Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 57
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
यदात्ममरिचस्यान्तश्चित्त्वात्तीक्ष्णत्ववेदनम् ।
तदहंतादि भेदादि देशकालादि चेत्यतः
2
Keep
यदात्मलवणस्यान्तश्चित्त्वाल्लवणवेदनम् ।
तदहंतादि भेदादि देशकालादि मत्स्थितम्
3
Keep
स्वतो यदन्तरात्मेक्षोश्चित्त्वान्माधुर्यवेदनम् ।
तदहंतादि भेदादि जगत्तत्त्वादि जृम्भितम्
4
Keep
स्वतो यदात्मदृषदश्चित्त्वात्काठिन्यवेदनम् ।
तदहंतादि भेदादि देशकालादितां गतम्
5
Keep
स्वतो यदात्मशैलस्य ज्ञतया जाड्यवेदनम् ।
तदहंतादि भेदादि भुवनादीति संस्थितम्
6
Keep
स्वतो यदात्मतो यस्य चिद्द्रवत्वादिवर्तनम् ।
तदावर्ताद्यहंतादिभेदाद्याकारिता इव
7
Keep
स्वतो यदात्मवृक्षस्य शाखादिस्तस्य वेदनम् ।
तदहंतादि भेदादि भुवनादीव सत्स्फुरत्
8
Keep
यदात्मगगनस्यान्तश्चित्त्वाच्छून्यत्ववेदनम् ।
तदहंतादि भेदादि भुवनादीति भावनम्
9
Keep
यदात्मगगनस्यान्तश्चित्त्वात्सौषिर्यवेदनम् ।
तदहंतादि भेदादि शरीरादि च दीपितम्
10
Keep
स्वतो यदात्मकुड्यस्य नैरन्तर्यं निरन्तरम् ।
तदहंतादिभेदेन चित्ताद्वहिरिव स्थितम्
11
Keep
स्वतो यदात्मसत्तायाश्चित्त्वात्सत्त्वैकवेदनम् ।
तदहंतादि भेदादि चेतनानीतिवत्स्थितम्
12
Keep
अन्तरात्मप्रकाशस्य स्वतो यदवभासनम् ।
तदहंतादि चित्त्वादि जीव इत्येव वेद सः
13
Keep
अन्तरस्ति यदात्मेन्दोश्चिद्रूपं चिद्रसायनम् ।
स्वत आस्वादितं तेन तदहंतादिनोदितम्
14
Keep
परमात्मगुडस्यान्तर्यच्चित्स्वादूदयात्मकम् ।
तदेवास्वाद्यते तेन स्वतोऽहंतादि नान्तरे
15
Keep
परमात्ममणेश्चित्त्वाद्यदन्तः कचनं स्वयम् ।
चेतनात्मपदे चान्तरहमित्यादि वेत्त्यसौ
16
Keep
न च किंचन वेत्त्यन्तर्वेद्यस्यासंभवादिह ।
न चास्वादयति स्वादु स्वाद्यस्यासंभवादयम्
17
Keep
न च किंचिच्चिनोत्यन्तश्चेत्यस्यासंभवे सति ।
विन्दते न च वा किंचिद्वेद्यस्यासंभवादसौ
18
Keep
असदाभास एवात्मा अनन्तो भरिताकृतिः ।
स्थितः सदैवैकघनो महाशैल इवात्मनि
19
Keep
अनया तु वचोभङ्ग्या मया ते रघुनन्दन ।
नाहंतादिजगत्तादिभेदोस्तीति निदर्शितम्
20
Keep
न चित्तमस्ति नो चेता न जगत्तादिविभ्रमः ।
वृष्टमूकाम्बुदसितं शान्तं शाम्यति केवलम्
21
Keep
यथावर्तादितामेति द्रवत्वाद्वारि वारिणि ।
तदाहंतादितामेति ज्ञप्ता ज्ञप्तौ ज्ञ आत्मनि
22
Keep
यथा द्रवत्वं पयसि यथा स्पन्दः सदागतौ ।
अहंतादेशकालादि तथा ज्ञे ज्ञप्तिमात्रके
23
Keep
ज्ञो ज्ञतायां शिव ज्ञानं जानाति ज्ञानबृंहया ।
ज्ञायतेऽहंतदि ज्ञेन जीवादीत्यभिजीवनैः
24
Keep
यथोदेति ययाऽज्ञस्य तृप्तिर्ज्ञानेन यादृशी ।
अनन्ये वान्यता बुद्धा स तथा जृम्भते तया
25
Keep
जीवनं ज्ञातता ज्ञाता जीवनं जीवजीवनम् ।
अत्यन्तमस्ति नो भेदश्चिद्रूपत्वे ज्ञजीवयोः
26
Keep
यथा ज्ञजीवयोर्नास्ति भेदो नाम तथैतयोः ।
भेदोऽस्ति न ज्ञशिवयोर्विद्धि शान्तमखण्डितम्
27
Keep
सर्वं प्रशान्तमजमेकमनादिमध्य-
माभास्वरं स्वदनमात्रमचेत्यचिह्नम् ।
सर्वं प्रशान्तमिति शब्दमयी तु दृष्टि-
र्बोधार्थमेव हि मुधैव तदोमितीदम्
Previous
←
Sarga 56
Next
Sarga 58
→