Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 49
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
अथ गाधिर्गते विष्णौ पुनर्भूतादिकं क्रमात् ।
स्वयं मोहविचारार्थं बभ्रामाभ्रमिवाम्बरे
2
Keep
उपलभ्य तथैवात्मवृत्तान्तं जनतस्ततः ।
हरिमाराधयामास पुनरद्रिगुहां गतः
3
Keep
आजगामैनमल्पेन कालेनाथ जनार्दनः ।
सकृदाराधनेनैव माधवो याति बन्धुताम्
4
Keep
उवाच गाधिं भगवान्मयूरमिव वारिदः ।
किं त्वं प्रार्थयसे भूयस्तपसेति प्रसादवान्
5
Keep
गाधिरुवाच ।
भ्रान्तोऽस्मि देव षण्मासान्भूतकीरजनास्पदम् ।
तत्र व्यभिचरत्यस्मद्वृत्तान्तो न कथास्वपि
6
Keep
मायया भूतभूर्दृष्टा त्वयेत्युक्तोऽस्मि किं प्रभो ।
मोहनाशाय महतां वचो नो मोहवृद्धये
7
Keep
श्रीभगवानुवाच ।
काकतालीययोगेन चेतसि श्वपचस्थितिः ।
सर्वेषां भूतकीराणां तवेव प्रतिबिम्बति
8
Keep
तेनाङ्ग तव वृत्तान्तं यथावत्कथयन्ति ते ।
प्रतिभासो हि नायाति पुनरप्रतिभासताम्
9
Keep
केनचिच्छ्वपचेनान्ते ग्रामस्य रचितं गृहम् ।
तत्त्वया दृष्टमाविष्टमिष्टकाखण्डतां गतम्
10
Keep
कदाचित्प्रतिभैकैव बहूनामपि जायते ।
काकोलतालस्थितिवद्विचित्रा हि मनोगतिः
11
Keep
तथाहि बहवः स्वप्नमेकं पश्यन्ति मानवाः ।
स्वापभ्रमदमैरेयमदमन्थरचित्तवत्
12
Keep
एकस्यामेव लीलायां रमन्ते बहुबालकाः ।
एकस्यामेव नीलायां वनस्थल्यामिवैणकाः
13
Keep
वहवस्तुल्यकालं च प्रतिभासेन कर्मणाम् ।
जना यतन्ते स्वफलपाकेऽतिबहुलाकृतौ
14
Keep
प्रतिबन्धाभ्यनुज्ञानां कालो दातेति या श्रुतिः ।
विप्र संकल्पमात्रोऽसौ कालो ह्यात्मनि तिष्ठति
15
Keep
अमूर्तो भगवान्कालो ब्रह्मैव तमजं विदुः ।
न जहाति न चादत्ते किंचित्कस्य कदेति च
16
Keep
लौकिको यस्त्वयं कालो वर्षकल्पयुगात्मकः ।
संकल्प्यते पदार्थौघैः पदार्थौघश्च तेन तु
17
Keep
समानप्रतिभासोत्थसंभ्रमं भ्रान्तचेतसः ।
तथा तं दृष्टवन्तस्ते भूतकीरजनोच्चयाः
18
Keep
स्वव्यापारपरो भूत्वा धियात्मानं विचारय ।
साधो गतमनोमोहमिहैवास्व व्रजाम्यहम्
19
Keep
इत्युक्त्वा भगवान्विष्णुर्जगामान्तर्धिमीश्वरः ।
अतिष्ठत्कन्दरे गाधिराधिपीवरया धिया
20
Keep
ततः कतिपयेष्वद्रौ मासेष्वतिगतेषु सः ।
पुनराराधयामास पुण्डरीककरं द्विजः
21
Keep
ददर्श चैकदा नाथमागतं प्रणनाम तम् ।
पूजयामास मनसा चोक्तेनोवाच चेश्वरम्
22
Keep
गाधिरुवाच ।
भगवन्संस्मरंश्चैतामात्मनः श्वपचस्थितम् ।
इमां संसारमायां च परिमुह्यामि चेतसा
23
Keep
तदुक्त्वास्व यथावस्तु महामोहनिवृत्तये ।
एकस्मिन्नेव विमले मां नियोजय कर्मणि
24
Keep
श्रीभगवानुवाच ।
ब्रह्मन् जगदिदं मायामहाशम्बरडम्बरम् ।
सर्वा आश्चर्यकलनाः संभवन्तीह विस्मृतेः
25
Keep
भूतकीरपुरे मोहाद्दृष्टवांस्तत्तथा भवान् ।
इत्येतत्संभवत्येव दृश्यते हि जनैर्भ्रमः
26
Keep
भूतास्त्वमिव कीराश्च दृष्टवन्तस्तथा भ्रमम् ।
मुधैवेत्यपि सत्याभं समकालादिसंभवात्
27
Keep
इदं तु शृणु वक्ष्यामि यथाभूतमनिन्दितम् ।
यथैति तनुतां चिन्ता मार्गशीर्षलतेव ते
28
Keep
योऽसौ कटंजको नाम श्वपचो भूतमण्डले ।
तेनैव संनिवेशेन स तथैवाभवत्पुरा
29
Keep
तथैव विकलत्रत्वं प्राप्य देशान्तरं गतः ।
बभूव कीरनृपतिः प्रविवेशानलं ततः
30
Keep
भवतः केवलं चित्ते जलान्तर्वर्तिनस्तदा ।
प्रतिभाता तथाभूता कटंजाचारसंस्थितिः
31
Keep
द्रष्टानुभूतमप्यर्थं कदाचिद्विस्मरत्यलम् ।
कदाचिदप्यदृष्टं तु चेतः पश्यति दृष्टवत्
32
Keep
यथा स्वप्नमनोराज्यधातुसंस्थितिविभ्रमाः ।
जाग्रत्यपि तथैवाङ्ग दृश्यन्ते मनसा स्वयम्
33
Keep
भविष्यद्भूतकालस्थं यथा त्रैकाल्यदर्शिनः ।
प्रतिभाभेति गाधे यत्कटंजाचरितं तथा
34
Keep
अयं सोऽहमिदं तन्म इति मज्जति नात्मवान् ।
अयं सोऽहमिदं तन्म इति मज्जत्यनात्मवान्
35
Keep
सर्वमेवाहमेवेति तत्त्वज्ञो नावसीदति ।
न गृह्णाति पदार्थेषु विभागानर्थभावनम्
36
Keep
तेनासौ भ्रमयोगेषु सुखदुःखविलासिषु ।
न निमज्जति मग्नोऽपि तुम्बीपात्रमिवाम्भसि
37
Keep
त्वं तावद्वासनाजालग्रस्तचित्तो विचेतनः ।
किंचिच्छेषमहाव्याधिरिव न स्वस्थमागतः
38
Keep
ज्ञानस्यापरिपूर्णत्वान्न शक्रोषि मनोभ्रमम् ।
विनिवारयितुं मेघमसम्यग्यत्नवानिव
39
Keep
यदेव ते मनोमात्रे सहसा प्रतिभासते ।
तरुरुच्चजनेनेव तेनैवाक्रम्यसे क्षणात्
40
Keep
चित्तं नाभिः किलास्येह मायाचक्रस्य सर्वतः ।
स्थीयते चेत्तदाक्रम्य तन्न किंचित्प्रबाधते
41
Keep
त्वमुत्तिष्ठ गिरेः कुञ्जे दशवर्षाण्यखिन्नधीः ।
तपः कुरु ततो ज्ञानमनन्तं समवाप्स्यसि
42
Keep
इत्युक्त्वा पुण्डरीकाक्षस्तत्रैवान्तरधीयत ।
वाताभ्रवद्दीपकवद्यमुनोत्पीडवत्क्षणात्
43
Keep
गाधिर्विवेकवशजं वैराग्यपदमागतः ।
शरत्समयपर्यन्ते वैरस्यमिव पादपः
44
Keep
विचित्रं चेष्टितं धातुरसमञ्जसमागतम् ।
भ्रमद्भमभरोन्मुक्तमतिर्मन्दमगर्हयत्
45
Keep
जगाम करुणार्द्रात्मा नियमायोत्तमश्रिये ।
विश्रान्त्यै ऋष्यमूकं तु पयोधर इवाचलम्
46
Keep
। निरस्ताशेषसंकल्पस्तपस्तत्र चकार ह ।
दशवर्षाणि तेनासावात्मज्ञानमवाप ह
47
Keep
। अरमत तदनु स्वां प्राप्य सत्तां महात्मा ह्यपगतभयशोको भोगभूमावनीषु ।
सततमुदितजीवन्मुक्तरूपः प्रशान्तः सकल इव शशाङ्को घूर्णितापूर्णचेताः
Previous
←
Sarga 48
Next
Sarga 50
→