Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 64
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
सुरघुः परिघश्चैव विचार्येति जगद्भ्रमम् ।
मिथः प्रपूजितौ तुष्टौ स्वव्यापारपरौ गतौ
2
Keep
तदेव राघव श्रुत्वा परमं बोधकारणम् ।
अनेनैव विबोधेन भव लब्धास्पदः स्फुटम्
3
Keep
परया प्रज्ञया धीरविचारगततीक्ष्णया ।
गलत्यलमहंकारकालमेघे हृदम्बरे
4
Keep
समस्तलोकानुमते सफले ह्लादकारिणि ।
निर्मले वितते चेतः शरत्काल उपस्थिते
5
Keep
ध्येये शरण्ये सुगमे सकलानन्दसंपदि ।
सुप्रसन्ने चिदाकाशे स्थीयते परमात्मनि
6
Keep
यो नित्यमध्यात्ममयो नित्यमन्तर्मुखः सुखी ।
नित्यं चिदनुसंधानो मनःशोकैर्न बाध्यते
7
Keep
व्यवहारपरोऽत्युच्चै रागद्वेषमयोऽपि सन् ।
नान्तःकलङ्कमायाति पद्मो जलगतो यथा
8
Keep
सम्यग्विज्ञानवान्शुद्धो योऽन्तःशान्तमना मुनिः ।
न बाध्यते स मनसा करिणेव मृगाधिपः
9
Keep
भोगैकशरणं दीनं न चित्तं ज्ञस्य विद्यते ।
नन्दने दुर्द्रुम इव ज्ञचित्तं हि महावपुः
10
Keep
विरक्तो जन्ममरणे यथा दुःखी न मानवः ।
परिज्ञाताखिलाविद्यं तथा चित्तं न दुःखितम्
11
Keep
परिज्ञातमनोमोहो जगद्भावोद्भवात्मना ।
स्पृश्यते नैनसा साधो रजसेव नभस्तलम्
12
Keep
अविद्यासंपरिज्ञातमिदमेव महौषधम् ।
अविद्याविततव्याधेस्तिमिरस्येव दीपकम्
13
Keep
अविद्या संपरिज्ञाता यदैव हि तदैव हि ।
सा परिक्षीयते भूयः स्वप्नेनेव हि भोगभूः
14
Keep
व्यवहारपरोऽप्यन्तरसक्तमतिरेकधीः ।
स्पृश्यते नैनसा साधुर्मत्स्येक्षणमिवाम्भसा
15
Keep
प्राप्ते चिद्भासुरालोके प्रक्षीणाऽज्ञानयामिनी ।
शेमुषी परमानन्दमागता ज्ञस्य राजते
16
Keep
अज्ञाननिद्रोपशमे जनो ज्ञानार्कबोधितः ।
तत्प्रबोधमवाप्नोति पुनर्येन न मुह्यति
17
Keep
दिनानि जीव्यते तानि सानन्दास्ते क्रियाक्रमाः ।
आत्मचन्द्रोदिता येषु चिज्ज्योत्स्ना हृदयाम्बरे
18
Keep
नरो मोहसमुत्तीर्णः सततं स्वात्मचिन्तया ।
अन्तःशीतलतामेति स्वामृतेनेव चन्द्रमाः
19
Keep
तानि मित्राणि शास्त्राणि तानि तानि दिनानि च ।
विरागोल्लासवान्येभ्य आत्मचित्तोदयः स्फुटम्
20
Keep
चिरं शोचन्ति ते दीना जन्मजङ्गलवीरुधः ।
आत्मावलोकने हेला येषामविगतैनसाम्
21
Keep
आशापाशशतैर्बद्धं भोगोलपसुलालसम् ।
जराजर्जरिताकारं शोकोच्छ्वासकदर्थितम्
22
Keep
व्यूढदुःखमहाभारं जन्मजङ्गलजीवितम् ।
कुकर्मकर्दमालिप्तं मोहपल्वलशायिनम्
23
Keep
रागदंशावलीदष्टं कृष्टं तृष्णावरत्रया ।
मनोवणिङनिकेतस्थं बन्धुबन्धननिश्चलम्
24
Keep
पुत्रदारजराजीर्णे मग्नोन्मग्नं कुकर्दमे ।
श्रान्तं विगतविश्रामं भग्नमादीर्घवर्त्मनि
25
Keep
गमागमपरिक्षीणं संसारारण्यचारिणम् ।
अलब्धशीतलच्छायं तीव्रतापोपतापितम्
26
Keep
आकारभासुरं दीनं बाह्यैराक्रान्तमिन्द्रियैः ।
कर्मघण्टारवाक्रान्तं क्रान्तं दुष्कृतताडनैः
27
Keep
आविर्भावतिरोभावचक्रावर्तधुरोद्वहम् ।
अज्ञानविकटाटव्यां लुठितं सन्नगात्रकम्
28
Keep
निजानर्थसदामग्नं सीदमानमकिंचनम् ।
सन्नाङ्गं कर्मभारेण करुणाक्रन्दकारिणम्
29
Keep
राम जीवबलीवर्दमिमं संसारपल्वलात् ।
परमं यत्नमास्थाय चिरमुत्तारयेद्वलात्
30
Keep
तत्त्वावलोकनात्क्षीणे चित्ते नो जायते पुनः ।
जीवः कदाचन तदा भवेत्तीर्णभवार्णवः
31
Keep
महानुभावसंपर्कात्संसारार्णवलङ्घने ।
युक्तिः संप्राप्यते राम स्फुटा नौरिव नाविकात्
32
Keep
यस्मिन्देशमरौ तज्ज्ञो नास्ति सज्जनपादपः ।
सफलः शीतलच्छायो न तत्र निवसेद्बुधः
33
Keep
स्निग्धशीतवचःपत्रे सच्छाये स्मितपुष्पके ।
क्षणाद्विश्रम्यते राम भृशं सुजनचम्पके
34
Keep
तदभावे महामोहतापसंपत्तिदायिनि ।
किंचिज्जातविवेकेन स्वप्तव्यं नेह धीमता
35
Keep
आत्मैव ह्यात्मनो बन्धुरात्मनात्मैवमुद्धरेत् ।
नात्मानमवलेपेन जन्मपङ्कार्णवे क्षिपेत्
36
Keep
किमिदं कथमायातं किंमूलमिति किंक्षयम् ।
देहदुःखमिति प्राज्ञैः प्रेक्षणीयं प्रयत्नतः
37
Keep
न धनानि न मित्राणि न शास्त्राणि न बान्धवाः ।
नराणामुपकुर्वन्ति मग्नस्वात्मसमुद्धृतौ
38
Keep
मनोमात्रेण सुहृदा सदैव सहवासिना ।
सह किंचित्परामृश्य भवत्यात्मा समृद्धृतः
39
Keep
वैराग्याभ्यासयत्नाभ्यां स्वपरामर्शजन्मना ।
तत्त्वालोकनपोतेन तीर्यते भवसागरः
40
Keep
शोच्यमानं जनैर्नित्यं दह्यमानं दुराशया ।
नात्मानमवमन्येत प्रोद्धरेदेनमादरात्
41
Keep
अहंकारमहालानं तृष्णारज्जुं मनोमदम् ।
जन्मजम्बालनिर्मग्नं जीवदन्तिनमुद्धरेत्
42
Keep
अयमेतावतैवात्मा त्रातो भवति राघव ।
यदपास्य विमूढत्वमहंकारः प्रमार्ज्यते
43
Keep
एतावतैव सन्मार्गे याति प्रकटतामलम् ।
यदपास्य मनोजालमहंभावो विलूयते
44
Keep
एतावतैव देवेशः परमात्मावगम्यते ।
काष्ठलोष्टसमत्वेन देहो यदवलोक्यते
45
Keep
अहंकाराम्बुदे क्षीणे दृश्यते चिद्दिवाकरः ।
ततस्तत्परिणामेन तत्पदं समवाप्यते
46
Keep
यथा ध्वान्तसमुच्छेदे स्वयमालोकवेदनम् ।
तथाहंकारविच्छेदे स्वयमात्मावलोकनम्
47
Keep
अहंकारे परिक्षीणे यावस्था सुखमोदजा ।
सावस्था भरिताकारा सा सेव्या संप्रयत्नतः
48
Keep
परिपूर्णार्णवप्रख्या न वा गोचरमेति नः ।
नोपमानमुपादत्ते नानुधावति रञ्जनम्
49
Keep
केवलं चित्प्रकाशांशकलिका स्थिरतां गता ।
तुर्या चेत्प्राप्यते दृष्टिस्तत्तया सोपमीयते
50
Keep
अदूरगतसादृश्यात्सुषुप्तस्योपलक्ष्यते ।
सावस्था भरिताकारा गगनश्रीरिवातता
51
Keep
मनोहंकारविलये सर्वभावान्तरस्थिता ।
समुदेति परानन्दा या तनुः पारमेश्वरी
52
Keep
सा स्वयं योगसंसिद्धा सुषुप्तादूरभाविनी ।
न गम्या वचसां राम हृद्येवेहानुभूयते
53
Keep
अनुभूतिं विना तत्त्वं खण्डादेर्नानुभूयते ।
अनुभूतिं विना रूपं नात्मनश्चानुभूयते
54
Keep
अखिलमिदमनन्तमात्मतत्त्वं
दृढपरिणामिनि चेतसि स्थितेऽन्तः ।
बहिरुपशमिते चराचरात्मा
स्वयमनुभूयत एव देवदेवः
55
Keep
तदनु विषयवासनाविनाश-
स्तदनु शुभः परमः स्फुटप्रकाशः ।
तदनु च समतावशात्स्वरूपे
परिणमनं महतामचिन्त्यरूपम्
Previous
←
Sarga 63
Next
Sarga 65
→