Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 62
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
2
Keep
अथैवंप्रायया तत्र विश्रम्भकथया चिरम् ।
प्राक्तनस्नेहगर्भिण्या स्थित्वोवाचायुधाभिधः
2-2
Keep
यद्यत्संसारजालेऽस्मिन्क्रियते कर्म भूमिप ।
तत्समाहितचित्तस्य सुखायान्यस्य नानघ
3
Keep
कच्चित्संकल्परहितं परं विश्रमणास्पदम् ।
परमोपशमं श्रेयः समाधिमनुतिष्ठसि
4
Keep
सुरघुरुवाच ।
एतन्मे ब्रूहि भगवन्सर्वसंकल्पवर्जितम् ।
परमोपशमं श्रेयः समाधिर्हि किमुच्यते
5
Keep
यो ज्ञो महात्मन्सततं तिष्ठन्त्यवहरंश्च वा ।
असमाहितचित्तोऽसौ कदा भवति कः किल
6
Keep
नित्यं प्रबुद्धचित्तास्तु कुर्वन्तोऽपि जगत्क्रियाः ।
आत्मैकतत्त्वसंनिष्ठाः सदैव सुसमाधयः
7
Keep
बद्धपद्मासनस्यापि कृतब्रह्माञ्जलेरपि ।
अविश्रान्तस्वभावस्य कः समाधिः कथं च वा
8
Keep
तत्त्वावबोधो भगवन्सर्वाशातृणपावकः ।
प्रोक्तः समाधिशब्देन नतु तूष्णीमवस्थितिः
9
Keep
समाहिता नित्यतृप्ता यथाभूतार्थदर्शिनी ।
साधो समाधिशब्देन परा प्रज्ञोच्यते बुधैः
10
Keep
अक्षुब्धा निरहंकारा द्वन्द्वेष्वननुपातिनी ।
प्रोक्ता समाधिशब्देन मेरोः स्थिरतराकृतिः
11
Keep
निश्चिन्ताधिगताभीष्टा हेयोपादेयवर्जिता ।
प्रोक्ता समाधिशब्देन परिपूर्णा मनोगतिः
12
Keep
यतःप्रभृति बोधेन युक्तमात्यन्तिकं मनः ।
तदारभ्य समाधानमव्युच्छिन्नं महात्मनः
13
Keep
नहि प्रबुद्धमनसो भूत्वा विच्छिद्यते पुनः ।
समाधिर्दूरमाकृष्टो बिसतन्तुः शिशोरिव
14
Keep
समग्रं दिनमालोकाद्विरमत्यक्षयो यथा ।
आजीवितान्तं नो प्रज्ञा तथा तत्त्वावलोकनात्
15
Keep
अजस्रमम्बुवहनाद्यथा नद्या न रुद्ध्यते ।
तथा विज्ञानदृग्बोधात्क्षणमात्रं न रुद्ध्यते
16
Keep
न विस्मरत्यविरतं यथा कालः कलागतिम् ।
न विस्मरत्यविरतं स्वात्मानं प्राज्ञधीस्तथा
17
Keep
न विस्मरति सर्वत्र यथा सततगो गतिम् ।
न विस्मरति निश्चेयं चिन्मात्रं प्राज्ञ धीस्तथा
18
Keep
गतिं कालकला यद्वच्चिन्वाना समवस्थिता ।
चिच्चितिश्चेत्यरहिता चिन्वाना गतयस्तथा
19
Keep
यथा सत्ताविहीनात्मा पदार्थो नोपलभ्यते ।
तथात्मज्ञानहीनात्मा कालो ज्ञस्य न लभ्यते
20
Keep
न संभवति संसारे गुणहीनो गुणी यथा ।
न संभवत्यात्मसंविद्वर्जितो ह्यात्मवांस्तथा
21
Keep
सर्वदैवास्मि संबुद्धः सर्वदैवास्मि निर्मलः ।
सर्वदैवास्मि शान्तात्मा सर्वदास्मि समाहितः
22
Keep
भेदः केन समाधेर्मे जन्यते कथमेव वा ।
आत्मनोऽव्यतिरेकेण नित्यमेव सदात्मता
23
Keep
तस्मात्कदाचिदपि मे नासमाधिमयं मनः ।
न वा समाहितं नित्यमात्मतत्त्वैकसंभवात्
24
Keep
सर्वगः सर्वदैवात्मा सर्वमेव च सर्वथा ।
असमाधिर्हि कोऽसौ स्यात्समाधिरपि कः स्मृतः
25
Keep
नित्यं समाहितधियः सुसमा महान्तस्तिष्ठन्ति कार्यपरिणामविभागमुक्ताः ।
तेनासमाहितसमाहितभेदभङ्ग्या नित्योदितः क्व नु स उत्तमवाक्प्रपञ्चः
Previous
←
Sarga 61
Next
Sarga 63
→