद्वेल्लद्वालकुमारकम् ।
संत्रस्तनागरापास्तजीविताख्यमसंस्थिति
39
Keep
अलक्षितगृहं चौरलुण्ठिताखिलसंचयम् ।
त्यक्तपुत्रकलत्रं तन्मरणव्यग्रनागरम्
40
Keep
तस्मिंस्तथा वर्तमाने कष्टे विधिविपर्यये ।
अशेषजनताशेषकल्पान्तसदृशस्थितौ
41
Keep
राज्यसज्जनसंपर्कपवित्रीकृतधीरधीः ।
गवलश्चिन्तयामास शोकेनाकुलचेतनः
42
Keep
मदर्थे हि कदर्थोऽयं देशेऽस्मिन्स्थितिमागतः ।
अकालकल्पान्तमयः सर्वनायकनाशनः
43
Keep
किं मे जीवितदुःखेन मरणं मे महोत्सवः ।
लोकनिन्द्यस्य दुर्जन्तोर्जीवितान्मरणं वरम्
44
Keep
इति निश्चित्य गवलो ज्वलिते ज्वलने पुनः ।
पतङ्गवदनुद्वेगमकरोदाहुतिं वपुः
45
Keep
तस्मिन्बलाद्गवलनाम्नि हुताशराशौ
देहे पतत्यवयवाकुलतां प्रयाते ।
स्वाङ्गावदाहदहनस्फुरणानुरोधा-
दन्तर्जले झटिति बोधमवाप गाधिः
46
Keep
श्रीवाल्मीकिरुवाच ।
इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायंतनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरैश्च सहाजगाम
Previous
←
Sarga 45
Next
Sarga 47
→