Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 80
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
इदमन्तः कलयतो भोगान्प्रति विवेकिनः ।
पुरःस्थितानपि सदा स्पृहैवाङ्ग न जायते
2
Keep
चक्षुरालोकनायैव जीवस्तु सुखदुःखयोः ।
भारायैव बलीवर्दो भोक्ता द्रव्यस्य नायकः
3
Keep
नयने रूपनिर्मग्ने क्षोभः क इव देहिनः ।
गर्दभे पल्वले मग्ने कैव सेनापतेः क्षतिः
4
Keep
रूपकर्दममेतन्मानयनास्वादयाधम ।
नश्यत्येतन्निमेषेण भवन्तमपि हिंसति
5
Keep
येनैव संख्या क्रियते येनैवाऽस्वाऽनुगम्यते ।
तदीयैः कर्मभिः क्षिप्रं प्राज्ञः क्रूरो निबध्यते
6
Keep
उत्पन्नध्वंसि चापातमात्रहृद्यमसन्मयम् ।
रूपमाश्रय मा नेत्र विनाशायाविनाशिने
7
Keep
साक्षिवत्त्वं स्थितं नेत्र रूपमात्मनि तिष्ठति ।
आलोकं कालवशतस्त्वमेकं किं प्रतप्यसे
8
Keep
सलिलस्पन्दवद्दृष्टिः पिच्छिकेवाम्बरोत्थिता ।
सुजातिबन्धा स्फुरति तव चित्त किमागतम्
9
Keep
कल्पाम्भसीव शफरी चित्ते स्फुरणधर्मिणि ।
स्वयं स्फुरत्यहंकारस्त्वमयं प्रोत्थितः कुतः
10
Keep
आलोकरूपयोर्नित्यं जडयोः स्फुरतोर्मिथः ।
आधाराधेययोश्चित्तं व्यर्थमाकुलता तव
11
Keep
रूपालोकमनस्काराः परस्परमसङ्गिनः ।
संपन्ना इव लक्ष्यन्ते वदनादर्शबिम्ववत्
12
Keep
अज्ञानजन्तुना ह्येते श्लिष्टा जाता निरन्तराः ।
अज्ञाने ज्ञानगिलिते पृथक्तिष्ठन्त्यसन्मयाः
13
Keep
मनःकल्पनया ह्येते सुसंबद्धाः परस्परम् ।
रूपालोकमनस्कारा दारुणी जतुना यथा
14
Keep
स्वमनोमननं तन्तुर्मनोभ्यासेन यत्नतः ।
विचाराच्छेदमायाति च्छिन्नैवाज्ञानभावना
15
Keep
अज्ञानसंक्षयात्क्षीणे मनसीमे पुनर्मिथः ।
रूपालोकमनस्काराः संघट्टन्ते न केचन
16
Keep
सर्वेषां चित्तमेवान्तरिन्द्रियाणां प्रबोधकम् ।
तदेव तस्मादुच्छेद्यं पिशाच इव मन्दिरात्
17
Keep
चित्त वल्गसि मिथ्यैव दृष्टोऽन्तो भवतो मया ।
आद्यन्तयोः सुतुच्छं त्वं वर्तमाने विनश्यसि
18
Keep
मुधा पञ्चभिराकारैः किमन्तः परिवल्गसि ।
यस्त्वां स्वमिति जानाति तस्यैव परिवल्गसि
19
Keep
त्वद्वल्गनं मे कुमनो न मनागपि तुष्टये ।
मायामनःस्पन्द इव व्यर्थं वृत्तिषु दह्यसे
20
Keep
तिष्ठ वा गच्छ वा चित्त नासि मे न च जीवसि ।
प्रकृत्यासि मृतं नित्यं विचारात्सुमृतं स्मृतम्
21
Keep
निस्तत्त्वं त्वं जडं भ्रान्तं शठं नित्यमृताकृते ।
मूढ एव त्वयाज्ञेन बाध्यो न प्रविचारवान्
22
Keep
वयमज्ञातवन्तस्त्वां मौर्ख्येणाशु मृतं भवत् ।
मृतमस्माकमद्यासि दीपानां तिमिरं यथा
23
Keep
शठेन भवता दीर्घकालं देहगृहं मम ।
उपरुद्धमभूत्सर्व साधुसंसर्गवर्जितम्
24
Keep
जडे प्रेतसमाकारे गते त्वयि मनःशठे ।
सर्वसज्जनसंसेव्यमिदं देहगृहं मम
25
Keep
पूर्वमेवासि नासीस्त्वं संप्रत्येव शठं जगत् ।
न भविष्यसि चेदानीं वेताल किं न लज्जसे
26
Keep
सह तृष्णापिशाचीभिः सह कोपादिगुह्यकैः ।
निर्गच्छ चित्तवेताल शरीरसदनान्मम
27
Keep
दिष्ट्या विवेकमात्रेण निर्गतो देहमन्दिरात् ।
प्रमत्तश्चित्तवेतालः कुवृकः कन्दरादिव
28
Keep
अहो नु चित्रं सुमहज्जडेन क्षणभङ्गिना ।
मनःशठेन सर्वोऽयं नीतो विवशतां जनः
29
Keep
कस्ते पराक्रमः किं ते बलं कस्ते समाश्रयः ।
यदि वल्गसि मामेकं जनानां बाधसे मृतम्
30
Keep
सर्वथैवासि न मया दीनचित्तक मार्यसे ।
मृतमित्यवबुद्धं त्वमद्य केवलमज्ञ हे
31
Keep
एतावन्तमहं कालं त्वां ज्ञात्वा जीवदास्थिति ।
श्लिष्टः प्रभूतसङ्गासु चिरं संसृतिरात्रिषु
32
Keep
चित्तं मृतं हि नास्तीदमित्यद्याधिगतं मया ।
तेन त्वदाशां संत्यज्य तिष्ठाम्यात्मनि केवलम्
33
Keep
दिष्ट्या चित्तं मृतमिति ज्ञातमद्य मया स्वयम् ।
न शठेन समं नेयं समग्रं जीवितं निजम्
34
Keep
उत्सार्य देहसदनान्मनःशठमहं क्षणात् ।
अहं स्वस्थः स्थितोऽस्म्यन्तर्वेतालपरिवर्जितः
35
Keep
चित्तवेताललब्धेन चिरं कालं मयात्मना ।
कृताविकाराविविधाः स्वयं स्मृत्वा हसाम्यहम्
36
Keep
चिरान्निपातितो दिष्ट्या विचारासिपरार्दितः ।
हृद्गेहाच्चित्तवेतालस्तालोत्तालसमुन्नतिः
37
Keep
प्रशान्ते चित्तवेताले पवित्रां पदवीं गते ।
दिष्ट्या शरीरनगरे सुखं तिष्ठामि केवलम्
38
Keep
मृतं मनो मृता चिन्ता मृतोऽहंकारराक्षसः ।
विचारमन्त्रेण समः स्वस्थस्तिष्ठामि केवलम्
39
Keep
किं मनो मे ममाशा का को मेऽहंकारको भवेत् ।
दिष्ट्या व्यर्थं कलत्रं मे नष्टमेतदशेषतः
40
Keep
एकस्मै कृतकृत्याय नित्याय विमलात्मने ।
निर्विकल्पचिदाख्याय मह्यमेव नमो नमः
41
Keep
न शोकोऽस्ति न मोहोऽस्ति न चैवाहमहं स्वयम् ।
नच नाहं नचान्योऽहं मह्यमेव नमो नमः
42
Keep
न ममाशा न कर्माणि न संसारो न कर्तृता ।
न भोक्तृता न देहो मे मह्यमेव नमो नमः
43
Keep
नाहमात्मा न वा कोऽन्यो नाहमस्मि न चेतरः ।
सर्वमेवाहमेतस्मै मह्यमेव नमो नमः
44
Keep
अहमादिरहं धाता चिदहं भुवनान्यहम् ।
मम नास्ति व्यवच्छेदो मह्यमेव नमो नमः
45
Keep
निर्विकाराय नित्याय निरंशाय महात्मने ।
सर्वस्मै सर्वकालाय मह्यमेव नमो नमः
46
Keep
नीरूपाय निराख्याय प्रकाशाय महात्मने ।
स्वयमात्मैकसंस्थाय मह्यमेव नमो नमः
47
Keep
समां सर्वगतां सूक्ष्मां जगदेकप्रकाशिनीम् ।
सत्तामुपगतोऽस्म्यन्तर्मह्यमेव नमो नमः
48
Keep
साद्र्यब्ध्युर्वी नदी सेयं नाहमेवाहमेव वा ।
जगत्सर्वं पदार्थाढ्यं मह्यमेव नमो नमः
49
Keep
व्यपगतमननं समाभिरामं
प्रकटितविश्वमविश्वमप्यनन्तम् ।
स्वयमजमजरं गुणादतीतं
वपुरहमच्युतमीश्वरं नमामि
Previous
←
Sarga 79
Next
Sarga 81
→